आचारकाण्डः - अध्यायः १२३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
ब्रह्मोवाच ।
व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् ।
एकभक्तेन नक्तेन मासं वायाचितेन वा ॥१॥
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः ।
सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत् ॥२॥
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने ।
चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम् ॥३॥
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् ।
स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम् ॥४॥
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः ।
स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत् ॥५॥
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् ।
नैवद्यं परमान्नं तु जपेदष्टोत्तरं शतम् ॥६॥
ओं नमो वासुदेवाय घृतव्रीहितिलादिकम् ।
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥७॥
प्रथमेऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितयिक ।
बिल्वपत्रैर्जानुदेशं नाभि गन्धेन चापरे ॥८॥
स्कन्धा बिल्वजवाभिश्च पञ्चमेऽह्नि शिरोर्ऽचयत् ।
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात् ॥९॥
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् ।
नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक् ॥१०॥
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः ।
अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम् ॥११॥
एकादशी द्वादशी च निशान्ते च त्रयोदशी ।
नित्यमेकादशी यत्र तत्र सन्निहितो हरिः ॥१२॥
दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः ।
द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत् ॥१३॥
चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् ।
पौर्णमास्या ममावास्यां प्रतिपन्मिश्रितां मुने ॥१४॥
द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् ।
चतुर्थ्या सङ्गतां नित्यं चतुर्थोञ्चनया युताम् ।
पञ्चमींषष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम् ॥१५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भीष्मपञ्चकादिव्रतं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP