॥ अथ ऋतुचर्यामाह ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
शिशिरः पुष्पसमयो ग्रीष्मो वर्षाः शरद्धिमः ।
माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी ॥१॥
उत्तरायणमत्राद्यैः परैः स्याद्दक्षिणायनम् ।
आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम् ॥२॥
शिशिरः शीत्तलोऽतीव रूक्षो वाताग्निवर्धनः ।
वसन्तो मधुरः स्निग्धः श्लेष्मवॄद्धिकरश्च सः ॥३॥
ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः ।
वर्षाः शीतविदाहिन्यो वह्निमान्द्यानिलप्रदाः ॥४॥
शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ।
हेमन्त्तः शीतलः स्निग्धः स्वादुर्जठरवह्निकृत् ॥५॥
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषुउ ।
वर्षादिषु च पित्तस्य श्लेष्मणः शिशिरादिषु ॥६॥
चयकोपशमान् दोषा विहाराहारसेवनैः ।
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम् ॥७॥
स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोष्ठता ।
पीतावभासता वह्निमन्दता चाङ्गगौरवम् ॥८॥
आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम् ।
संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः ।
ते तूत्तरामु गतिषु भवन्ति बलवत्तराः ॥९॥
N/A
References : N/A
Last Updated : December 12, 2017
TOP