आचारकाण्डः - अध्यायः १५१
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
धन्वन्तरिरुवाच ।
हिक्रारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु ।
श्वासैकहेतुः प्राग्रूपं संख्या प्रकृतिसंश्रया ॥१॥
हिक्रा भक्ष्योद्भवा क्षुद्रा यमला महतीति च ।
गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः ॥२॥
रूक्षतीक्ष्णखराशान्तैरन्नपानैः प्रपीडितः ।
करोति हिक्रां श्वसनः मन्दशब्दां क्षुधानुगाम् ॥३॥
समं सन्ध्यान्नपानेन या प्रयाति च सान्नजा ।
आयासात्पवनः क्रुद्धः क्षुद्रां हिक्रां प्रवर्तयेत् ॥४॥
जत्रुमूलात्परिसृता मन्दवेगवन्ती हि सा ।
वृद्धिमायासतो याति भुक्तमात्रे च मार्दबम् ॥५॥
चिरेण यमलैर्वेगैर्या हिक्रा संप्रवर्तते ।
परिणामान्मुखे वृद्धिं परिणामे च गच्छति ॥६॥
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ।
प्रलापच्छर्द्यतीसारनेत्रविप्लुतजृम्भिता ॥७॥
यमला वेगिनी हिक्रा परिणामवती च सा ।
ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः ॥८॥
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुञ्चती ।
तुदन्ती मार्गमाणस्य कुर्वती मर्मघट्टनम् ॥९॥
पृष्ठतो नमनं सार्ष्यं महाहिक्रा प्रवर्तते ।
महाशूला महाशब्दा महावेगा महाबला ॥१०॥
पक्राशयाच्च नाभेर्वा पूर्ववत्सा प्रवर्तते ॥११॥
तद्रूपा सा महत्कुर्याञ्जृम्भणां गप्रसारणम् ।
गम्भीरेण निदानेन गम्भीरा तु सुसाधयेत् ॥१२॥
आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गां च वेगिनीम् ।
सर्वस्य संचितामस्य स्थविरस्य व्यवायिनः ॥१३॥
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च ।
सर्वेऽपि रोगा नाशाय न त्वेवं शाघ्रकारिणः ॥१४॥
हिक्राश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥१५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हिक्रानिदाना नामैकपञ्चाशदुत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP