॥ अथ वातरक्तनिदानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ वातरक्तनिदानम् ॥
कृतं तावत्समासेन वातव्याधिरुपणम् । वातव्याधिप्रसड्गेन वातरक्तं निरुप्यते ॥१॥
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनै: । क्लिन्नशुष्काम्बुजानूपमांसपिण्य़ाकमूलकै: ॥२॥
कुलत्थमाषनिष्पावशाकादिपललेक्षुभि: । दध्यारनालसौवरिशुक्ततक्रसुरासवै: ॥३॥
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरै: । प्रायश: सुकुमाराणां मिथ्याहारविहारिणाम् ॥ स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥४॥
तस्य संप्राप्तिमाह ॥ हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायु: कोपं प्राप्त: कारणै: सेवितै: स्वै: । तीक्ष्णोष्णाम्लै: क्षारशाकादिभोज्यै: सन्तापाद्यैर्भूयसा सेवितैश्च ॥१॥
शीघ्रं रक्तं दुष्टिमायाति तच्च वायोमार्ग संरुणद्ध्याशु जात: । क्रुद्धोऽत्यर्थं मार्गरोधात्स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु ॥२॥
कृत्स्नं रक्तं निर्दहत्याशु दुष्टं स्त्रस्तं शीघ्रं पादयोश्चीते तु । तत्सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ॥ तद्वत्पित्तं दूषितेनासूजाक्तं श्लेष्मा दुष्टो दूषितेनासृजाक्त: ॥३॥
क्रुद्धोरुद्धगतिर्मरुत्प्रकुपितेनास्त्रेण सन्दूष्यते प्राप्यादौ तदतु प्रधावति वपु: कण्ड्वर्तिसुप्त्यादय: । जायन्ते करपादसन्धिषु मुहुर्वातास्त्रमेतत्कफे क्रुद्धो दोषवदादिशेत्तु विषवत्कृस्नं वपुर्धावति ॥४॥
स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ । पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोथौ मृदू च ॥५॥
कण्डूमन्तौ श्वेतशीतौ सशोफौ पीतस्तब्धौ श्लेष्मदुष्टे च रक्ते । सर्वैर्दुष्टे शोणिते चापि दोषा: स्वं स्वं रुपं पादयोर्दर्शयन्ति ॥६॥
अथ तस्य पूर्वरुपमाह ॥ स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् । सन्धिशैथिल्यमालस्यं सदनं पिटिलोद्गम: ॥१॥
जानुजड्घोरुकट्यंसहस्तपादाड्गसन्धिषु । निस्तोद: स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ॥२॥
कण्डू: सन्धिषु रुग् दाहो भूत्वा नश्यति चासकृत् । वैवर्ण्यं मण्डलोत्पत्तिर्वातासृकपूर्वलक्षणम् ॥३॥
दोषान्तरसंसर्गेण कारणमाह । तत्र वाताधिकलक्षणम् ॥ वाताधिकेऽधिकं तत्र शूलस्फुरणतोदनम् । शोधश्च रौक्ष्यं कृष्णत्वं श्यावता वृद्धिदाहय: ॥१॥
धमन्यड्गुलिसन्धीनां सड्कोचोऽड्ग्रहोऽतिरुक् । शीतद्वेषानुपाशयौ स्तम्भवेपथुसुप्तता: ॥२॥
अथ रक्ताधिकलक्षणमाह ॥ रक्ते शोथोऽतिरक्तोदस्ताम्रश्चिमिचिमायते । स्निग्धरुक्षै: शमं नैति कण्डूक्लेदसमन्वित: ॥१॥
अथ पित्ताधिकमाह ॥ पित्ते विदाह: सम्मोह: स्वेदो मूर्च्छो मदस्तृषा । स्पर्शासहत्वं रुग्दाह: शोथ: पाको भृशोष्णता ॥१॥
अथ कफाधिकमाह ॥ कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतता: ॥ अथ द्वन्द्वलक्षणम् ॥ कण्डूर्मन्दा च रुग् द्वन्द्वे ॥ अथ सन्निपातलक्षणमाह ॥ सर्वलिड्गं च सड्करे ॥१॥
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि । आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ॥२॥
अथैतस्यैवासाध्ययाप्यत्वमाह ॥ आजानुस्फुटितं यच्च प्रभिन्नं प्रस्त्रुतं च यत् । उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभि: ॥ वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् ॥१॥
अथ तस्योपद्र्वानाह ॥ अस्वप्नारोचकश्वासमांसकोथ शिरोग्रह: । संमूर्च्छा मदरुकतृष्णा ज्वरमोहप्रलेपका: ॥१॥
हिक्कापाड्गुल्यवैसर्पपाकतोदभ्रमक्लमा: । अड्गुलीवक्रता स्फोटदाहमर्मग्रहार्बुदा: ॥२॥
एतैरुपद्रवैर्युक्तं मोहेनैकेन वापि यत् । वातरक्तमसाध्यं स्याद्यच्चातिक्रान्तवत्सरम् ॥३॥
अकृस्त्रोपदद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् । एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् ॥ त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवा: ॥४॥ इति वातरक्तनिदानम् ॥
N/A
References : N/A
Last Updated : January 03, 2018
TOP