आचारकाण्डः - अध्यायः १५९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
धन्वन्वरिरुवाच ।
प्रमेहाणां निदानन्ते वक्ष्येऽहं शृणु सुश्रुत ! ।
प्रमेहा विंशतिस्तत्र श्लेष्मणो दश पित्ततः ॥१॥
षट्चत्वारोऽनिलात्तेच मेदोमत्रकफावहाः ।
हारिद्रमेही कटुकं हरिद्रासन्निभं शकृत् ॥२॥
विस्त्रं माञ्जिष्ठमेहेच मञ्जिष्ठा सलिलोपमम् ।
विस्त्रमुष्णं सलवणं रक्ताभ रक्तमेहतः ॥३॥
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः ।
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥४॥
हस्ती मत्त इवाजस्त्रं मूत्रं वेगविवर्जितम् ।
सलसीकं विवद्धं च हस्तिमेही प्रमेहति ॥५॥
मधुमेही मधुसमं जायते स किल द्विधा ।
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथे यदा ॥६॥
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत् ।
क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाघ्यताम् ॥७॥
कालेनोपेक्षितः सर्वोह्यायाति मधुमेहताम् ।
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ॥८॥
सर्वे ते मधुमेहाख्या माधुर्याच्च तनोर्यतः ।
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः ॥९॥
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ।
बस्तिमेहनयोस्तोदोमुष्कावदरणं ज्वरः ॥१०॥
दाहस्तृष्णाम्लिका मूर्छा विड्भेदः पित्तजन्मनाम् ।
वातजानामुदावर्तः कम्पहृद्गहलोलताः ॥११॥
शूलमुन्निद्राता शोषः श्वासः कासञ्च जायते ।
शराविका कच्छपिका ज्वालिनी विनतालजी ॥१२॥
मसूरिका सर्षपिका पुत्रिणी सविदारिका ।
विद्रधिश्चेति पिडिकाः प्रमेहोपेक्षया दश ॥१३॥
अन्नस्य कफसंश्लेषात्प्रायस्तत्र प्रवर्तनम् ।
स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतम् ॥१४॥
नवं धान्यं सुरासूपमांसेक्षुगुडगोरसम् ।
एकस्थानासनवति शयनं विनिवर्तनम् ॥१५॥
बस्तिमाश्रित्य कुरुते प्रमेहाद्दूषितः कफः ।
दूषयित्वा वपुः क्लेदं स्वेदमेदोवसामिषम् ॥१६॥
पित्तं रक्तमतिक्षीणे कफादौ मूत्रसंश्रयम् ।
धातुं बस्तिमुपानीय तत्क्षयेच्चैव मारुतः ॥१७॥
साध्यासाध्यप्रतीत्याद्याः मेहास्तेनैव तद्भवाः ।
समे समकृता दोषे परमत्वात्तथापि च ॥१८॥
सामान्य लक्षणन्तेषां प्रभूताविलमूत्रता ।
दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ॥१९॥
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ।
अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ॥२०॥
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् ।
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ॥२१॥
सान्द्री भवेत्पर्युषितं सान्द्रमेहेन मेहति ।
सुरामेही सुरातुल्यमुपर्यच्छमधोघनम् ॥२२॥
सहृष्टरोमा पिष्टेन पिष्टबद्बहुलं सितम् ।
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥२३॥
मूत्रयेत्सिकतामेही सिकतारूपिणो मलान् ।
शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥२४॥
शनैः शनैः शनैर्मेही मन्दं मन्दंप्रमेहति ।
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥२५॥
गन्धवर्णरसस्पर्शेः क्षारेण क्षारतोयवत् ।
नीलमेहन नीलाभं कालमेही मसीनिभम् ॥२६॥
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ।
अन्तोन्नता मध्यनिन्मा अक्लेदसुरुजान्विता ॥२७॥
शरावमानसंस्थाना पिडिका स्याच्छराविका ।
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः ॥२८॥
महती पिडिका नीला विनता नाम सा स्मृता ।
दहति त्वचमुत्थाने ज्वालिनी कष्टदायिनी ॥२९॥
रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत् ।
मसूराकृति संस्थाना विज्ञेया तु मसूरिका ॥३०॥
सर्षपोपमसंस्थाना जिह्वापाकमहारुजा ।
पुत्रिणी महती चाल्पा सुसूक्ष्मा पिडिका स्मृता ॥३१॥
विदारीकन्दवद्वृत्ता कठिना च विदारिका ।
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥३२॥
पुत्रिणी च विदारी च दुः सहा बहुमेदसः ।
सद्यः पित्तोल्बणास्त्वन्याः सम्भवन्त्यल्पमेदसः ॥३३॥
पिडिकास्ता भवेयुः स्याद्दोषोद्रेको यथायथम् ।
प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः ॥३४॥
तावच्च नोपलक्ष्यन्ते यावद्वर्णञ्च वर्जितम् ।
हारिद्रं रक्तवर्णं वा मेहप्राग्रूपवर्जितम् ॥३५॥
यो मूत्रयेत तन्महें रक्तपित्तन्तु तद्विदुः ।
स्वेदोऽङ्गगान्धः शिथिलत्वमङ्गे श्य्याशनस्वप्नसुखाभिषङ्गः ।
हृन्नेत्रजिह्वाश्रवणोपदाहा घनोग्रता केशनखाभिवृद्धिः ॥३६॥
शीतप्रियत्वं गलतालुशोषो माधुर्य मास्ये करपाददाहः ।
भविष्यतो मेहगणस्य रूपं मूत्रेऽपि धावन्ति पिपीलिकाश्च ॥३७॥
तृष्णा प्रमेहे मधुरं प्रपिच्छं मध्वामये स्याद्विविधोविकारः ।
सम्पूरणाद्वा कफसम्भवः स्यात्क्षीणेषु दोषेष्वनिलात्मको वा ॥३८॥
सम्पूर्णरूपाः कफपित्तमेहाः क्रमेण ये वै रतिसम्भवाश्च ।
सक्रामते पित्तकृतास्तु याप्याः साध्योऽस्ति मेहो यदि नास्ति दिष्टम् ॥३९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रमेहनिदान नामैकोनषष्ट्युत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP