आचारकाण्डः - अध्यायः ११३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
सूत उवाच ।
गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् ।
पण्डितस्य गुणाः सर्वे मूर्वे दोषाश्च केवलाः ॥१॥
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवादं मैत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥२॥
पण्डितैश्च विर्नातैश्च धर्मशैः सत्यवादिभिः ।
बन्ध्स्थोऽपि तिष्ठेच्च न तु राज्ये खलैः सह ॥३॥
सावशेषाणि कार्याणि कुवत्रर्थे युज्यते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥४॥
मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत् ।
वत्सापेक्षी दुहेत्क्षीरं भूमिं गाञ्चैव पार्थिपः ॥५॥
यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः ।
तथा वित्तमु पादाय राजा कुर्वीत सञ्चयम् ॥६॥
वल्मीकं मधुजालञ्च शुक्लण्क्षे तु चन्द्रमाः ।
राजद्रव्यञ्च भैक्ष्यञ्च स्तोकंस्तोकं प्रवर्धते ॥७॥
अर्जितस्य क्षयं दृष्टा संप्रदत्तस्य सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद्दानध्ययनकर्मसु ॥८॥
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥९॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥१०॥
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम् ।
वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥११॥
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः ।
पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥१२॥
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः ।
नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥१३॥
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः ।
ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥१४॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥१५॥
दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये ।
दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥१६॥
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः ।
कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥१७॥
येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम् ।
तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥१८॥
आत्मना विहितं दुः खमात्मना विहितं सखम् ।
गर्भशय्यामुपादाय भुङ्क्ते वै पौर्वदैहिकम् ॥१९॥
न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे ।
न मातृमूर्ध्नि प्रधृतस्तथाङ्के त्यक्तुं क्षमः कर्म कृतं नरो हि ॥२०॥
दुगस्त्रिकूटः परिखा समुद्रो रक्षांसि योधाः परमा च वृत्तिः ।
शास्त्रञ्च वै तूशनसा प्रदिष्टं स रावणः कालवशाद्विनष्टः ॥२१॥
यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि ।
यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥२२॥
गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले ।
धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥२३॥
पुराधीता च या विद्या पुरा दत्तञ्च यद्धनम् ।
पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥२४॥
कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे ।
वसिष्ठकृतलग्नापि जानकी दुः खभाजनम् ॥२५॥
स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः ।
घनकेशी यदा सीता त्रयस्ते दुः खभाजनम् ॥२६॥
न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा ।
स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥२७॥
कर्मजन्यशरीरेषु रोगाः शरीरमानसाः ।
शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥२८॥
अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ऽथमीहते ।
स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥२९॥
बालो युवा च वृद्धश्च यः करोति शुभाशुभम् ।
तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥३०॥
अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः ।
स्वकर्मपातवातेन नीयते यत्र तत्फलम् ॥३१॥
प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति (यदस्मदीयं न तु तत्परेषाम् ॥३२॥
सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति ।
नरः शीघ्रतरादेव कर्मणः कः पलायते ॥३३॥
नाल्पा भवति सद्विद्या दीयमानापि वर्धते ।
कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥३४॥
येर्ऽथा धर्मेण ते सत्या येऽधर्मेण गताः श्रियः ।
धर्मार्थो च महांल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥३५॥
अन्नार्थो यानि दुः खानि करोति कृपणो जनः ।
तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥३६॥
सर्वेषामेव शौचानामन्नशौचं विशिष्यते ।
योऽन्नार्थैः शुचिः शौचान्न मृदा वारिणा शुचिः ॥३७॥
सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूते दया शौचं जलशौचञ्च पञ्चमम् ॥३८॥
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ।
सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥३९॥
मृत्तिकानां सहस्रेण चोदकानां शतेन हि ।
न शुध्यति दुराचारो भावोपहतचेतनः ॥४०॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥४१॥
न प्रहृष्यति संमानैर्नावमानैः प्रकुप्यति ।
न क्रुद्धः परुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥४२॥
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च ।
काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥४३॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ।
अलभ्यं लभ्यते मर्त्यैस्तत्र का परिवेदना ॥४४॥
अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः ।
यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥४५॥
एकवृक्षे सदा रात्रौ नानापक्षिसमागमः ।
प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥४६॥
एकसार्थप्रयाताना सर्वेषान्तत्र गामिनाम् ।
यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥४७॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक ।
अव्यक्तनिधनान्येनव का तत्र परिवेदना ॥४८॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥४९॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥५०॥
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति ।
आचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥५१॥
शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः ।
भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥५२॥
तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः ।
तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥५३॥
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति ।
यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥५४॥
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति ।
सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥५५॥
यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम् ।
तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥५६॥
नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥५७॥
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज ।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥५८॥
यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम् ।
स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥५९॥
शरीरमेवायतनं दुः खस्य च सुखस्य च ।
जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥६०॥
सर्वं परवशं दुः खं सर्व मात्मवशं सुखम् ।
एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥६१॥
सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम् ।
शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥६२॥
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः ।
वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥६३॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे त्रयोशोत्तरशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP