आचारकाण्डः - अध्यायः २१७
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
ब्रह्मोवाच ।
अथ सन्ध्याविधं वक्ष्ये द्विजातीनां समासतः ।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥१॥
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥२॥
गायत्त्रीच्छन्दो विश्वामित्र ऋषिस्त्रिपात् ।
समुद्राः कुक्षिश्चन्द्रादित्यौ लोचनौ ।
अग्निर्मुखम् ।
विष्णुर्हृदयम् ।
ब्रह्मरुद्रौ शिरः ।
रुद्रः शिखा ।
उपनय ने विनियोगः ।
ओं भूः पादे ।
भुवः जानुति ।
स्वः हृदये ।
महः शिरसि ।
जनः शिखायाम् ।
तपः कण्ठे ।
सत्यं ललाटे ।
ओं हृदयाय नमः ।
ओं भूः शिरसे स्वाहा ।
ओं भुवः शिखायै वौषट् ।
ओं स्वः कवचाय हुं ।
ओं भूर्भुवः स्वः अस्त्राय फट् ॥३॥
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यं तत्स्त्रिपदा ।
ओं आपो ज्योऽती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ।
ओं सूर्यश्चेत्यादि ।
ओं आपः पुनन्त्वित्यादि ।
ओं अग्निश्चेत्यादि ॥४॥
ओं आयातु वरदे देवि ! पूर्वाह्ने ब्रह्मदेवता ।
गायत्त्री नाम या सन्ध्या रक्ताङ्गी रक्तवाससा ।
वरहंससमारूढा श्रीमत्पुष्करसंस्थिता ॥५॥
कमण्डलुधरा शान्ता अक्षमालाविधारिणी ।
आयातु वरदा देवी मध्याह्ने श्वेतरूपिणी ॥६॥
माहेश्वरी च सावित्री शुक्लवस्त्रादिमण्डिता ।
वृषस्कन्धसमारूढा त्रिशूलवरधारिणी ॥७॥
आयातु वरदा देवी अपराह्ने सरस्वती ।
अतसीकुसुमप्रख्या वैष्णवी गरुडासना ॥८॥
पीतवस्त्रा शङ्खचक्रगदापद्मसमन्विता ।
श्वेतवर्णा समुद्दिष्टा रविमण्डलसंस्थिता ॥९॥
श्वेतपद्मसनासीना श्वेतपुष्पोपशोभिता ।
ओं आपो हिष्ठा मयो भुवस्ता न उर्जे दधात नः ॥१०॥
महेरणाय चक्षुसे ।
ओं यो वः शिवतमो रसः ।
तस्य भाजयेतेह नः ।
अशतीरिव मातरः ।
ओं तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जन यथा च नः ।
ओं सुमित्रिया न आप ओषधयः सन्तु ओं दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः ।
ओं द्रुपदादिवमुमुचानः स्विन्नः स्नातो मलादिव ।
पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ।
ओं ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
ततोरात्र्यजायत ।
ततः समुद्रोर्ऽणवः समुद्रादर्णवादधिसंवत्सरो अजायत ।
अहौरात्राणि विदधद्विश्वस्य मिषतो वशी ।
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥११॥
गायत्त्र्या विश्वामित्र ऋषिर्गायत्त्रीछन्दः ।
सविता देवता जपे विनियोगः ।
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
ओं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ।
ओं तच्चक्षर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ।
शृणुयाम शरदः शतम् ।
ओं विश्वतश्चक्षुरुत विश्वतोमुखोविश्वतो बाहुरुत विश्वतस्पात् ।
संबाहुभ्यां धमति संपत्रैद्यार्वाभूमी जनयन्देव एकः ।
देवा गातुविदो नाङ्गविद्वानाद्भमितमनसस्पत इमं देवयज्ञं स्वाहा वातेधाः जपेत् ॥१२॥
उत्तरे शिखरे जाते भूम्यां पर्वतवासिनी ।
ब्रह्मणा समनुज्ञाता गच्छ देवि ! यथासुखम् ॥१३॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सन्ध्याविधिनिरूपणं नाम सप्तदशोत्तरद्विशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP