आचारकाण्डः - अध्यायः २२३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
ब्रह्मोवाच
मुनिभिश्चरिता धर्मा भक्त्या व्यास मयोदिताः ।
यैर्विष्णुस्तुष्यते चैव सूर्यादिपरिचारणात् ॥१॥
तर्पणेन च होमेन सन्ध्याया वन्दनेन च ।
प्राप्यते भगवान् विष्णुर्धर्मकामार्थमोक्षदः ॥२॥
धर्मो हि भगवान्विष्णुः पूजी विष्णोस्तु तर्पणम् ।
होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ॥३॥
सूच उवाच ।
प्रलयं जगतो वक्ष्ये तत्सर्वं शृणु शौनक ।
चतुर्युगसहस्रन्तु कल्पैकाब्जदिनं स्मृतम् ॥४॥
कृतत्रेताद्वापरादियुगावस्था निबोधमे ।
कृते धर्मश्चतुष्पाच्च सत्यं दानं तपो दया ॥५॥
धर्मपाता हरिश्चेति सन्तुष्टा ज्ञानिनो नराः ।
चतुर्वंषर्सहस्राणि नरा जीवन्ति वै तदा ॥६॥
कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्विजैः ।
शूरश्चातिबलो विष्णू रक्षांसि च जघान ह ॥७॥
त्रेतायुगे त्रिपाद्धर्मः सत्यदानदयात्मकः ।
नरा यज्ञपरास्तस्मिंस्तथा क्षत्रोद्भवं जगत् ॥८॥
रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः ।
तत्र विष्णुर्भोमरथः क्षत्रिया राक्षसानहन् ॥९॥
द्विपादविग्रो धर्मः पीताञ्चाच्युते गते ।
चतुः शतायुषो लोका द्विजक्षत्रोद्भवाः प्रजाः ॥१०॥
तत्र दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक् ।
तदेकन्तु यजुर्वेदं? चतुर्धा व्यभजत्पुनः ॥११॥
शिष्यानध्यापयामास समस्तांस्तान्निबोध मे ।
ऋग्वेदमथ पैलन्त्सामवेदञ्च जैमिनिम् ॥१२॥
अथर्वाणं सुमन्तुन्तु यजुर्वेदं महामुनिम् ।
वैशम्पायनमङ्गन्तु पुराणं सूतमेव च ।
अष्टादशपुराणानि यैर्वेद्यो हरिरेव हि ॥१३॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितच्चैव पुराणं पञ्चलक्षणम् ॥१४॥
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा ।
भविष्यन्नारदीयञ्चस्कान्दं लिङ्गं वराहकम् ॥१५॥
मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्तमेव च ।
कौर्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम् ।
अष्टादशसमुद्दिष्टं ब्रह्माण्डमिति संज्ञितम् ॥१६॥
अन्यान्युपपुराणानि मुनिभिः कथितानि तु ।
आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥१७॥
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ।
चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥१८॥
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् ।
कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥१९॥
ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च ।
माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् ।
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥२०॥
पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने ।
न्यायः शौनक मीमांसा आयुर्वेदार्थशास्त्रकम् ।
गान्धर्वश्च धनुर्वेदो विद्या ह्यष्टादशस्मृताः ॥२१॥
द्वापरान्तेन च हरिर्गुरुभारमपाहरत् ।
एकपादस्थिते धर्मे कृष्णत्वञ्चाच्युते गते ॥२२॥
जनास्तदा दुराचारा भविष्यन्ति च निर्दयाः ।
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।
कालसञ्चोदितास्तेऽपि परिवर्तन्त आत्मनि ॥२३॥
प्रभूतञ्च यदा सत्त्वं मनो बुर्धोन्द्रियाणि च ।
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ॥२४॥
यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम् ।
तदा त्रेता रजोभूतिरिति जानीहिशौनक ॥२५॥
यदा लोभस्त्वसन्तोषो मानो दम्भश्च मत्सरः ।
कर्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः ॥२६॥
यदा सदानृतं नन्द्रा निद्रा हिंसादिसाधनम् ।
शोकमोहौ भयं दैन्यं स कलिस्तमसि स्मृतः ॥२७॥
यस्मिञ्जनाः कामिनः स्युः शश्वत्कटुकभाषिणः ।
दस्यूत्कृष्टा जनपदावेदाः पाषण्डदूषिताः ॥२८॥
राजानश्च प्रजाभिक्षाः शिश्रोदरपराजिताः ।
अव्रता वटचवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥२९॥
तपस्विनोग्रामवासाः न्यासिनो ह्यर्थलोलुपाः ।
ह्रस्वकाया महाहाराश्चौरास्ते साधवः स्मृताः ॥३०॥
त्यक्ष्यन्ति भृत्याश्च पतिं तापसस्त्यक्ष्यति व्रतम् ।
शूद्राः प्रतिग्रहिष्यन्ति वैश्या व्रतपरायणः ॥३१॥
उद्विग्नाः सन्ति च जनाः पिशाचसदृशाः प्रजाः ।
अन्यायभोजनेनाग्निदेवतातिथिपूजनम् ॥३२॥
करिष्येन्ति कलौ प्राप्ते न च पित्र्योदकक्रियाम् ।
स्त्रीपराश्च जनाः सर्वे शूद्रप्रायाश्च शौनक ॥३३॥
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ।
शिरः कण्डूयनपरा आज्ञां भेत्स्यन्ति भर्त्सिताः ॥३४॥
विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ।
कलेर्देषनिधेर्विप्रा अस्ति ह्येको महागुणः ॥३५॥
कीर्तनादेव कृष्णस्य महाबन्धं परित्यजेत् ।
कृते यद्य्यायतो विष्णुं त्रेतायां जपतः फलम् ॥३६॥
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ।
तस्माद्ध्येयो हरिर्नित्यं गेयः पूज्यश्च शौनक ॥३७॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे युगधर्मकथनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP