संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ४८ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ४८ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ४८ Translation - भाषांतर ॥सूत उवाच ॥प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् ॥सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः ॥१ ॥ऋत्विग्भिः सह चाचार्य्यं वरयेन्मध्यदेशगम् ॥स्वशाखोक्तविधानेन अथ वा प्रणवेन तु ॥२ ॥पञ्चभिर्बहुभिर्वाथ कुर्य्यात्पाद्यार्घ्यमेव च ॥मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः ॥३ ॥मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् ॥प्रासादस्याग्रतः कुर्य्यान्मण्डपं दशहस्तकम् ॥४ ॥कुर्य्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् ॥ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत् ॥५ ॥नदीसङ्गमतीरात्थां वालुकां तत्र दापयेत् ॥चतुरश्रं कार्मुकाभं वर्त्तुलं कमलाकृति ॥६ ॥पूर्वादितः समारभ्य कर्त्तव्यं कुण्डपञ्चकम् ॥अथवा चतुरश्राणि सर्वाण्येतानि कारयेत् ॥७ ॥शान्तिकर्मिधानेन सर्वकामार्थसिद्धये ॥शिरः स्थाने तु देवस्य आचार्य्यो होममाचरेत् ॥८ ॥ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् ॥द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके ॥९ ॥न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः ॥तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः ॥१० ॥निखनेद्धस्तमेकैकं चत्वारश्चतुरो दिशः ॥पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे ॥११ ॥पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे ॥अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत् ॥१२ ॥ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् ॥अग्नआयाहिमन्त्रेण पश्चिमस्यां तृतीयकम् ॥१३ ॥शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् ॥पूर्वे अम्बुदवत्कार्य्या आग्नोय्यां धूमरूपिणी ॥१४ ॥याम्यां वै कृष्णरूपा तु नैर्ऋत्या श्यामला (धूसरा) भवेत् ॥वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका ॥१५ ॥उत्तरे रक्तवर्णा तु शुक्लैशी च पताकिका ॥बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके ॥१६ ॥आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे ॥पूज्या रक्षोहनोवेति पश्चिमे उत्तरेऽपि च ॥१७ ॥वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे ॥तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे ॥१८ ॥कलशौ तु ततो द्वौ द्वौ निवेश्यौ तोरणान्तिके ॥वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः ॥१९ ॥पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः ॥दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा ॥२० ॥त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्द्धेति चापरे ॥अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता ॥२१ ॥किञ्चेदधातु आचत्वाऽभित्वादेति च सप्तमी ॥इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः ॥२२ ॥होमद्रव्याणि वायव्ये कुर्य्यात्सोपस्कराणि च ॥शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः ॥२३ ॥आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः ॥ह्रृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च ॥२४ ॥अस्त्रं चैव समस्तानां न्यासोऽयं सर्वकामिकः ॥अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान् ॥२५ ॥विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान् ॥अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः ॥२६ ॥शाक्रीं दिशमथारभ्य यावदीशानगोचरम् ॥अवकीर्य्याक्षतार्न्संवाँल्लेपयेन्मण्डपं ततः ॥२७ ॥गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः ॥तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम् ॥२८ ॥प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् ॥ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च वर्द्धनीम् ॥२९ ॥कलशं वर्द्धनीं चैव ग्रहान्वास्तोष्पतिं तथा ॥आसने तानि सर्वाणि प्रणवाख्यं जपेद्गुरुः ॥३० ॥सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् ॥सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः ॥३१ ॥देवस्तु कलशे पूज्यो वर्द्धन्या वस्त्रमुत्तमम् ॥वर्द्धन्या तु समायुक्तं कलशं भ्रामयेदनु ॥३२ ॥वर्द्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः ॥अभ्यर्च्य वर्द्धनीकुम्भं स्थण्डिले देवमर्चयेत् ॥३३ ॥घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् ॥देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः ॥३४ ॥वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये ॥कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत् ॥३५ ॥पठेदिति च विद्याश्च कुर्य्यादालम्भनं बुधः ॥योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः ॥३६ ॥ऋत्विग्भिः सार्द्धमाचार्यः स्नानपीठे गुरुस्तदा ॥विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः ॥३७ ॥कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः ॥ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः ॥३८ ॥भद्रंकर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु ॥संस्नाप्य लक्षणोद्धारं कुर्य्यात्तूर्यादि (दूराभि) वादनैः ॥३९ ॥मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने ॥अक्षिणी चांजयेच्चास्य सुवर्णस्य शलाकया ॥४० ॥अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् ॥लक्षणे क्रियमाणे तु नामैकं स्थापको व(द) देत् ॥४१ ॥इमम्मेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया ॥अग्निर्मूर्द्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम् ॥४२ ॥बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च ॥यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम् ॥४३ ॥पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः ॥सहदेवी बला चैव शतमूली शतावरी ॥४४ ॥कुमारी च गुडूची च सिंही व्याघ्री तथैव च ॥या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः ॥४५ ॥याः फलिनीति मन्त्रेण फलस्नानं विधीयते ॥द्रुपदादिवेति मन्त्रेण कार्य्यमुद्वर्त्तनं बुधैः ॥४६ ॥कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् ॥रत्नानि चैव धान्यानि औषधीं शतपुष्पिकाम् ॥४७ ॥समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः ॥क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः ॥४८ ॥आप्यायस्व दधिक्राव्णो याऔषधीरितीति च ॥तेजोऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत् ॥४९ ॥समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः ॥स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः ॥५० ॥अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् ॥पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ॥५१ ॥याओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् ॥तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः ॥५२ ॥अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः ॥गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः ॥५३ ॥स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् ॥कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम् ॥५४ ॥शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् ॥विश्वतश्चक्षुर्मन्त्रेण कुर्य्यात्सकलनिष्कलम् ॥५५ ॥स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् ॥स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः ॥५६ ॥वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः ॥यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत् ॥५७ ॥अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् ॥कलशं सहिरण्यं च शिरः स्थाने निवेदयेत् ॥५८ ॥स्थित्वा कुण्डसमीपेऽथ अग्नेः स्थापनमाचरेत् ॥स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः ॥५९ ॥श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् ॥वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत् ॥६० ॥रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥ब्रह्माणं पितृमैत्रं च अध्वर्य्युर्दक्षिणे जपेत् ॥६१ ॥वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् ॥भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत् ॥६२ ॥अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः ॥नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत् ॥६३ ॥कुण्डं चास्त्रेण संप्रोक्ष्य आचार्य्यस्तु विशेषतः ॥ताम्रपात्रे शरावे वा यथाविभवतोऽपि वा ॥६४ ॥जातवेदसमानीय अग्रतस्तं निवेशयेत् ॥अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत् ॥६५ ॥अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः ॥पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः ॥६६ ॥वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत् ॥दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु ॥६७ ॥साधारणेन मन्त्रेण स्वसूत्रविहितेन वा ॥दिक्षुदिक्षु ततो दद्यात्परिधीं विष्टरैः सह ॥६८ ॥ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु ॥दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम् ॥६९ ॥दर्भतोयेन संस्पृष्टो मन्त्रहीनोऽपि शुध्यति ॥प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः ॥७० ॥विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् ॥अग्नेस्तु रक्षणार्थाय यदुक्तं कर्ममन्त्रवित् ॥७१ ॥आचार्य्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् ॥पवित्रं तु ततः कृत्वा कुर्य्यादाज्यस्य संस्कृतिम् ॥७२ ॥आचार्य्योऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् ॥आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये ॥७३ ॥पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम् ॥गर्भाधानादितस्तावद्यावद्गोदानिकं भवेत् ॥७४ ॥स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् ॥ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः ॥७५ ॥एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः ॥पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा ॥७६ ॥इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतं शतम् ॥पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत् ॥७७ ॥स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् ॥देवताश्चैव मन्त्रांश्च तथैव जातवेदसम् ॥७८ ॥आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् ॥निष्कृष्य बहिराचार्य्यो दिक्पालानां बलिं हरेत् ॥७९ ॥भूतानां चैव देवानां नागानां च प्रयोगतः ॥तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम् ॥८० ॥आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः ॥पुरुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे ॥८१ ॥ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे ॥नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः ॥८२ ॥हुत्वा सहस्त्रमेकैकं देवं शिरसि कल्पयेत् ॥एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः ॥८३ ॥शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् ॥वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः ॥८४ ॥स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः ॥गायत्त्र्या वाथवाचार्य्यो व्याहृतिप्रणवेन तु ॥८५ ॥एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः ॥चरणावग्निमीळे तु इषेत्वो गुल्फयोः स्थिताः ॥८६ ॥अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी ॥बृहद्रथन्तरे ऊरू उदरेष्वातिलो (स्वातिनो) न्यसेत् ॥८७ ॥दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् ॥त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम् ॥८८ ॥मूर्द्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् ॥उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते ! ॥८९ ॥वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् ॥पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित् ॥९० ॥दिक्पालान्सह रत्नैश्च धातूनौषधयस्तथा ॥लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत् ॥९१ ॥न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् ॥ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत् ॥९२ ॥तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् ॥ॐ स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः ॥९३ ॥देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः ॥तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे ॥९४ ॥षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् ॥सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम् ॥९५ ॥दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् ॥अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत् ॥९६ ॥पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् ॥ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः ॥९७ ॥चतुर्थी जुहुयात्पश्चाद्यजमानः समाहितः ॥आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत् ॥९८ ॥निष्क्रम्य बहिराचार्य्यो दिक्पालानां बलिं हरेत् ॥आचार्य्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत् ॥९९ ॥यागान्ते कपिलां दद्यादाचार्य्याय च चामरम् ॥मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम् ॥१०० ॥व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् ॥भोजनं च महात्कुर्य्यात्कृतकृत्यश्च जायते ॥यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः ॥१०१ ॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवप्रतिष्ठादिनिरूपणं नामाष्टचत्वारिंशोऽध्यायः इति प्रतिष्ठाप्रकरणं समाप्तम्॥४८ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP