संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ११

आचारकाण्डः - अध्यायः ११

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि ॥
जीवमुत्क्षिप्य मूर्द्धन्यां नाभ्यां व्योम्निनिवेशयेत् ॥१॥

ततोरमिति बीजेन दहेद्भूतात्मकं वपुः ॥
यमित्यनेन बीजेन तच्च सर्व विनाशयेत् ॥२॥

लमित्यनेन बीजेन प्लावयेत्सचराचरम् ॥
वमित्यनेन बीजेन चिन्तयेदमृतं ततः ॥३॥

ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः ॥
अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत् ॥४॥

मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः ॥
द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम् ॥५॥

षडङ्गेन ततः कुर्य्यात्साक्षाद्येन हरिर्भवेत् ॥
दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठंदले न्यसेत् ॥६॥

मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः ॥
हृच्छिरसि शिखावर्म्मवक्क्राक्ष्युदहपृष्ठतः ॥७॥

बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् ॥
पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठं निवेशयेत् ॥८॥

चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् ॥
क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत् ॥९॥

ततो मूर्द्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा ॥
नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात् ॥१०॥

पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् ॥
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम् ॥११॥

करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः ॥
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ॥१२॥

शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ ॥
नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः ॥१३॥

तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् ॥
हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः ॥१४॥

धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् ॥
आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत् ॥१५॥

एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् ॥
अनन्तं विन्यसेत्पश्चात्पूर्वकायोन्नतं स्थितम् ॥१६॥

ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् ॥
सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्द्धकर्णिकम् ॥१७॥

ध्यात्वा वेदादिना पश्चात्सूर्य्यसोमानलात्मनाम् ॥
मण्डलानि क्रमादेवमुपर्य्युपरि चिन्तयेत् ॥१८॥

ततः पूर्वादिदिक्‌संस्थाः शक्तीः केशवगोचराः ॥
विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम् ॥१९॥

एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् ॥
मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः ॥२०॥

हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः ॥
मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः ॥२१॥

सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः ॥
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ॥२२॥

सुदर्शनं सहस्त्रारं दक्षिणे द्वारि विन्यसेत् ॥
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ॥२३॥

द्वार्य्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् ॥
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ॥२४॥

तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् ॥
ततोऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत् ॥२५॥

वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् ॥
ऊर्घ्वं ब्रह्म तथानन्तमधश्च परिचिन्तयेत् ॥२६॥

सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः ॥
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी ॥२७॥

वन्दनी हृदयासक्तात्सार्द्धं दक्षिणतोन्नता ॥
ऊर्द्धाङ्गुष्ठो वाममुष्टिर्दक्षिणांगुष्ठबन्धनः ॥२८॥

सव्यस्य तस्य चांगुष्ठो यः स उद्ध्‌र्वः प्रकीर्त्तितः ॥
तिस्त्रः साधारणा ह्येता मूर्त्तिभेदेन कल्पिताः ॥२९॥

कनिष्ठादिप्रयोगेण अष्टौ मुद्रा यथाक्रमम् ॥
अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत् ॥३०॥

अंगुष्ठेन कनिष्ठान्तं नामयित्वांगुलित्रयम् ॥
मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम् ॥३१॥

सव्यहस्तं तथोत्तानं कृत्वोर्द्धं भ्रामयेच्छनैः ॥
नवमीयं स्मृता मुद्रा वराहाभिमता सदा ॥३२॥

मुष्टिद्वयमथोत्तानमृज्वेकैकेन मोचयेत् ॥
उत्कुञ्चये त्सर्वमुक्ता अंगमुद्रेयमुच्यते ॥३३॥

मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः ॥
दशानां लोकपालानां मुद्राश्च क्रमयोगतः ॥३४॥

स्वरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च ॥
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥३५॥

प्रणवस्तत्सदित्येतद् हुं क्षौं भूरिति मन्त्रकाः ॥
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट् ॥३६॥

सितारुणहरिद्राभा नीलश्यामल्लोहिताः ॥
मेघाग्निमधुपिंगाभा वर्णतो नवनामकाः ॥३७॥

कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् ॥
षं चं फं षं गदादेवी वं लं मं क्षं च शंखकम् ॥३८॥

घँ ढँ भँ ङँ भवेच्छ्रीश्च गं जं वं शं च पुष्टिका ॥
घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत् ॥३९॥

छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च ॥
इत्यंगानियथायोगं देवदेवस्य वै दशा ॥४०॥

गरुडोऽम्बुजसंकाशो गदा चैवासिताकृतिः ॥
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥४१॥

पूर्णचन्द्रनिभः शंखः कौस्तुभस्त्वरुणद्युतिः ॥
चक्रं सूर्य्यसहस्त्राभं श्रीवत्सः कुन्दसन्निभः ॥४२॥

पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः ॥
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥४३॥

अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ॥४४॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवव्यूहार्चनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP