संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्षयरोगचिकित्सा ॥

॥ अथ क्षयरोगचिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ क्षयरोगचिकित्सा ॥
ज्वराणां शमनीयो य: पूर्वमुक्त: क्रियाविधि: । यक्ष्मिणां ज्वरदाहेषु स सर्पीषु प्रशस्यते ॥१॥
नित्यं स्वदेवपूजाभक्तिर्भैषज्यदेवतागुरुषु । छागलमांसपयोऽश्नञ्जीवति यक्ष्मी चिरं धृतिमान्‍ ॥२॥
उपद्रवान्सत्वरवैकृतादीञ्जयेद्यथा क्षिप्रसमीक्ष्य शास्त्रम्‍ । त्यजेत्कुवैद्यप्रतिपादितानि बुधो विरुद्धानिच भेषजानि ॥३॥
गीतवादित्रशब्दैश्च प्रियस्तुतिभिरेव च । हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनै: ॥४॥
ब्रम्हचर्येण दानेन तपसा देवतार्चनै: । सत्येनाचारयोगे रविमण्डलसेवया ॥ वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते ॥५॥
इति क्षयरोगचिकित्सा ॥

॥ अथोर:क्षतनिदानम्‍  ॥
धनुराकर्षतोऽत्यर्थं भारमुद्वहतो गुरुम्‍ । युध्यमानस्य बलिभि: पततो विषमोच्चत: ॥१॥
वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्ण्त: । शिलाकाष्ठाश्मनिर्घातात्‍ क्षिपतो निघ्रतऽपरान्‍ ॥२॥
अधीयानस्य वात्युच्चैर्दूरं वा व्रजतो द्रुतम्‍ । महानदीं वा तरतो हयैर्वा सह धावत: ॥३॥
सहसोत्पततो दूरं तॄर्णं चाप्यतिनृत्यत: । तथान्यै: कर्मभि: क्रूरर्भृशमभ्याहतस्य च ॥४॥
वीक्ष्यते वक्षसि व्याधिर्बलवान्समुदीर्यते । स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिन: ॥५॥
उरो विरुज्यतेऽत्यर्थं भिद्यतेऽथ विदह्यते । प्रपीड्येते तत: पार्श्वे शुष्यत्यड्गं प्रकम्पते ॥६॥
क्रमाद्वीर्यं बलं वर्णोऽरुचिरग्निश्च हीयते । ज्वरो व्यथा मनोदैन्यं विड्गभेदोऽग्निवधस्तथा ॥७॥
दुष्ट: श्याव: सुदुर्गन्धि: पीतो विग्रथितो बहु: । कासमानस्य चाभीक्ष्णं कफ: सासृक्‍ प्रवर्तते ॥८॥
सक्षत: क्षीयतेऽत्यर्थं तथा श्रुक्रौजसो: क्षयात्‍ । अव्यक्तं लक्षणं तस्य पूर्वरुपमिदं स्मृतम्‍ ॥९॥
उरोरुक्‍ शोणितच्छर्दि: कासो वैशेषिक: क्षते । क्षीणे च रक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रह: ॥१०॥
अल्पलिड्गस्य दीप्ताग्ने: साध्यो बलवतो नव: । परिसंवत्सरो याप्य: सर्वलिड्गं विवर्जयेत्‍ ॥११॥

॥ अथ द्राक्षाद्यं घृतम्‍ ॥
द्राक्षाया: सम्मितं प्रस्थं मधुकस्य पलाष्टकम्‍ । पचेत्तोयाढके सिद्धे पादशेषेण तेन तु ॥१॥
पलिके मधुकद्राक्षे पिष्टे कृष्णापलद्वयम्‍ । प्रदाय सर्पिष: प्रस्थं पचेत्क्षीरे चतुर्गुणे ॥२॥
सिद्धे शीते पलान्यष्टौ शर्कराया: प्रदापयेत्‍ । एतद्राक्षा घृतं सिद्धं क्षीणक्षतहितं परम्‍ ॥३॥
वातपित्तज्वरश्वासविस्फोटकहलीमकान्‍ । प्रदरं रक्तपित्तं च हन्यान्मांसबलप्रदम्‍ ॥४॥

॥ अथामृतप्राश्यावलेह: ॥
क्षीरधात्रीविदारीक्षुक्षीरिणां च तथा रसे । पचेत्समे घृतप्रस्थे मधुकैरिक्षुरन्वितै: ॥१॥
द्राक्षादिचन्दनोशीरशर्करोत्पलपद्मकै: । मधुकं कुसुमानन्ता काश्मरी तृणसंज्ञकै: ॥२॥
प्रस्थार्धं मधुन: शीते शर्करायास्तुलां तथा । पलार्धकांश्च संचूर्ण्यं त्वगेलापत्रकेसरान्‍ ॥३॥
विनीय तस्य संल्लिह्यान्मात्रां नित्यं सुयन्त्रित: । अमृतप्राश्यमित्येतदश्विभ्यां निर्मितं पुरा ॥४॥
क्षीरमांसाशिनो हन्ति रक्तपित्तक्षतक्षयम्‍ । तृष्णारुचिश्वासकासच्छर्दिहिक्काप्रमर्दनम्‍ । मूत्रकृच्छ्रज्वरघ्नं च बल्यं स्त्रीरतिवर्धनम्‍ ॥५॥

॥ अथ रसराज: ॥
मुक्ताप्रवालरसहेमसिताभ्रकान्तवड्गं मृतं सकलमेतदहो विभाव्यम्‍ । छिन्नारसेन च वरीसलिलेन सप्तवारं ततो मधुहविर्मरिचेन साकम्‍ ॥ लिह्यादुर:क्षतहरं रसराजकाख्यं माषप्रमाणमतनूद्भवहेतुमानम्‍ ॥१॥
अन्यच्च तर्पणं शीतमविदाहि हितं लघु । अन्नपानं निषेव्यं तु क्षतक्षीणै: सुखार्थिभि: ॥२॥
शोकं स्त्रियं क्रोधामसूयनं च त्यजेदुदारान्‍ विषयान्भजेच्च । तथा द्विजातींस्त्रिदशान्‍ गुरुंश्च कथाश्च पुण्या: शृणुयाद्दिजेभ्य: ॥३॥
इत्युर:क्षतचिकित्सा ॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP