आचारकाण्डः - अध्यायः १७४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
धन्वतरिरुवाच ।
घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् ।
शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्चला ॥१॥
अभया च गुडूची च अटरूपकवागुजी ।
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥२॥
कण्टकार्या रसप्रस्थक्षीरप्रस्थममन्वितम् ।
एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥३॥
त्रिफलाचित्रकबलानिर्गुण्डी निम्बवासकाः ।
पुनर्नवा गुडूची च बृहती च शतावरी ॥४॥
एतैर्घृतं यथालाभं सर्वरोगविमर्दनम् ।
बलाशतकषाये तु तैलस्यार्धाढकं पचेत् ।
कल्कैर्मधूकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥५॥
सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः ।
गन्धाश्वजीवनीयैश्च क्षीराढकसमाश्रितम् ॥६॥
एतन्मृद्वग्निना पक्वं स्थापयेद्राजते शुभे ।
सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥७॥
तैलमेतत्प्रशमयेद्वल्याक्यं राजवल्लभम् ।
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥८॥
शतपुष्पं देवदारु मांसी शैलेयकं बला ।
चन्दनं तगरं कुष्टं मनः शिला ज्योतिष्मती ॥९॥
एतैः कर्षसमैः कल्कैः घृतप्रस्थं विपाचयेत् ।
कुव्जवामनपङ्गूनां बधिरव्यङ्गकुष्ठिनाम् ॥१०॥
वायुना भग्नगात्राणां ये च सीदन्ति मैथुने ।
जराजर्जरगात्राणां चाध्मानमुख शोषिणाम् ॥११॥
त्वग्गताश्चापि ये वाता शिरास्नायुगताश्च ये ।
सर्वांस्तान्नाशयत्याशु तैलं रोगकुलान्तकम् ॥१२॥
नारायणमिदं तैलं विष्णुनोक्तं रुगर्दनम् ।
पृथक्तैलं घृतं कुर्यात्समस्तैरौषधैः पृथक् ॥१३॥
शतावर्या गुडूच्या वा चित्रकै गोचनान्वितैः ।
निर्गुण्ड्या वा प्रसारः स्यात्कण्टकार्या रसादिभिः ॥१४॥
वर्षाभूवालया वापि वासकन फलत्रिकैः ।
ब्राहया चैग्ण्डकेनापि भृङ्गराजेन कुष्टिना ॥१५॥
मुसल्या दशमूलेन खदिरेण वटादिभिः ।
वटिका मोदको वापि चूर्ण स्यात्सर्वरोगनुत् ॥१६॥
घृतेन मधुना वापि अद्भिः खण्डगुडादिभिः ।
लवणैः कटुकैर्युक्तं यथालाभं च गेगनुत् ॥१७॥
चित्रकार्कत्रिवृद्वापि यवानीहयमारकम् ।
सुधां च बालां गणिकां सप्तपर्णसुवर्चिकाम् ॥१८॥
ज्योतिष्मतीञ्च संभृत्य तैलं धीरो विपाचयेत् ।
एतन्निष्यन्दनं तैलं भृशं दद्याद्भगन्दरे ॥१९॥
शोधनं गेपणं चैव सर्ववर्णकरं परम् ।
चित्रकाद्यं महातैलं सर्वरोगप्रभञ्जनम् ॥२०॥
अजमोदं ससिन्दूरं हरितालं निशाद्वयम् ।
क्षारद्वयं फेनयुतमार्द्रक सर (शवः लोद्भवम् ॥२१॥
इन्द्रवारुण्यपामार्गकदलैः स्यन्दनैः समम् ।
एभिः सर्षपजं तैलमजामूत्रैश्चयोजितम् ॥२२॥
मृद्वग्निना पचेदेत्गव्यक्षीरेण संयुतम् ।
अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥२३॥
विदग्धस्तु पचेत्पक्वं चैव विशोधयेत् ।
रोपणं मृदुभावं च तैलेनानेन कारयेत् ॥२४॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्राह्मीघृतादिवर्णनं नाम चतुः सप्तत्युत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP