आचारकाण्डः - अध्यायः १७५
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
रुद्र उवाच ।
एवं धन्वन्तरिर्विष्णुः सुश्रुतादीनुवाच ह ।
हरिः पुनर्हरायाह नानायोगान्रुगर्दनान् ॥१॥
हरिरुवाच ।
सर्वज्वरेषु प्रथमं कार्यं शङ्कर लङ्घनम् ।
क्वथितोदकपानं च तथा निर्वातसेवनम् ॥२॥
अग्निस्वेदाज्ज्वरास्त्वेवं नाशमायान्तिहीश्वर ।
वातज्वरहरः क्वाथो गुडूच्या मुस्तकेन च ॥३॥
दुरालभैश्चैव घृतं पित्तज्वरहरः शृणु ।
शुण्ठीपर्पटमुस्तैश्च बालकोशीरचन्दनैः ॥४॥
साज्यः क्वाथः श्लेष्मजं तु सशुण्ठिः सदुरालभः ।
सवालकः सर्वज्ज्वरं सशुण्ठिः सहपर्पटः ॥५॥
किराततिक्तैर्नारीगुडूचीशुण्ठिमुस्तकैः ।
पित्तज्वरहरः स्याच्च शृण्वन्यं योगमुत्तमम् ॥६॥
वालकोशीरपाठाभिः कण्टकारिकमुस्तकैः ।
ज्वरनुच्च कृतः क्वाथस्तथा वै सुरदारुणा ॥७॥
धन्याकनिम्बमुस्तानां समधुः स तु शङ्कर ।
पटोलपत्रयुक्तस्तु गुडूचीत्रिफलायुतः ॥८॥
पीतोऽखिलज्वरहरः क्षुधाकृद्वातनुत्त्विदम् ।
हरीतकीपिप्लीनामामलीचित्रकोद्भवम् ॥९॥
चूर्णं ज्वरं च क्वथितं धान्य (धन्या) कोशीरपपर्पटैः ।
आमलक्या गुडूच्या च मधुयुक्तं सचन्दनम् ॥१०॥
समस्तज्वरनुच्च स्यात्सन्निपातहरं शृणु ।
हरिद्रानिम्बत्रिफलामुस्तकैर्देवदारुणा ॥११॥
कषायं कटुरोहिण्या सपटोलं सपत्रकम् ।
त्रिदोषज्वरनुच्चस्यात्पीतं तु क्वथितं जलम् ॥१२॥
कण्टकार्या नागरस्य गुडूच्या पुष्करेण च ।
जग्ध्वा नागबलाचूर्णं श्वसकासादिनुद्भवेत् ॥१३॥
कफवातज्वरे देयं जलमुष्णं पिपासिने ।
विश्वपर्पटकोशीरमुस्तचन्दनसाधितम् ॥१४॥
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ।
बिल्वादिप पञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ॥१५॥
पाचनं पिप्पलीमूलं गुडृचीविश्वभेषजम् ।
वातज्वरे त्वयं क्वाथो दत्तः शान्तिकरः परः ॥१६॥
पित्तज्वरघ्नः समधुः क्वाथः पर्पटनिम्बयोः ।
विधाने क्रियमाणेऽपि य्सय संज्ञा न जायते ॥१७॥
पादयोस्तु ललाटे वा दहेल्लौहशलाकया ।
तिक्ता पाठा पर्पटाश्च विशाला त्रिफला त्रिवृत् ।
सक्षीरो भेदनः क्वाथः सर्वज्वरविशोधनः ॥१८॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरहरनानायोगादिवर्णनं नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP