॥ अथ नाडीव्रणनिदानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ नाडीव्रणनिदानम् ॥
य: शोफमाममतिपक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्त: । अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि तत:
सपूय: ॥१॥
तस्यातिमात्रगमनाद् गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी ॥२॥
अथ सड्ख्यामाह ॥ दोषैस्त्रिभिर्भवति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या । तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्त्रवति क्षपासु ॥१॥
अथ वातिकमाह ॥ पित्तातु तृड्ज्वरकरी भ्रमदाहयुक्ता पित्तं स्त्रवत्यधिकमुष्णमह:सु चापि ॥१॥
अथ श्लेष्मजामाह ॥ ज्ञेया कफाद् बहुघनार्जुनपिच्छिलास्त्रा स्तब्धा सकण्डुररुजा रजनी प्रवृद्धा ॥१॥
अथ त्रिदोषजमाह ॥ दोषद्वयाभिहितलक्षणदर्शनेन तिस्त्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ॥१॥
दाहज्वरश्वसनमूर्च्छनवक्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि । तामादिशेत्पवनपित्तकफप्रकोपाद्धोरां गतिं त्वसुहरामिव कालरात्रिम् ॥२॥
अथ शल्यनिमित्तजामाह ॥ नष्टं कथंचिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति । सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्त्रावं करोति सहसा सरुजा च नित्यम् ॥१॥
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्त्र: खलु यत्नसाध्या: ॥२॥
इति नाडीव्रणनिदानम् ॥
॥ अथ तच्चिकित्सा ॥
नाडीनां गतिमन्वीक्ष्य शस्रेणोत्पाट्य कर्मवित् । सर्वं व्रणक्रमं कुर्याच्छोधनारोपणादिकम् ॥१॥
कृशदुर्बलभीरुणां नाडी मर्माश्रिता तु या । क्षारमूत्रेण संछिद्यान्न शस्त्रेण कदाचन ॥२॥
नाडीं वातकृतां साधु पाटितां लेपयेद् भिषक् । प्रत्यकपुष्पीफलयुतैस्तिलै: पिष्टै: प्रलेपयेत् ॥३॥
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशाह्वयै: । श्लैष्मिकीं तिलयष्टयाह्वानिकुम्भारिष्टसैन्धवै: ॥४॥
शल्यजां तिलमञ्जिष्ठामध्वाज्यैर्लेपयेन्मुहु: । आरग्वधनिशाकोलचूर्णाज्यक्षौद्रसंय़ुता ॥
सूत्रवर्तिर्व्रणे योज्या शोधनीं गतिनाशिनी ॥५॥
जात्यर्कशम्याककरञ्जदन्तीसिन्धूत्थ सौवर्चलयवावशूकै: । वर्ति: कृता हन्त्यचिरेण नाडीस्नुक् क्षीरपिष्टा सह सैन्धवेन ॥६॥
समूलपत्रां निर्गुण्डीं पीडयित्वा रसं हरेत् । तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम् ॥७॥
गुग्गुलुस्त्रिफलाव्योषै: समांशैश्चाज्ययोजितै: । नाडीं दुष्टव्रणं चापि जयेदपि भगन्दरम् ॥८॥
इति नाडिव्रणचिकित्सा ॥ अथ सर्वव्रणरोगाणां पथ्यापथ्यम् ॥ यवषष्टिकगोधूमपुराणा: सितशालय: । मसूरतुवरीमुद्गयूषश्च मधुशर्करा ॥१॥
विलेपी लाजमण्डश्च जाड्गला मृगपक्षिण: । घृतं तैलं पटोलं च वेत्राग्रं बालमूलकम् ॥२॥
वार्ताकं कारवेल्लं च कर्कोटं तण्डुलीयकम् । एतत्पथ्यं नरै: सेव्यं यथावस्थं यथामलम् ॥ व्रणशोथे व्रणे सद्योव्रणे नाडीव्रणेऽपि च ॥३॥
रुक्षाम्लशीतं लवणं व्यवायमायासमुच्चै:परिभाषणं च । प्रियासमालोकनमह्नि निद्रां प्रजागरं चड्क्रमणं नितान्तम् ॥४॥
शोकं विरुद्धाशनमम्बुपानं ताम्बूलशाकानि च पत्रवन्ति । अजाड्ग्लं मांसमसात्म्यमन्नं विवर्जयेत्सन्ततमप्रमत्त: ॥५॥
इति सर्वव्रणचिकित्सा ॥
N/A
References : N/A
Last Updated : March 17, 2018
TOP