आचारकाण्डः - अध्यायः १८९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
श्वेतापराजितापुष्परसेनाक्ष्णोश्च पूरणे ।
पटलं नाशमायाति नात्र कार्या विचारणा ॥१॥
मूलं गोक्षुरकस्यैव चर्वित्वा नीललोहित ।
दन्तकीटव्यथा नश्येत्सुरासुरविमर्दन् ॥२॥
नारी पुष्पादिने पीत्वा गोक्षीरेणोपवासतः ।
श्वेतार्कस्य तु वै मूलं तस्यास्तद्गुल्मशूलनुत् ॥३॥
श्वेतार्कपुष्पं विधिना गृहीतं पूर्वमन्त्रितम् ।
ऋतुशुद्धा च ललना कटौ बद्ध्वा प्रसूयते ॥४॥
हस्तबद्धं पलाशस्य अपामार्गस्य वा हर ।
मूलं सर्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥५॥
पीतं वृश्चिकमूलञ्च प्रातः पर्युषिताम्बुना ।
सार्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ॥६॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकाहिनुत् ।
पीतं पर्युषिताद्भिश्च भवेत्सर्वविषापहृत् ॥७॥
यस्य लज्जालुकामूलं दीयते च स्वरेतसा ।
सार्धं स वैरं संयाति पुमान्स्त्री वा न संशयः ॥८॥
पिष्ट्वा गव्यघृतेनैव पाठामूलं पिबेत्तु यः ।
सर्वं विषं विनश्येच्च नात्र कार्या विचारणा ॥९॥
मूलं पर्युषितोदेन शिरीषस्य यथा तथा ।
रक्तचित्रकमूलस्य रसस्य भरणाद्धर ।
कर्णयोः कामलाव्याधिनाशः स्यान्नात्र संशयः ॥१०॥
श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् ।
त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत् ॥११॥
नारिकेलस्य वै पुष्पं छागक्षीरेण संयुतम् ।
पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥१२॥
कुर्यात्सुदर्शनामूलं माल्येन सुसमाहृतम् ।
कण्ठबद्ध त्र्याहिकादिग्रहभूतविनाशनम् ॥१३॥
पुष्पं धवलगुञ्जाया गृहीतं मूलमेव च ।
मुखे तु निहितं रुद्र हरेन्नानाविषं बहु ॥१४॥
हस्ते बद्धं काण्डयुक्तं कण्ठे बद्धं ग्रहादिहृत् ।
कृष्णायान्तु चतुर्दश्यां कटिबद्धं समाहृतम् ।
सिंहादिश्वापदाद्भीतिं हरेच्च नीललोहित ॥१५॥
विष्णुक्रान्तामूलमीश कर्णबद्धन्तु धारयेत् ।
पट्टसूत्रेण भूतेश मकरादिभयं न वै ॥१६॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोननवत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP