॥ अथ रेचनम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
एरन्डतैलं त्रिफलाक्वाथेन द्विगुणेन च । युक्तं पीत्वा पयोभिर्वा न चिरेण विरिच्यते ॥१॥
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् । समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम् ॥२॥
त्रिवृद्दुरालभा मुस्ता शर्करा दिव्यचन्दनम् । द्राक्षाम्बुनासयष्ट्याह्यं शीतलं च धनात्यये ॥३॥
पिप्पलीनागरं सिन्धुश्यामां च त्रिवृता सह । लिहेत्क्षौद्रेण शिशिरे वसन्ते च विरेचनम् ॥ त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् ॥४॥
अथ ग्रन्थान्तरे । एरण्डतैलं पवने विरेचनं द्राक्षा पयश्चाम्बु घृतं च पित्ते । क्वाथ: कफे त्रैफलको गुडेन दुग्धाभया सर्वमलं तथैव ॥१॥
अन्यच्च । पिप्पली पिप्पलीमूलमभयाद्विगुणोत्तरम् । चूर्णमुष्णाम्बुना पेयं स्वस्थे सुखविरेचनम् ॥१॥
अन्यच्च । पादमदकर्णहस्तै: पथ्या त्रिवृतं च नागरं लवणम् । निष्क्वथितपीतसारं नरपतियोग्यं विरेचनं भवति ॥१॥
अन्यच्च । प्रपथ्यासैन्धवकणाचूर्णमुष्णाम्बुना सह । एतन्नाराचकंख्यातं रेचनं च हितावहम् ॥१॥
अन्यच्च । वराम्बुना देशसमाख्यबीजं सुवर्णमित्रं कुसुमाभिधानम् । विचित्रविद्याधरनामकोऽयं मलं विना मुञ्चति चाममेव ॥१॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP