आचारकाण्डः - अध्यायः २१४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
ब्रह्मोवाच ।
अथ स्नानविधिं वक्ष्ये स्नानमूला क्रिया यतः ।
मृद्गोमयतिलान्दर्भान्पुष्पाणि सुरभीणि च ॥१॥
आहरेत्स्नानकाले च स्नानार्थो प्रयतः शुचिः ।
गन्धोदकान्तं विविक्ते (धं) स्थापयेत्तान्यथ क्षितौ ॥२॥
त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः ।
अद्भिर्मृद्भिश्च चरणौ प्रक्षाल्याथ करौ तथा ॥३॥
उपवीती बद्धशिखः सम्यगाचम्य वाग्यतः ।
उरुं राजेत्यृचा तोयमुपस्थाय प्रदक्षिणम् ॥४॥
आवर्तयेत्तदुदकं ये ते शतमितित्र्यृचा ॥५॥
ओं उरुं हि राजा वरुणश्चकार सूर्याय पन्थानमन्वेत वा ।
प्रतिधाता च वक्तारस्ताहृदयाविपश्चित् ।
नमोऽग्न्यरुणाया भिष्टुतोवरुणस्य पाशः ।
वरुणाय नमः ॥६॥
ओं ये ते शतं वरुणये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ।
सुमित्रियान इत्यबञ्जलिमाकृत्योत्तरेण तोयं पश्चाद्विराज्य चैव विनिः क्षिपेत् ।
ओं सुमित्रिया न आप ओषधयः सन्तु ।
दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥७॥
पादौ कटिं चैव पूर्वं मृद्भिस्त्रिभिस्त्रिभिः ।
प्रक्षाल्य हस्ता वाचम्य नमस्कृत्य जलं ततः ॥८॥
ओं इदं विष्णुर्विचक्रमे त्रेधा निधे पदं समूढमस्य पांसुरे ।
महाव्याहृतिभिः पश्चादाचामेत्प्रयतोऽपि सन् ॥९॥
मार्जयेद्वै मृदाङ्गानि इदं विष्णुरिति त्वृचा ।
भास्कराभिमुखो मज्जेदापो अस्मानितित्यृचा ॥१०॥
ओं आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतष्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥११॥
ततोऽवृघृष्य पात्राणि निमज्योन्मज्य वै शनैः ।
गोमयेन विलिप्याथ मानस्तोक इत्यृचा ॥१२॥
ओं मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
मा नो वीरान्रुद्रभामिनोऽबधीर्हविष्मन्तः सदमित्वा हवामहे ॥१३॥
ततोऽभिषिञ्चेन्मन्त्रैस्तु वरुणैस्तु यथाक्रमम् ।
इमंमे वरुणे द्वाभ्यां त्वन्नः सत्वन्न इत्यपि ॥१४॥
आपो त्वन्तुमसीति च मुञ्चन्त्ववभृतेति च ।
ओं इमंमे वरुण श्रुधीहवमद्या च मृडयत्वा मवस्युराचके ॥१५॥
ओं तत्त्वयामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशं समान आयुः प्रमोषीः ।
ओं त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसिप्रमुमुग्ध्यस्मत्स्वाहा ।
ओं स त्वन्नो अग्नेवमो भवती नेदिष्ठो अस्या उषसोव्युष्टौ ।
अवयक्ष्वनो वरुणं रराणो वीहिमृडीकं सुहवो न एधि ।
ओं आपो नौषधि हिंसार्धम्नो राजस्ततो वरुणो नोमुञ्चा यदाहरघ्न्या इति वरुणेति शपार्महे ततो वरुण नो मुञ्च ।
ओं उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमंश्रथाय ।
अथावयमादित्यव्रते तवानागसो अदितये स्याम ।
मुञ्चन्तुमामप्यथाद्वरुणस्य त्वत् ।
अहो यमस्य पत्नीमानः सर्वस्मादेव किल्बिषात् ।
अवभृथनिचं पुनर्विचेरुसि नित्यं प्रन्नः ।
अवदेवैर्देवकृता मनोयासि समवत्यै कृतं पुष्पाच्छा देवधीमल्पाही ॥१६॥
अभिषिच्य तथात्मानं निमज्याचम्य वै पुनः ।
दर्भेण पाययेन्मन्त्रैरलिङ्गैः पावनैरिमैः ॥१७॥
आपोहिष्ठेति तिसृभिरिदमापो हविष्मतीः ।
देवीराप इति द्वाभ्यां आपोदेवा इति त्र्यृचा ॥१८॥
द्रुपदादिव इति च शन्नो देवीरपां रसः ।
आपो देवो पावमान्यः पुनन्त्वाद्या ऋचो नव ॥१९॥
चित्पतिर्मेति च शनैः प्लाव्यात्मनं समाहितः ।
हिरण्यवर्णा इति च पावमान्यस्तथा पराः ॥२०॥
तरत्सामा शुद्धवत्यः पवित्राणि च शक्तितः ।
वारुण्या बहवः पुण्याः शक्तितः संप्रयोजयेत् ॥२१॥
ओं कारेण व्याहृतिभिर्गायत्र्या च समन्वितः ।
आदावन्ते च कुर्वीत अभिषेकं यथाक्रमम् ॥२२॥
जलमध्यस्थितस्यैव मार्जनं तु विधीयते ।
अन्तर्जले जपेन्मन्त्रं त्रिः कृत्वा चाघमर्षणम् ॥२३॥
द्रुपदाद्यास्त्रिरावर्तेदयं गौरिति च त्र्यृचम् ।
अन्यांश्चैव तु मन्त्रान्वा स्मृतिदृष्टान्समाहितः ॥२४॥
सव्याहृतिं सप्रणवां गायत्रीं वा जपेद्बुधः आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णमव्ययम् ॥२५॥
विष्णोरायतनं त्वापः स एवाप्पतिरुच्यते ।
तस्यैवं तनवस्त्वेतास्तस्मात्तं ह्यप्सु संस्मरेत् ॥२६॥
तद्विष्णोरिति मन्त्रेण निमज्याप्सु पुनः पुनः ।
गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥२७॥
ओं इदमापप्रवहता स्वं मलं क्षाललोहितम् ।
यथात्वहोत्रामृतं यच्च शोफे अभीषणम् ॥२८॥
आपो मा तस्मादेनसः पावमानश्च मुञ्चतु इविष्मतो विमा आपोहविष्मानाविरासति ।
हविष्मान् देव असुरो हविष्मानस्तु सूर्यः ।
देवीरापो अपा पत्न्या यश्च ऊर्मिर्हविष्यः इन्द्रियवान्मादित्यन्तनः तं देवेभ्यो देवता दाभुशुक्रलेभ्यस्तेषां भागकर्षिवसिसमुद्रस्य दक्षिण्याग्रयासिमेनापोग्रर्भिरश्मतमोधोः ।
आपो देवी मधुमतीरगृह्णन्तु ह्यन्नती राजस्वतिलाः ।
याभिर्मित्रावरुणस्य सिञ्चयाभिरिन्द्रमनयत्यन्न वाती वद्रुपदां शन्नो देवी अपामसृग्द्वयसंसूर्ये सन्तं समाहितं अपांरसस्य यो रस्य यो गृह्णास्युत्तमम् ।
आपो देवीरुपसूर्य मधुमतीवयस्याय प्रजाभ्यः तासा मास्थानात्वर्जिहतामोषधयः सपिप्पलाः ।
पुनन्तु मा पितरः सौम्यासः पुनन्त्वनापि पिता सहसाः पवित्रेण गतायुषा ।
पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण गतायुषा विश्वमायुर्व्यश्रवैः ।
अग्न आयूंषि परसत्माचरोर्जमिषञ्च त्वचे वावस्वत्वच्छूनाम् ।
पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्वा भूतानि जातवेदः ! पुनीहि मा ।
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूंरनु ।
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ब्रह्मा तेन पुनातु मा ।
पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा ।
उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्मपुनीमहे ।
वैश्वदेवीः पुनती देव्या गृभ्नास्यामिसावक्ष्यस्तान्नोवीत पूज्याः ।
तयामदन्तः सधमादेषु वयं स्याम पतयो रयीणाम् ।
चित्प तिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपूतस्य यत्कामः ।
प्रणितच्छकेयं देवो वाक्पतिर्मा सविता त्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपते ! पवित्रपूतस्य चत्कामः ।
पुनस्तच्छकेयं द्युपतिं अयं गौः पृश्रिरक्रमीसदशशतं मातरं पुनः पितरञ्च प्रयस्मः ।
देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनातच्छकेयम्? ।
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥२९॥
स्नात्वैवं वाससी धौते अच्छिन्ने परिधाय च ।
प्रक्षाल्य च मृदाद्भिश्च हस्तौ प्रक्षाल्य वै तदा ॥३०॥
आचान्ते पुनाराचामेन्मन्त्रेण स्नानभोजने ।
द्रुपदां च त्रिरावर्त्य तथा चैवाघमर्षणम् ॥३१॥
आचम्याप्लाव्य चात्मानं त्रिराचम्यशनेरसून् ।
अथोपतिष्टेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिः ॥३२॥
प्रक्षिप्योदकमद्धूय उदुत्यं चित्रमित्यपि ।
तच्चक्षुर्देव इति च हंसः शुचिषदित्यपि ॥३३॥
एताञ्जपेदूर्ध्वबाहुः सूर्यमीक्ष्य समाहितः ।
गायत्त्रीं च तथा शक्त्या उपस्थाय दिवाकरम् ॥३४॥
विभ्राडित्यनुवाकेन सूक्तेन पुरुषस्य च ।
शिवसङ्कल्पेन च तथा मण्डलब्राह्मणेन च ॥३५॥
दिवाकीर्त्या तथा चान्यैः सौरैर्मन्त्रैश्च शक्तितः ।
जपयज्ञस्तु कर्तव्यः सर्वदेवप्रणीतकैः ॥३६॥
अध्यात्मविद्यां विधिवज्जपेद्वा जपसिद्धये ।
सव्यं कृत्वा त्रिराचम्य श्रियं मेधां धृतिं क्षितिम् ॥३७॥
वाचं वागीश्वरीं पुष्टिं तुष्टिञ्च परितर्पयेत् ।
उमामरुन्धतीं चैव शचीं मातरमेव च ॥३८॥
जयां च विजयां चैव सावित्रीं शान्तिमेव च ।
स्वाहां स्वधां धृतिं चैव तथैवादितिमुत्तमाम् ॥३९॥
ऋषिपत्नीश्च कन्याश्च तर्पयेत्काम्यदेवताः ।
सर्वमङ्गलकामस्तु तर्पयेत्सर्वमङ्गलाम् ॥४०॥
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विदं ब्रुवन् ।
क्षिपेदपोऽञ्जलींस्त्रींश्च कुर्वन्काङ्क्षेत तर्पणम् ॥४१॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्नानविधिविवरणं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP