आचारकाण्डः - अध्यायः २२९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
सूत उवाच ।
अशेषलोकनाथस्य सारमाराधनं हरेः ।
दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च ॥१॥
अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् ।
यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥२॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत् ॥३॥
नरके पच्यमानस्तु यमेन परिभाषितः ।
किन्त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥४॥
उदकेनाप्यभावेन द्रव्याणामर्चितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न चार्चितः ॥५॥
न तत्करोति सा माता न पिता नापि बान्धवः ।
यत्करोति हृषीकेशः सन्तुष्टः श्रद्धयार्चितः ॥६॥
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥७॥
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥८॥
सम्पदैश्वर्यमाहात्म्यैः सन्तत्या न च कर्मणा ।
विमुक्तैश्चैकता लभ्या मूलमाराधनं हरेः ॥९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजानिरूपणं नामैकोनत्रिशदुत्तरद्विशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP