॥ अथ पानकानि ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
द्राक्षाम्लिकापरूषादिजलं खण्डादिमिश्रितम् ।
मरिचार्द्रककर्पूरचातुर्जातादिसंस्कृतम् ॥१॥
पानकं द्विविधं तत्स्यादम्लानम्लविभेदतः ।
पानकं मूत्रलं हृद्यं प्रीणनं तृट्श्रमापहम् ॥२॥
यथाद्रव्यगुणात्तत्तु गुरुलघ्वादि निर्दिशेत् ।
द्राक्षादिपानकं हृद्यं मूत्रलं तृट्श्रमापहम् ॥३॥
पित्तवातक्लमच्छर्दिदाहमोहमदप्रणुत् ।
परूषकाणाम कोलानां हृद्यं विष्टम्भि पानकम् ॥४॥
अपक्काम्ररसोद्भूतं पानकं वातनाशनम् ।
कफपित्तकरं किञ्चित्प्रत्यहं यदि पीयते ॥५॥
पक्काम्रसंभवं तत्तु स्वादूष्णं गुरु पित्तकृत् ।
रुचिदं श्लेष्मलं बल्यं वर्ण्यं वृष्यं तु वातनुत् ॥६॥
धान्यकल्कसिताजातं पानकं शशिवासितम् ।
शीतं परं पित्तहरं मूत्रकृच्छ्रविनाशनम् ॥७॥
भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् ।
लवङ्गमरिचोन्मिश्रंपानकं पानकोत्तमम् ॥८॥
निम्बूफलभवं पानमत्यम्लं वातनाशनम् ।
वह्निदीपित्करं रुच्यं समस्ताहारपाचकम् ॥९॥
इति पानकानि ॥
N/A
References : N/A
Last Updated : December 12, 2017
TOP