संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मूर्च्छानिदानम् ॥

॥ अथ मूर्च्छानिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ मूर्च्छानिदानम्‍ ॥
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविन: । वेगाघातादभीघाताद्धीनसत्वस्य वा पुन: ॥१॥
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च । निवसन्ति यदा दोषास्तदा मूर्च्छन्ति मानवा : ॥२॥
संज्ञावहासु नाडीषु पिहितास्वनिलादिभि: । तमोऽभ्युपैति सहसा सुखदु:खव्यपोहकृत्‍ ॥३॥
सुखदु:खव्यपोहाच्च नर: पतति काष्ठवत्‍ । मोहो मूर्च्छेति तामाहु: षड्‍विधा सा प्रकीर्तिता ॥४॥
वातादिभि: शोणितेन मद्येन च विषेण च । षट्‍स्वप्येतासु पित्तं च प्रभुत्वेनावतिष्ठति ॥५॥

॥ अथ तस्या: पूर्वरुपमाह ॥
त्दृत्पीडा जृम्भणं ग्लानि: संज्ञादौर्बल्यमेव च । सर्वासां पूर्वरुपाणि यथास्वं च विभावयेत्‍ ॥१॥

॥ अथ वातजामाह ॥
नीलं वा यदि वा कृष्णमाकाशमथ वारूणम्‍ । पश्यंस्तम: प्रविशति शीघ्रं च प्रतिबुध्यते ॥१॥
वेपथुश्चाड्गमर्दश्च प्रपीडा त्दृदयस्य च । कार्श्यं श्यावारूणच्छाया मूर्च्छा सा वातसम्भवा ॥२॥

॥ अथ पित्तजामाह ॥
रक्तं हरितवर्णं वा वियत्पीतमथापि वा । पश्यंस्तम: प्रविशति सस्वेद: प्रतिबुध्यते ॥१॥
सपिपास: ससन्तापो रक्तपित्ताकुलेक्षण: । जातमात्रे च पतति शीघ्रं च प्रतिबुध्यते ॥ सम्भिन्नवर्चा: पीताभो मूर्च्छा सा पित्तसम्भवा ॥२॥

॥ अथ श्लेष्मजामाह ॥
मेघसड्काशमाकाशमाच्छन्नं वा तमोघनै: । पश्यंस्त्म: प्रविशति चिराच्च प्रतिबुध्यते ॥१॥
गुरुभि: प्रावृतैड्गैर्यथा वार्द्रेण चर्मणा । सप्रसेक: सहृल्लासो मूर्च्छा सा कफसम्भवा ॥२॥

॥ अथ सन्निपातजामाह ॥
सर्वाकृति: सन्निपातादपस्मार इवागता । सा जन्तुं घातयत्याशु विना बीभत्सचेष्ठितै: ॥१॥

॥ अथ रक्तगन्धजमूर्च्छामाह ॥
पृथिव्यम्भस्तमोरुपं रक्तगन्धश्च तन्मय: । तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवा: ॥ द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति ॥१॥

॥ अथ विषमद्यजे आह ॥
गुणास्तीव्रतरत्वेन स्थिताश्च विषमद्ययो: । त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ ॥ स्तब्धाड्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छित: ॥१॥

॥ अथ विषजामाह ॥
वेपथुस्वप्रतृष्णा: स्यु: स्तम्भश्च विषमूर्च्छित: । वेदितव्यं तीव्रतरं यथास्वं विषलक्षणै: ॥१॥

॥ अथ संज्ञानाशसाधर्म्यान्मूर्च्छाया भेदानाह ॥
मूर्च्छा पित्ततम:प्राया रज: पित्तानिलाद्‍भ्रम: । तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ॥१॥
इन्द्रियार्थेष्वसम्प्राप्तिर्गौरवं जृम्भणं क्लम: । निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेत्‍ ॥२॥
उत्क्लिश्यं न च निर्गच्छेत्प्रसेकष्ठीवनेरित: । हृदयोद्वेष्टनं चास्य तमुत्क्लेदं विनिर्दिशेत्‍ ॥३॥
आर्द्रचर्मावनद्धं च यो गात्रं मन्यते सदा । तथा गुरु शिरो नित्यं गौरवं तद्विनिर्दिशेत्‍ ॥४॥
यो‍ऽनायास: श्रमो देहे प्रवृद्ध: श्वासदर्जित: । क्लम: स इति विज्ञेय इन्द्रियार्थप्रबोधक: ॥५॥

॥ अथ सन्यासस्य मूर्च्छादिभ्यो भेदमाह ॥
दोषेषु मदमूर्च्छाया गतवेगेषु देहिनाम्‍ । स्वयमेवोपशाम्यन्ति सन्यासो नौषधैर्विना ॥१॥
वागदेहमनसां चेष्टामाक्षिप्यातिबला मला: । सन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिता: ॥२॥
स ना सन्याससंन्यस्त: काष्ठीभूतो मृतोपम: । प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्य: फलक्रियाम्‍ ॥३॥
वादित्रगीतानुनयैरपूर्वैर्विस्मापनैर्गुप्तफलावघंर्षे: । आभि: क्रियाभिश्च न लब्धसंज्ञो सानाहलालश्च नरश्च वर्ज्य: ॥४॥

॥ अथ तच्चिकित्सा ॥
मूर्च्छा मोहो द्विधा स प्रभवति सहजागन्तुभेदेन भिन्नस्तत्रागन्तुस्त्रिधा स्याद्रुधिरविषसुराजन्यभेदाद्विभिन्न: । प्रत्येकं दोषभेदाद्भवति च सहज: स त्रिधा षट्‍सुपित्तं प्राधान्येनेह तिष्ठेदभिदधति च तां द्वन्दजां सन्निपाते ॥१॥
सेकावगाहा मणय: सहारा: शीता: प्रदेहा व्यजनानिलाश्च । शीतानि पानानि च गन्धवन्ति सर्वांसु मूर्च्छास्वनिवारितानि ॥२॥
कोलमज्जोषणोशीरकेसरं शीतवारिणा । पीतं मूर्च्छा जयेल्लीढा कृष्णा वा मधुसंयुता ॥३॥ इति वृन्दात्‍ ।
महौषधामृताद्राक्षापुष्करग्रन्थिकोद्भवम्‍ । पिबेत्कणायुतं क्वाथं मूर्च्छायां च मदेषु च ॥१॥ इति वृन्दात्‍ ॥
नारीकेलाम्बुना पीता: सक्तव: समशर्करा: । पित्तत्दृत्कफतृण्मूर्च्छाभ्रमादीन्‍ घ्नन्ति दारूणान्‍ ॥१॥
इति चिकित्सासारात्‍ ॥
दुरालभाकषायस्य घृतयुक्तस्य सेवनात्‍ । भ्रम: शाम्यति गोविन्दस्मरणादिव पातकम्‍ ॥१॥
इति वैद्यजीवनात्‍ ॥
मधुना हन्त्युपयुक्ता त्रिफला रात्रौ गुडार्द्रकं प्रात: । सप्ताहात्‍ पथ्यभुजो मदमूर्च्छाकामलोन्मादान्‍ ॥१॥ इति चिकित्सासारात्‍ ॥
स्विन्नमामलकं पिष्ट्वा द्राक्षया सह संसृजेत्‍ । विश्वभेषजसंयुक्तं मधुना सह लेहयेत्‍ ॥ तेनास्य शाम्यते मूर्च्छा कास: श्वासस्तथैव च ॥१॥ इति वृन्दात्‍ ॥

॥ अथ योगतरिड्गिण्यां घृतम्‍ ॥
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा । सर्पि: कल्याणकं वापि मदमूर्च्छापहं पिबेत्‍ ॥१॥
रक्तजायां तु मूर्च्छायां हित: शीतक्रियाविधि: । मद्यजायां पिबेन्मद्यं निद्रां सेवेद्यथासुखम्‍ ॥२॥
विषजायां विषघ्नानि भेषजानि प्रदापयेत्‍ । अञ्जनान्यवपीडाश्च धूमान्‍ प्रधमनानि च ॥३॥
सूचिभिस्तोदनं शस्तं दाहपीडा नखान्तरे । लुञ्चनं नखलोम्रां च दन्तैर्दशनमेव च ॥४॥
आत्मगुप्तावघर्षश्च हि तस्तस्यावबोधने । अण्डयोर्घर्षणं चापि हितमेतैर्विबोधनम्‍ ॥५॥
नासावदनरोधेन नस्यैर्मरिचनिर्मितै: । नरं जागरयेद्भूमौ मूर्च्छितं मन्दमारुतै: ॥६॥

॥ अथ रसा: ॥
कणामधुयूतं सूतं मूर्च्छायामनुशीलयेत्‍ । शीतसेकावगाहादि सर्वं वा पीडनं हितम्‍ ॥१॥ इति रसरत्नदीपात्‍ ॥

॥ अथ पथ्यम्‍ ॥
जीर्णा यवा लोहितशालयश्च कौम्भं हविर्मुद्गसतीनयूष: । धन्वोद्भवा मांसरसाश्च रागसखाण्डवा गव्यपय: सिता च ॥१॥
पुराणकूष्माण्डपटोलमोचहरीतकीदाडिमनारिकेलम्‍ । मधूकपुष्पाणि च तण्डूलीयमुपोदिकान्नानि लघूनि चापि ॥२॥
अत्युच्चशद्बोऽद्भुतदर्शनं च गीतानि वाद्यान्यपि चोत्कटानि  श्रम: श्रुतिश्चिन्तनमात्मबोधो धैर्यं च मूर्च्छास्विति पथ्यवर्ग: ॥३॥
नासामुखद्वारमरुन्निरोधो विरेचनं छर्दनलड्घनानि । छायानभोऽम्भ: शतधौतसर्पिर्मधूनि तीक्ष्णानि च लाजमण्ड: ॥४॥

॥ अथापथ्यम्‍ ॥
ताम्बूलं पत्रशाकानि दन्तघर्षणमातपम्‍ । विरुद्धान्यन्नपानानि व्यवायं स्वेदनं कटुम्‍ ॥ विण्मूत्रवेगरोधं च तक्रं मूर्च्छामयी त्यजेत्‍ ॥१॥ इति मूर्च्छाचिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP