॥ अथ विषमज्वर: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
धातुमन्यतमं प्राप्य करोति विषमज्वरम् । शीतपूर्व: स विज्ञेयो दाहपूर्वो निरन्तरम् ॥१॥
आतड्कमुक्तौ कृशताश्रयाणां विमुक्तपत्याद्युचितक्रियाणाम् । अल्पोऽपि दोषो विषमं विदध्याज्ज्वरं प्रवृद्धं प्रतिपक्षरुद्धम् ॥२॥
एकद्विरिचतुर्थं: स्याद्विषमोऽन्यस्तु जीर्णक: । एते पञ्च ज्वरा: पीडयन्त्येव बहुवासरम् ॥३॥
विषज्वरनाशाय चिकित्सा वक्ष्यतेऽधुना । वातप्रधानं सर्पिर्भिर्बस्तिभि: सानुवासनै: ॥४॥
स्निग्धोष्णै रन्नपानेश्च शमयेद्विषमज्वरम् । विरेचनेन पयसा सर्पिषा संस्कृतेन च ॥५॥
विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत् । वमनं पाचनं रुक्षमन्नपानं च लड्घनम् ॥६॥
कषायोष्णं च विषमज्वरे शस्तं कफोत्तरे । त्रायन्तीकटुकानन्तासारिवाभि: शृतं जलम् ॥७॥
सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये । षोडशाष्टचतुर्भागं वातपित्तकफार्तिषु ॥८॥
क्षौद्रं कषाये दातव्यं विपरीता तु शर्करा । वासापटोलत्रिफलाद्राशम्याकनिम्बत: ॥ समधु: ससित: क्वाथो हन्यादैकाहिकं ज्वरम् ॥९॥
इति वासादि: । उलूकदक्षिण: पक्ष: सितसूत्रेण वेष्टित: । धारणाद्वामकर्णे तु हरत्यैकाहिकं ज्वरम् ॥१०॥
द्राक्षापटोलबिम्बाब्दशक्राह्वत्रिफलामृता ॥ जलजं तु पिबेच्छीतमन्येद्युर्ज्वरशान्तये ॥११॥
इअति द्राक्षादि: ॥ सशिशिर: सधन: समहौषध: सनलद: सकण: सपयोधर: समधुशर्कर एष कषायको जपति बालमृगाक्षि तृतीयकम् ॥१॥
ऊर्णनाभिस्थजालेन कज्जलं ग्राहयेत्तत: । अञ्जयेन्नेयुगुलं त्र्याहिकं तु ज्वरं जायेत् ॥२॥
वासाधात्रीस्थिरादारुधान्यनागरसाधितम् । सितामधुयुतं कुर्याच्चातुर्थिकनिवारणम् ॥३॥
पथ्यास्थिरानागर्देवदारुधात्रीवृषैरुत्क्वथित: कषाय: । सितोपलामाक्षिकसंप्रयुक्तश्चातुर्थिकं हन्त्याचिरेण पीत: ॥४॥
चातुर्थिको गच्छति रामठस्त्रुघृतेन जीर्णेन युतस्य नस्यात् । लीलावतीनां नवयौवनानां मुखावलोकादिव सम्लुं तव: ॥५॥
अखण्डितशरत्कालकलानिधिसमानने । चातुर्थिकहरं नस्यं मुनिद्रमदलाम्बुना ॥६॥
कल्क: शिरीषपुष्पस्य रजनीद्वयसंयुत: । नस्ये सर्पिसमायोगाज्वरं चातुर्थिकं जयेत् ॥७॥
विवस्त्रेण धृता देवी मूलिका कर्णबन्धनात् । चातुर्थिकं ज्वरं हन्ति द्रोणपुष्पीरसाञ्जनात् ॥८॥
कन्याकर्तितसूत्रेण त्वपामार्गस्यमूलिका । रवौ बद्धा ज्वरं हन्ति तृतीयकचतुर्थकम् ॥९॥
काकजड्घा बला श्यामा भृड्गराजोपमार्गक: । एकैकं पुष्पयोगेन बद्ध्वा चातुर्थिकं हरेत् ॥१०॥
कृष्णाम्बरे दृढं बद्धो गुग्गुलूलूकपुच्छक: । धूपश्चातुर्थिकं हन्यात्तम: सूर्य इवोदित: ॥११॥
कुमारीमूलकर्षैकं पीत्वा कोष्णजलैर्वमेत् । विषमं तु ज्वरं हन्ति वमनेन चिरन्तनम् ॥१२॥
भवति विषमहन्त्री चेतकी क्षौद्रयुक्ता भवति विषमहन्त्री पिप्पली वर्धमाना । विषमरुजमजाजी हन्ति युक्ता गुडेन प्रशमयति तथाग्र्या सेव्यमाना गुडेन ॥१३॥
त्रिभिरथ परिवृद्धं पञ्चभि: सप्तभिर्वा दशभिरथ विवृद्धं पिप्पली वर्धमाना । अनुपिबति पयो यस्तस्य न श्वासकासज्वरजठरगुदार्शोवातरक्तक्षया: स्यु: ॥१४॥
क्षीरेण पिप्पलीं भुक्त्वा क्षीरान्नं भुज्यते यत: । दशाहं पञ्चवृद्धि: स्यादपकर्षस्तथैव च ॥१५॥
इति वर्धमानपिप्पलीयोग: । सर्पि:क्षौद्रं शृतं क्षीरं पिप्पल्य: सितशर्करा । पिबेल्खञ्जेन मथितं पञ्चसारमितिस्मृतम् । विषमज्वरहृदरोगश्वासकासक्षयापहम् ॥१७॥ इति पञ्चसारम् ॥
निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् । जीर्णज्वरारोचककासशूलश्वासग्निमान्द्यार्दितपीनसिषु ॥२॥
पटोलयष्टीमधुतिक्तरोहिणीघनाभयाभिर्विषमज्वरघ्न: । कृत: कषायस्त्रिफलामृतावृषै: पृथक्पृथग्वा विषमज्वरापह: ॥३॥
इति पटोलपञ्चकं वा त्रिफलादित्रयम् । द्राक्षालवड्गशुण्ठीत्वग्धनिका च हरीतकी । मिसी मुस्तामृता चैव कृतमालकषायक: ॥१॥
वातपित्तज्वरं हन्ति पाचनो लघुदीपन: । दशभिश्चौषधैरतै: सर्वज्वरविनाशन: ॥२॥
ग्रन्थान्तरे - भार्ग्यब्दपर्पटकधन्वयवासविश्वभूनिम्बकुष्ठकणसिंह्यमृताकषाय: । जीर्णज्वरं सततसन्तकौ निहन्यादन्येद्युकं सहतृतीयचतुर्थकौ च ॥१॥
धान्यनागरगोक्षूरत्वचां क्वाथ: सशर्कर: । अन्येद्युष्कं तृतीयं च ज्वरं हन्ति न संशय: ॥२॥
भार्गीपर्पटविश्ववासककणाभूनिम्बनिम्बामृतामुस्ताधन्वयभेषजैस्तु दशभिर्हन्तीह सर्वज्वरान् । जीर्णान् धातुगतांस्तथा च विषमान् सोपद्रवान् दारूणान् क्वाथोऽयं यदि योगवासरमितं दत्तो यमाद्रक्षति ॥३॥
इति भार्ग्यादि: ।
वाड्माधुर्यजितामृतेऽमृतलतालक्ष्मीशिवाभेशिवा विश्वं विश्ववर घनं घन्कुचे सिंही च सिंहोदरी एभि: पञ्चभिरौषधैर्मधुकणायुक्त: कषाय: कृत: पीतश्वेद्विषमज्वर: किमु तदा तन्वड्गि न क्षीयते ॥१॥
अबले कृतकामबले चपले चलदृक्कमले खलु रत्नकले । अमृताब्दशिवं मधुमद्विषमे विषमेषु विलासविलासरते ॥२॥
द्राक्षामृतानागरतोयमुष्णं कृष्णाविपाकं बहुरोगनिघ्रम् । श्वासं च शूलं कसनं च मान्द्यं जीर्णज्वरं चैव जलेन तृष्णाम् ॥३॥
दु:स्पर्शोशीरसिंहीघनमधुकशिवाजाजिविश्वाटरुषच्छिन्नारेणूकषाय: समधुमगधको वापितश्चाष्टमांशम् । दाहं स्वेदं च शोषं कृमिमथ रुधिरं शैत्यमुद्भ्रान्तचित्तं श्वासं शूलं च तृष्णामहरहरसमं हन्ति चातुर्थिकाद्यम् ॥४॥
मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वाथ: । पीत: सकणाचूर्ण: समधुर्विषमज्वरं हन्ति ॥५॥
दार्वीदारुकलिड्गलोहितलताशम्याकपाठाशटीषौण्डीवीरकिरातवारणकणात्रायन्तिकापद्मकै: । उग्रधान्यकनागराब्दसरलै: शिग्रुत्वगम्भ: शिवाव्याघ्रीपर्पटदर्भमूलकटुकानन्तामृतापौष्करै: ॥६॥
धातुस्थं विषमं त्रिदोषजनितं चैकाहिकं द्याहिकं क्वाथो हन्ति तृतीयकज्वरभयं चातुर्थिकं भूतजम् ॥७॥
इत्यारोग्यपर्पणतो दार्व्यादि: । शृड्गीरामठरामसेनरजनीरुग्रेणुकारोहिणीरास्नैरण्डरसोनदारुरजनीराजद्रुराजीफलै: ।
त्रायन्तीत्रिवृताहुताशननतानन्तामृतामुद्रितादन्तितुम्बुरुचित्रतण्डुलतृटीत्वक्तिक्तनक्तञ्चरै: ॥१॥
वासावत्सकफबीजवासवसुराबल्यावरीवल्लिजं ब्राम्हीब्राम्हणयष्टिवारणकणाविश्वावयस्थावृषै: । मूर्वामालविकासमूलमगधामुस्ताजमोदाद्वयैर्मिश्रेयागुरुचन्दनेन्द्रचविकास्फोतावचाकट्फलै: ॥२॥
इत्येतैर्दशमूलयुग्निगदित: क्वाथश्चतु:षष्टिक: शृड्ग्यादिर्मदनाहिसिंहभिषजासर्वामयोन्मूलने । पुंसामष्ठविधज्वरार्तिशमने वाताग्निसंधुक्षणे सर्वाड्गेक्षणे सर्वाड्गेषु समीरणद्विपघटे शार्दूलविक्रीडितम् ॥३॥
इति चतु:षष्टिशृड्ग्यादि: । क्षुद्रानागरमुस्तपर्पटधनाभूनिम्बनिम्बामृताभार्गीचन्दनपुष्कराह्वकुलकैस्तिक्ताटरुषान्वितै: । पद्मास्थेन्द्रयवान्वितैश्च रचित: क्वाथो निपीत: । प्रगे शीताद्यं ज्वरमुच्छ्रितं तु विषमं त्रिद्वेकघस्त्रोद्भवम् ॥१॥
इति क्षुद्रादि: ।
अथ दुर्जलजनितज्वरचिकित्सा । हरीतकी निम्बपत्रं नागरं सैन्धवोऽनल: ॥ एषां चूर्णं सदा खादेर्द्दुर्जलज्वरशान्तये ॥१॥
भोजनादौ नरैर्भुक्तं शुण्ठीराज्यभयोत्थितम् ॥ कल्कं तु सहते नित्यं नानादेशोद्भवं जलम् ॥२॥
शक्राह्वदद्रुघ्नविषामृतानां निर्गुण्डिकाभृड्गमहौषधानाम् । क्षुद्रायवानीसहित: कषाय: शीतज्वरारण्यहिरण्यरेता: ॥३॥
रसोनकल्कं तैलेन सर्पिषा वा तिलैरपि । सेवितं विषमं हन्ति वातश्लेष्मगदानपि ॥४॥
इति रसोनकल्कम् । रास्त्रानागरकृष्णानां कल्कमुष्णाम्बुना पिबेत् । श्वासकासाग्निमाद्यं च शीतज्वरहरं भवेत् ॥५॥
जीरकं लशुनं व्योषं पाठां पिष्ट्वोष्णवारिणा । शीतज्वरस्यागमने पिबेद्गुडयुतेन च ॥२॥
पीतो मरेचचूर्णेन तुलसीपत्रजो रस: । द्रोणपुष्पीरसो वापि निहन्ति विषमज्वरान् ॥३॥
इति स्वरस: । ज्वरेऽञ्जनं निशातैलकृष्णामरिचसैन्धवै: । वचाहरीतकीसर्पिर्धूप: स्याद्विषमज्वरे ॥१॥
इत्यञ्जनधूपौ ॥ अजायाश्चर्मरोमाणि वचा कुष्ठं पलड्कषा निम्बपत्राणि मधु च धूपनं ज्वरनाशनम् ॥१॥
इति धूपनम् ॥
सर्पत्वचा सर्षपहिड्गिनिम्बपत्राण्यमीषां समचूर्णधूप: । विनिग्रहं राक्षसडाकिनीनां करोति रक्षां विषमज्वरस्य ॥२॥
इति द्वितीयधूप: । पलड्कषा निम्बपत्रं वचा कुष्ठं हरीतकी । सर्षपा:सयवा: सर्पिर्धूपनं ज्वरनाशनम् ॥१॥
इत्यष्टाड्गधूप: ।
कार्पासास्थितमयूरपिच्छबृहतीनिर्माल्यपिण्डीतकत्वड्मांसीवृषदंशविणनखवचाकेशाहिनिर्मोचनै: । नागेन्द्रद्विजशृड्गहिड्गुमरिचैस्तुल्यै: कृतं धूपनं स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्रं परम् ॥१॥
इति माहेश्वरधूप: ।
N/A
References : N/A
Last Updated : December 17, 2017
TOP