आचारकाण्डः - अध्यायः ५
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥ हरिरुवाच ॥
कृत्वेहामुत्रसंस्थानं प्रजासर्गं तु मानसम् ॥
अथासृजत्प्रजाकर्तॄन्भानसांस्तनयान्प्रभुः ॥१॥
धर्मं रुद्रं मनुं चैव सनकं च सनातनम् ॥
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ॥२॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥
वसिष्ठं नारदं चैव पितॄन्बर्हिषदस्तथा ॥३॥
अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः ॥
उपहूतांस्तथा दीप्यां (प्रा) स्त्रींश्च मूर्तिविवर्ज्जितान् ॥४॥
चतुरो मूर्त्तियुक्तांश्च अंगुष्ठाद्दक्षमीश्वरम् ॥
वामां गुष्ठात्तस्य भार्य्यामसृजत्पद्मसम्भवः ॥५॥
तस्यां तु जनयामास दक्षो दुहितरः शुभाः ॥
ददौ ता ब्रह्मपुत्रेभ्यः सतीं रुद्राय दत्तवान् ॥६॥
रुद्र पुत्रा बभूवुर्हि असंख्याता महाबलाः ॥
भृगवे च ददौ ख्यातिं रूपेणाप्रतिमां शुभाम् ॥७॥
भृगोर्धाताविधातारौ जनयामास सा शुभा ॥
श्रियं च जनयामास पत्नी नारायणस्य या ॥८॥
तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम् ॥
आयतिर्नियतिश्चैव मनोः कन्ये महात्मनः ॥९॥
धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ॥
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ॥१०॥
पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ॥
विरजः सर्वगश्चैव तस्य पुत्रौ महात्मनः ॥११॥
स्मृतेश्चांङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा ॥
सिनीबाली कुहूश्चैव राका चानुमतिस्तथा ॥१२॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ॥
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥१३॥
प्रीत्यां पुलस्त्यभार्य्यायां दत्तोलिस्तत्सुतोऽभवत् ॥
कर्म्मशश्चार्थवीरश्च सहिष्णुश्च सुतत्रयम् ॥१४॥
क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः ॥
क्रतोश्च सुमतिर्भार्य्या बालखिल्यानसूयत ॥१५॥
षष्टिर्यानि सहस्त्राणि ऋषीणामूर्द्धरेतसाम् ॥
अंगुष्ठपर्वमात्राणां ज्वलद्भास्करवर्चसाम् ॥१६॥
ऊर्ज्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः ॥
रजोगात्रोर्द्धबाहुश्च शरणश्चानघस्तथा ॥१७॥
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमताः ॥
स्वाहां प्रादात्स दक्षोऽपि स शरीराय वह्नये ॥१८॥
तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो हर ! ॥
पावकं पवमानं च शुचिं चापि जलाशिनः ॥१९॥
पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा ॥
ते उभे ब्रह्मवादिन्यौ मेनायां तु हिमाचलः ॥२०॥
मैनाकं जनयामास गौरीं पूर्वं तु या सती ॥
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायंभुवं प्रभुः ॥२१॥
आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर ! ॥
शतरूपां च तां नारीं तपोनिहतकल्मषाम् ॥२२॥
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥२३॥
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञिते ॥
देवहूतिं मनुस्तासु आकूतिं रुचये ददौ ॥२४॥
प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे ॥
रुचेर्यज्ञो दक्षिणाभूद्दक्षिणायां च यज्ञतः ॥२५॥
अभवन्द्वादश सुता यामो नाम महाबलाः ॥
चतुर्विंशतिकन्याश्च सृष्टवान्दक्ष उत्तमाः ॥२६॥
श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥
बुद्धिर्लज्जा वपुः शान्तिर्ऋद्धिः कीर्त्तिस्त्रयोदशी ॥२७॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः ॥
ख्यतिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥२८॥
सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा ॥
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ॥२९॥
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥
आत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥३०॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ॥३१॥
सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥
मेधा श्रुतं क्रिया दण्डं लयं विनयमेव च ॥३२॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ॥
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥३३॥
सुखमृद्धिर्यशः कीर्त्तिरित्येते धर्मसूनवः ॥
कामस्य च रतिर्भार्य्या तत्पुत्रो हर्ष उच्यते ॥३४॥
ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः ॥
तस्य जामातरः सर्वे यज्ञं जग्मुर्निमन्त्रिताः ॥३५॥
भार्य्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना ॥
अनाहूता सती प्राप्ता दक्षेणैवावमानिता ॥३६॥
त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात् ॥
शम्भोर्भार्य्याभवद्गौरी तस्यां जज्ञे विनायकः ॥३७॥
कुमारश्चैव भृंगीशः क्रुद्धो रुद्रः प्रतापवान् ॥
विध्वंस्य यज्ञं दक्षं तु तं शशाप पिनाकधृक् ॥
ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि ॥३८॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP