आचारकाण्डः - अध्यायः ४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥रुद्र उवाच ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
वंशानुचरितं चैव एतद् ब्रूहि जनार्दन ॥१॥
॥ हरिरुवाच ॥
श्रृणु रुद्र प्रवक्ष्यामि सर्गादीन्पापनाशनान् ॥
सर्गस्थितिप्रलयान्तां तां विष्णोः क्रीडां पुरातनीम् ॥२॥
नरनारायणो देवो वासुदेवो निरंजनः ॥
परमात्मा परं ब्रह्म जगज्जनिलयादिकृत् ॥३॥
तदेतत्सर्वमेवैतव्द्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥४॥
व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च ॥
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ॥५॥
अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥
तस्माद्भवति चाव्यक्तं तस्मादात्मापि जायते ॥६॥
तस्माहुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥
तस्मात्तेजस्ततस्त्वापस्ततो भूमिस्ततोऽभवत् ॥७॥
अण्डो हिरण्मयो रुद्र । तस्यान्तः स्वयमेव हि ॥
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥८॥
ब्रह्मा चतुर्मुखो भूत्वा रजोमात्राधिकः सदा ॥
शरीरग्रहणं कृत्वाऽसृजदेतच्चराचरम् ॥९॥
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ॥१०॥
अपसंह्रियते चान्ते संहर्त्ता च स्वयं हरि ॥
ब्रह्मा भूत्वासृजद्विष्णुर्जगत्पाति हरिः स्वयम् ॥११॥
रुद्ररूपी च कल्पान्ते जगत्संहरतेऽखिलम् ॥
ब्रह्मा तु सृष्टिकालेऽस्मिञ्जमध्यगतां महीम् ॥१२॥
दंष्टूयोद्धरति ज्ञात्वा वारहीमास्थितस्तनूम् ॥
देवादिसर्गाद्वक्ष्येऽहं संक्षेपाच्छृणु शङ्कर ! ॥१३॥
प्रथमो महतः सर्गो विरूपो ब्रह्मणस्तु सः ॥
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥१४॥
वैकारिकस्तृतीयस्तु सर्गस्त्वैन्द्रियकः स्मृतः ॥
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥१५॥
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥
तिर्य्यक्स्त्रोतास्तु यः प्रोक्तस्तिर्य्यग्योन्यः स उच्यते ॥१६॥
तदूर्द्धस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥
ततोऽर्वाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥१७॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः ॥
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥१८॥
प्राकृतो वैकृतश्चापि कौमारो नवमः स्मृतः ॥
स्थावरान्ताः सुराद्यास्तु प्रजा रुद्र ! चतुर्विधाः ॥१९॥
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः सुताः ॥
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम् ॥२०॥
सिसृक्षुरम्भांस्येतानि स्वमात्मानमपूजयत् ॥
मुक्तात्मनस्तमोमात्रादुद्रिक्तास्तत्प्रजापतेः ॥२१॥
सिसृक्षेर्जघनात्पूर्वमसुरा जज्ञिरे ततः ॥
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनूम् ॥२२॥
तमोमात्रा तनुस्त्यक्ता शङ्कराभूद्विभावरी ॥
यक्षोपक्षांसि तद्देहे प्रीतिमापुस्ततः सुराः ॥२३॥
सत्त्वोद्रिक्तास्तु मुखतः संभूता ब्रह्मणो हर ! ॥
सत्त्वप्राया तनुस्तेन सन्त्यक्ता साप्यभूद्दिनम् ॥२४॥
ततो हि बलिनो रात्रावसुरा देवता दिवा ॥
सत्त्वमात्रां तनुं गृह्य पितरश्च ततोऽभवन् ॥२५॥
सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थितिः ॥
रजोमात्रां तनुं गृह्य मनुष्यास्त्वभवंस्ततः ॥२६॥
सा त्यक्ता चाभवज्ज्योत्स्त्रा प्राक्सन्ध्या याभिधीयते ॥
ज्योत्स्ना रात्र्यहनी सन्ध्या शरीराणि तु तस्य वै ॥२७॥
रजोमात्रां तनु गृह्य क्षुदभूत्कोप एव च ॥
क्षुत्तृट्क्षामा अमृग्भक्षा राक्षसा रक्षणाच्च ये ॥२८॥
यक्षाख्या यक्षणाज्ज्ञेयाः सर्पा वै केशसर्पणात् ॥
जाताः कोपेन भूतास्ते गन्धर्वा जज्ञिरे ततः ॥२९॥
गायन्तो जज्ञिरे वाचं गन्धर्वाप्सरसश्च ये ॥
स्वर्गं द्यौर्वक्षसश्चक्रे सुखतोऽजाः स सृष्टवान् ॥३०॥
सृष्टवानुदराद्राश्च पार्श्वाभ्यां च प्रजापतिः ॥
पद्भ्यां चैवांत्यमातङ्गान्महिषोष्ट्राविकांस्तथा ॥३१॥
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥
गौरजः पुरुषो मेध्यो ह्यश्वाश्वतरगर्दभाः ॥३२॥
एतान् ग्राम्यान्पशून्प्राहुरारण्यांश्च निबोध मे ॥
श्वापदं द्विखुरं हस्तिवानराः पक्षिपञ्चमाः ॥३३॥
औदकाः पशवः षष्ठाः सप्तमाश्च सरीसृपाः ॥
पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे ॥३४॥
आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियाः स्मृताः ॥
ऊरुभ्यां तु विशः सृष्टाः शूद्रः पद्भ्यां जायत ॥३५॥
ब्रह्मलोको ब्राह्मणानां शाक्रः क्षत्त्रियजन्मनाम् ॥
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ॥३६॥
ब्रह्मचारिव्रतस्थानां ब्रह्मलोकः प्रजायते ॥
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ॥३७॥
स्थानं सप्तऋषीणां च तथैव वनवासिनाम् ॥
यतीनामक्षयं स्थानं यदृच्छागामिनां सदा ॥३८॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सृष्टिवर्णनं नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP