॥ अथ भगन्दरनिदानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ भगन्दरनिदानम् ॥
गुदस्य व्द्यड्गुले क्षेत्रे पार्श्वत: पिटिकार्तिकृत् । भिन्नो भगन्दरो ज्ञेय: स च पञ्चविधो मत: ॥१॥
अथ सड्ख्यामाह ॥ वातपित्तकफैस्त्रेधा चतुर्थ: सन्निपातत: । उन्मार्गग: पञ्चम: स्यादेवं पञ्चविधो मत: ॥१॥
अथ तस्य पूर्वरुपमाह ॥ कटीकपालनिस्तोददाहकण्डूरुजादय: । भवन्ति पूर्वरुपाणि भविष्यति भगन्दरे ॥१॥
अथ वातिकमाह ॥ कषायरुक्षैरतिकोपितोऽनिलस्त्वपानदेशे पिटिकां करोति । उपेक्षणात्पाकमुपैति दारूणं रुजा च भिन्नारुणफेनवाहिनी ॥१॥
तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकै: शतपोनकं वदेत् ॥१॥
अथ पित्तजमाह ॥ प्रकोपणै: पित्तमतिप्रकोपितं करोति रक्तां पिटिकां गुदार्तिदाम् । तदाशु पाकाहिमपूयवाहिनीं भगन्दरं तूष्ट्रशोरोधरं वदेत् ॥१॥
अथ श्लेष्मजमाह ॥ कण्डूयनो घनस्त्रावी कठिनो मन्दवेदन: । श्वेतावभास: कफज: परिस्त्रावी भगन्दर: ॥१॥
अथ सन्निपातजमाह ॥ बहुवर्णरुजा: स्त्रावा: पिटिका गोस्तनोपमा: । शम्बूकावर्त्तवन्नाडी शम्बूकावर्तको मत: ॥१॥
अथोन्मार्गगमाह ॥ क्षताद् गति: पायुगता विवर्धते ह्युपेक्षणात्सा कृमिभिर्विदीर्यते । प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तदुन्मार्गि भगन्दरं वदेत् ॥१॥
अथासाध्यलक्षणमाह ॥ घोरा: साधयितुं दु:खा: सर्व एव भगन्दरा: । तेष्वसाध्यस्त्रिदोषोत्थ: क्षतजश्च विशेषत: ॥१॥
वातमूत्रपुरीषाणि कृमय: शुक्रमेव च । भगन्दरा: स्त्रवन्तस्तु नाशयन्ति तमातुरम् ॥२॥
इति भगन्दरनिदानम् ॥
॥ अथ भगन्दरचिकित्सा ॥
गुदपिटिकायामादौ कुर्याद्रक्तावसेचनं मतिमान् । जलसदनाभिरशेषं सपाकं न प्रयाति यथा ॥१॥
अपानमार्गपिटिकां दहेत्स्वर्णशलाकया । अग्निप्रतप्तया पश्चात्कुर्यादग्निव्रणक्रियाम् ॥२॥
पिटिकानामपक्वानामपतर्पणपूर्वकम् ।
कर्म कुर्याद्विरेकान्ते भिन्नानां वक्ष्यते क्रिया ॥३॥
एतासां पाटनक्षारवह्निदाहादिकं क्रमम् । विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् ॥४॥
अथ वटपत्रादिलेप: ॥ वटपत्रेष्टिकाशुण्ठीगुडूचीसपुनर्नवा: । सुपिष्टा: पिटिका वक्रे लेप: शस्तो भगन्दरे ॥१॥
खदिरत्रिफलाक्वाथो महिषीघृतसंयुत: । विडड्गचूर्णयुक्तश्च भगन्दरविनाशन: ॥२॥
त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम् । भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम् ॥३॥
शुनोऽस्थिभूलता तक्रै: पेषिता खररक्तयुक् । लेपो भगन्दरं हन्यान्नरास्थ्रां तैलमेव च ॥४॥
कुष्ठं त्रिवृत्तिलादन्तीमागधीसैन्धवं मधु । रजनीत्रिफलातुत्थैर्हितं स्याद्व्रणरोपणम् ॥५॥
तिलत्रिवृन्नागदन्तीमञ्जिष्ठाद्यै: ससैन्धवै: । सक्षौद्रैश्च प्रलेपोऽयं भगन्दरकुलान्तकृत् ॥६॥
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवा: । त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापह: ॥७॥
तिलाभयालोध्रमरिष्ठपत्रं निशावचाकुष्ठमगारधूम: । भगन्दरे नाड्युपदंशयोश्च दुष्टव्रणे शोधनरोपणोऽयम् ॥८॥
अथ नवकार्षिको गुग्गुलु: ॥ त्रिफलापुरकृष्णानां त्रिपञ्चैककर्षयोजिता गुटिका । कुष्ठभगन्दरनाडीदुष्टव्रणशोधनी कथिता ॥१॥
अथ जम्बूकप्रकार: ॥ जम्बूकस्यामिषं भुक्त्वा प्रकारैर्व्यञ्जनादिभि: । अजीर्णवर्जी मांसेन मुच्यते तु भगन्दरात् ॥१॥
अथ सप्तविंशतिगुग्गुलु: ॥ त्रिकटुत्रिफलामुस्तं विडड्गामृतचित्रकम् । चव्यैले पिप्पलीमूलं हपुषासुरदारु च ॥१॥
तुम्बरुं पुष्करं चव्यं विशालारजनीद्वयम् । बिडं सौवर्चलं क्षारं सैन्धवं गजपिप्पली ॥२॥
यावन्त्येतानि द्रव्याणि तावद्द्विगुणगुग्गुलु: । कोलप्रमाणगुटिकां भक्षयेन्मधुना सह ॥३॥
कासं श्वासं तथा शोफमर्शांसि च भगन्दरम् । हृच्छूलं पार्श्वशूलं च कुक्षिवस्तिगुदे रुजम् ॥४॥
अश्मरीं मुत्रकृच्छ्रं च अन्त्रवृद्धिं तथा कृमीन् । चिरज्वरोपसृष्टानां क्षयोपहतचेतसाम ॥५॥
आनाहं च तथोन्मादं सकुष्ठान्युदराणि च । नाडीदुष्टव्रणान्सर्वान् प्रमेहं श्लीपदं तथा ।
सप्तविंशतिको ह्येष सर्वरोगनिषूदन: ॥६॥
अथ करवीराद्यं तैलम् ॥ करवीरनिशादन्तीलाड्गलीलवणाग्निभि: । मातुलुड्गार्कपयसा पचेत्तैलं भगन्दरे ॥१॥
अथ विष्यन्दनं तैलम् ॥ चित्रकार्कौ त्रिवृत्पाठे मलयूहयमारकौ । सुधां वचां लाड्गलिकां हरितालं सुवच्रिकाम् ॥१॥
ज्योतिष्मतीं च संहृत्य तैलं धीरो विपाचयेत् । एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे ॥ शोधनं रोपणं चैव सवर्णकरणं तथा ॥१॥
अथ निशादितैलम् ॥ निशार्कक्षीरसिन्ध्वग्निपुरलाड्गलिवत्सकै: । सिद्धमभ्यञ्जने तैलं भगन्दरविनाशनम् ॥१॥
अथ पथ्यापथ्यम् ॥ आमे संशोधनं लेपो लड्घनं रक्तमोक्षणम् । पक्वे पुन: शस्त्रविधिस्तथा क्षाराग्निकर्म च ॥१॥
सर्वत्र शालयो मुद्गा विलेपी जाड्गलो रस: । पटोलं शिग्रुवेत्राग्रं धत्तूरो बालमूलकम् ॥२॥
तिलसर्षपयोस्तैलं तिक्तवर्गो घृतं मधु । एतत्पथ्यं नरै: सेव्यं यथादोषं भगन्दरे ॥३॥
व्यायामं मैथुनं युद्धं पृष्ठ्यानं गुरुणि च । संवत्सरं परिहरेद् यावद् दृढव्रणो नर: ॥४॥
इति भगन्दरचिकित्सा ॥
N/A
References : N/A
Last Updated : March 17, 2018
TOP