॥ अथ स्त्रायुकनिदानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ स्त्रायुकनिदानम् ॥
पूर्वरुपमाह ॥ शाखासु कुपितो दोष: शोथं कृत्वा विसर्पवत् । भिनत्ति तं क्षते तत्र सोष्मा स्नायु विशोष्य च ॥१॥
कुर्यात्तन्तुनिभं जीवं वृत्तं श्वेतद्युतिं बहि: । शनै: शनै: क्षताद्याति च्छेदात्कोपमुपैति स: ॥२॥
तत्पाताच्छोफशान्ति: स्यात्पुन: स्थानान्तरे भवेत् । स स्नायुकेति विख्यात: क्रियोक्ता तु विसर्पवत् ॥३॥
बाह्वोर्यदि प्रमादेन जड्घयोस्त्रुट्यति क्वचित् । संकोचं खञ्जतां चैव च्छिन्नतन्तु: करोत्वसौ ॥४॥
वातेन श्यावरुक्ष: सरुगथ दहनान्नीलपीत: सदाहोऽथ श्वेत: श्लेष्मणा स्यात्पृथुगरिमयुतोऽथ द्विदोषो द्विलिड्गी । रक्तेनारक्तकान्ति: समधिकदहनोऽथाखिलै: सर्वलिड्गो रोगोऽसावष्टधेत्थं मुनिभिरभिहित: स्नायुकस्तन्तुकीट: ॥५॥
इति स्नायुकनिदानम् ॥
॥ अथ तच्चिकित्सा ॥
स्नेहस्वेदप्रलेपादि कर्म कुर्याद्यथामलम् । अहिंस्त्रामूलगोमूत्रकल्काल्लेपस्तु वातजे ॥१॥
पgचवल्कलकल्केन हितो लेपोऽत्र पित्तजे । श्लेष्मजे स्नायुके लेप: प्रशस्त: काgचनारज: ॥२॥
तद्द्वाभ्यां द्वन्द्वजे लेप: सर्वैस्तै: सर्वजे हित: । रक्तजे स्नायुके लेपो वटप्लक्षत्वचो हित: । विसर्पोक्ता: क्रिया: सर्वा: स्नायुके तु हिता मता: ॥३॥
इति सारसंग्रहात् ॥ अथ बब्बूलबीजादिलेप: ॥ बब्बूलबीजं गोमूत्रपिष्टं हन्ति प्रलेपनात् । स्नायुकानि समस्तानि सशोथानि सरुgजि च ॥१॥
अथ शिग्रुमूलादिलेप: ॥ शिग्रुमूलदलै: पिष्टै: काgजिकेन ससैन्धवै: । लेप: स्नायुकरोगाणां शमन: परम: स्मृत: ॥१॥
सुधया सह लोणारं जलेनालोड्य लेपयेत् । अनेन तु प्रयोगेण त्रिदिनादेव नश्यति ॥२॥
पातालीगरूडीमूलं पिबेत्स्त्रायुकनाशनम् । तिलपिण्याकलेपो वा ह्यारनालेन पेषित: ॥३॥
तक्रेण वाथ तैलेन ह्यश्वगन्धां प्रलेपयेत् । श्वेतविष्णुक्रान्तया वा शिगुमूलेन वा पुन: ॥४॥
पुंमूत्रै: काgचनीं पिष्ट्वा लेप: स्नायुकजिद्भवेत् । वार्ताकमूलं पुंमूत्रै: पत्रैर्वाश्वत्थजैश्च वा । सुतप्तैर्बन्धयेच्छीघ्रं शमयेत्स्त्रायुकं गदम् ॥५॥
इति सुश्रुतात् ॥ अथ रामठादियोग: ॥ रामठं टड्कणं क्षारं प्रत्येकं शाणसंमितम् । चूर्णयित्वा सप्तदिनं खादेत् संध्याद्वये नर: । अनेन योगराजेन स्त्रायुको नश्यति ध्रुवम् ॥१॥
अथातिविषाद्यं चूर्णम् ॥ अतिविषमुस्तकभार्गीविश्वौषधपिप्पलीबिभीतानाम् । चूर्णं तन्तुकृभिघ्नं पुंसामुष्णेन वारिणा पीतम् ॥१॥
अथ कुष्ठादिकल्क: ॥ कुष्ठरामठशुण्ठीभि: कल्कं शिग्रुसमन्वितम् । पानलेपनयोगेन तन्तुकीटविनाशनम् ॥१॥
गव्यं सर्पित्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम् । पीत्वा स्नायुकमत्युग्रं हन्त्यवश्यं न संशय: ॥२॥
मूलं सुषव्या हिमवारिपिष्टं पानाद्दिनान्ते तु गदं प्रचण्डम् । शान्तिं नयेत्सव्रणमाशु पुंसां गन्धर्वगन्धश्च घृतेन पीत: ॥३॥
पारावतपुरीषस्य मधुना कल्कितस्य च । गिलिता गुटिका हन्ति मूत्रसंयुक्ता: सेकलेपनधावनै: ॥५॥
वृन्ताकं भर्जितं भाण्डे कृत्वा दग्धा सहोपरि बन्धयेत्स्नायुको बहि: पतिति । एवं सप्तदिनं कार्यम् । शणबीजचूर्णं भागमेकं गोधूमपिष्टं भागमेकं द्वयमेकीकृत्य घृतेन पक्तव्य़ं गुडेन भक्षयेत् । एवं त्रिदिनं कार्यं स्नायुको नश्यति ॥ इति स्नायुकचिकित्सा ॥
N/A
References : N/A
Last Updated : March 17, 2018
TOP