॥ अथ मलपरीक्षा ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
रुद्रतन्त्रात् । वातान्मले तु दृढता शुष्कता चापि जायते । पीतता जायते पित्ताच्छ्रुक्लता श्लेष्मतो भवेत् ॥१॥
सन्निपाते च सर्वाणि लक्षणानि भवन्ति हि । श्रुटितं फेनिलं रूक्षं धूमलं वातकोपतः । वातश्लेष्मविकारे च जायते कपिशं मलम् ॥२॥
बद्धं सुत्रुटितं पीतश्यामं पित्तानिलाद्भवेत् । पीतश्यामं श्लेष्मपित्तादीषत्सान्द्रं च पिच्छिलम् ॥३॥
श्यामं त्रुटितपीताभं बद्धश्वेतं त्रिदोषतः । दुर्गन्धः शीतलश्चैव विष्ठोत्सर्गो यदा भवेत् ॥४॥
तदाजीर्णं मलं वैद्यैर्दोषज्ञैः परिभण्यते । कपिलं गुटियुक्तं च यदि वर्चो ऽवलोक्यते ॥५॥
प्रक्षीणमलदोषेण दूषितः परिकथ्यते । सितं महत्यूतिगन्धं मलं ज्ञेयं जलोदरे ॥६॥
श्यामं क्ष्यये त्वामवति पीतं सकटिवेदनम् । अतिकृष्णं चातिशुभ्रमतिपीतं तथारुणम् ॥७॥
मरणाय मलं किन्तु भृशोष्णं मॄत्यवे ध्रुवम् ॥ अन्यच्च । वातस्य च मलं कृष्णं ततः पित्तस्य पीतविट् । रक्तवर्णं मलं किंचिन्मलं श्वेतं कफोद्भवम् ॥८॥
आमं वा श्लेष्मजं प्राहुर्मिश्रितं द्वन्द्वजं वदेत् । अपक्कं स्यादजीर्णे तु पक्कं स्वच्छमलं भवेत् ॥९॥
अत्यग्नौ पीडितं शुष्कं मन्दाग्नौ तु द्रवीकृतम् । दुर्गन्धं चन्द्रिकायुक्तमसाध्यं मललक्षणम् ॥१०॥
इति मलपरिक्षा ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP