॥ अथ तच्चिकित्सा ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ तच्चिकित्सा ॥
अभ्यड्गं स्वेदनं बस्तिर्नस्यं स्नेहविरेचनम् । स्निग्धाम्ललवणं स्वादु वृष्यं वाताप्रयापहम् ॥१॥
साद्वम्ललवणै: स्निग्धैराहारैर्वातरोगिण: । अभ्यड्गस्नेहबस्त्याद्यै: सर्वानेवोपपादयेत् ॥२॥
पित्तस्यावरणे वातरोगे शीतोष्णभेषजम् । कफस्यावरणे वायौ रुक्षोष्णं भक्ष्यभेषजम् ॥३॥
केवले पवनव्याधौ स्निग्घोष्णं भक्ष्यभेषजम् । स्निग्धोष्णशीतरुक्षाद्यैर्वातजो यो न शाम्यति ॥ विकारस्तत्र विज्ञेयो दुष्टशोणितसम्भव: ॥४॥
अथ वस्तिगते वाते ॥ कार्यो वस्तिगते वाते विधिर्बस्तिविशोधन: । विशेषतस्तु कोष्ठस्थे वाते क्षीरं पिबेन्नर: ॥१॥
व्योषसौवर्चलाजाजीपथ्यालवणपञ्चकम् । सारिवाबृहतीपाठाकलिड्गाग्नियवाग्रजम् ॥२॥
चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकै: । पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं परम् ॥३॥
अथ गुदाश्रिते ॥ दशमूलीकषायेण मातुलिड्गरसेन वा । पिबेदैरण्डतैलं च बस्तिकुक्षिगुदाश्रिते ॥१॥
अथामाशयगते ॥ आमाशयगते वाते छर्दिस्वायौ यथाक्रमम । देय: षट्चरणो योग: सप्तरात्रं तथाम्बुना ॥१॥
चित्रकेन्द्रयवापाठाकटुकातिविषाभया: । महाव्याधिप्रशमनो योग: षट्चरण: स्मृत: ॥२॥
अन्यच्च । पूतीकपथ्याशटिपुष्कराणि बिल्वं गुडूची सुरदारु शुण्ठी । विड्ड्गपाठातिविषा कणा च क्वाथास्त्रय: साप्रसमीरनघ्ना: ॥१॥
कार्यासास्थिकुलत्थिकातिलयवैरेरण्डामाषातसीवर्षाभूशणबीजकाञ्चिकयुतैरेकीकृतैवां पृथक् । स्वेद: स्यादिति कूर्परोदरहनुस्फिकपाणिपादाड्गुलीगुल्फस्तम्भकटीरुजो विजयते साम: समीरोद्भव: ॥२॥
अथ पक्वाशये ॥ पक्वाशयगते वाते हितं स्नेहैर्विरेचनम् । बस्तय: शोधनीयाश्च प्राशाश्च लवणोत्तरा: ॥१॥
॥ अथ श्रोत्रादिषु ॥ श्रोत्रादिषु प्रकुपिते कार्यो वातहर: क्रम: । स्नेहाभ्यड्गोपनाहांश्च मर्दनालेपनानि च ॥१॥
अथ त्वड्मांसासृकशिरागते ॥ त्वड्मांससृक्शिराप्राप्ते कुर्याद्रक्तबिमोक्षणम् । स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च ॥१॥
अथ मांसमेदोमज्जास्थिकुपिते ॥ विरेको मांसमेद:स्थे निरुह: शमनानि च । बाह्याभ्यन्तरगस्नेहैरस्थिमज्जागतं जयेत् ॥१॥
अथ स्त्रायुसन्ध्यास्थिगते ॥ स्नायुसन्ध्यस्थिम्प्राप्ते कुर्याद्वाते विचक्षण: । स्वेदोपनाहसंमर्दस्नेहनादिकमादरात् ॥१॥
अथ शुक्रस्थे कुपिते ॥ शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम् ॥१॥
अथ वक्षआदिमन्यागते ॥ वक्षस्त्रिकस्कन्धगते वाते मन्यागते तथा । वमनं मर्दनं नस्यं कुशलेन प्रयोजयेत् ॥१॥
अथाशीतिवातजरोगाणां संक्षेपेण चिकित्सा ॥ अथ पक्षाघातस्य ॥ माषात्मगुप्तकैरण्डवाट्यालकशृतं जलम् । हिड्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम् ॥ इति माषादिक्वाथ: ॥
अथ वृन्दात् माषादिसप्तकम् ॥ माषबलाशुकशिम्बीकत्तृणरास्त्राश्वगन्धारुबुकाणाम् । क्वाथ: प्रात: पीतो रामठलवणान्वित: कोष्ण: ॥१॥
अपनयति पक्षघातं मन्यास्तम्भं सकर्णनादरुजम् । दुर्जयमर्दितवातं सप्ताहाज्जयति चावश्यम् ॥२॥
अथ माषतैलम् सारसंग्रहात् ॥ ग्रन्थिकाग्निकणारास्त्राकुष्ठनागरसैन्धवम् । माषाक्वाथेन तत्तैलं पक्षवातविनाशनम् ॥१॥
अथार्दितस्य चिकित्सा ॥ नवनीतेन संयुक्तां खादेन्माषेण्डरीं नर: । दुर्वारमर्दितं हन्ति सप्तरात्रान्न संशय: ॥१॥
अथ लशुनविधि: ॥ पलमर्धपलं वापि रसोनस्य सुकुट्तितम् । हिड्गुजीरकसिन्धूत्थसौवर्चलकटुत्रिकै: ॥१॥
चूर्णितैर्माषकोन्मानैरवचूर्ण्यावलोडितम् । यथाग्निभक्षितं प्रातऋबुक्वाथानुपानत: ॥२॥
दिने दिने प्रयोक्तव्यं मासमेकं निरन्तरम् । वातामयं निहन्त्येवमर्दितं चापतन्त्रकम् ॥३॥
एकाड्गरोगिणां रोगं तथा सर्वाड्गरोगिणाम् । ऊरुस्तम्भं गृध्रसीं च शूलं द्वन्द्वकृमीनपि ॥४॥
कटिपृष्ठामयं हन्याज्जाठरं च समीरणम् । अथावबाहुके ॥ माषतैलरसो नाभ्यां बाह्वोश्च परिमर्दयेत् ।
दशाड्घ्रिमाषक्वाथेन जयेद्वैद्योऽवबाहुकम् ॥१॥ इति वृन्दात् ॥ अथ माषाद्यं तैलम् ॥ माषातसीयवकुरण्ट्ककारीगोकन्टटुण्टुकजटाकपिकच्च्छुतोयै: । कार्पासकास्थिशणबीजकुलत्थकोलक्वाथेन बस्तपिशितस्य रसेन वापि ॥१॥
शुण्ठया च मागधिकया शतपुष्पया च सैरण्डमूलसपुनर्नवया सरेण्वा । रास्त्राबलामृतलताकटुकैर्विपक्वं माषाख्यमेतदवबाहुकहारि तैलम् ॥२॥
अर्धाड्गशोषमपतानकमाढ्यवातमाक्षेपकं सभुजकम्पशिर:प्रकम्पम् । नस्येन बस्तिविधिना परिषेचनेन हन्यात्कटीजघनजानुशिर:समीरान् ॥३॥
इति माषाद्यं तैलम् ॥ अथ प्रत्यष्ठीलाष्ठीलकयोग: ॥ प्रत्यष्ठीलाष्ठीकयोर्गुल्मेऽभ्यन्तरविद्रधौ । क्रिया हिड्ग्वादि चूर्णं च शस्यतेऽत्र विशेषत: ॥१॥
N/A
References : N/A
Last Updated : December 20, 2017
TOP