संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्षारकल्पना ॥

॥ अथ क्षारकल्पना ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ क्षारकल्पना ॥
सत्वभावे गुडूच्यास्तु अमृताया रस: स्मृत: । चित्रकाभावतो दन्तीक्षार: शिखरिजो मत: ॥१॥
अभावे धन्वयासस्य प्रक्षेप्याऽथ दुरालभा । तगरस्याप्यभावे तु कुष्ठं देयं भिषग्वरै: ॥२॥
मूर्वाभावे त्वचो ग्राह्या निड्गिनीप्रभवा बुधै: । अहिंस्त्राया अभावे तु मानकन्द: प्रशस्यते ॥३॥
लक्ष्मणाया अभावे तु नीलकण्ठ इति स्मृत: । बकुलाभावतो देयं कल्हारोत्पलपड्कजम्‍ ॥४॥
नीलोत्पलस्याभावे तु आभात्वक्‍ तत्र कमलस्याप्यभावे तु कमलाक्ष इति स्मृत: ॥५॥
बकुलस्याप्यभावे तु आभात्वक्‍ तत्र दीयते । जातीपत्रं न यत्रास्ति लवड्गं तफलं स्मृतम्‍ ॥६॥
अर्कपर्णादिपयसो ह्यभावे तद्रसो मत: । पौष्कराभावत: कुष्ठं तथैरण्डजटा मता ॥७॥
स्थौणेयकस्याभावे तु भिषग्भिर्दीयते गद: । चविकागजपिप्पल्यौ पिप्पलीमूलवत्स्मृते ॥८॥
अभावे सोमराज्यास्तु प्रपुन्नाट इति स्मृत: । यत्र न स्याद्दारूनिशा तदा देया निशा बुधै: ॥९॥
रसाञ्जनस्याभावे तु सम्यग्दार्वी प्रयुज्यते । सौराष्ट्रयभावतो ज्ञेयं स्फुटिकं तद्रुणं भवेत्‍ ॥१०॥
तालीसपत्रकाभावे स्वर्णताली प्रशस्यते । भार्ग्यभां ताली सं कण्टकारीजटाथवा ॥११॥
रुचकाभावतो दद्याल्लवणं पांसुपूर्वकम्‍ । लवणानामभावे च सैन्धवं तत्र दीयते ॥१२॥
अभावे मधुयष्ट्यास्तु धातकीं च प्रयोजयेत्‍ । अम्लवेतसकाभावे चुक्रं दातव्यमिष्यते ॥१३॥
तदभावे तु सर्वत्र तु सर्वत्र जम्बीरादिरस: स्मृत: । द्राक्षा यदि न लभ्यन्ते प्रदेयं काश्मरीफलम्‍ ॥१४॥
तयोरभावे कुसुमं मधुकस्य मतं बुधै: । लवलीकुसुमं देयं नखस्याभाबत: पुन: ॥१५॥
वरी विदारी मुसली जीरकं च निशाद्वयम्‍ । दीप्यकं देवदारुश्चाभावे त्वेकं प्रयोजयेत्‍ ॥१६॥
कण्टकारीयुगं चैव धावनीयुगमेव च । शतपुष्पाद्वयं चैव उशीरयुगलं तथा ॥१७॥
मुद्गपर्णीमाषपर्णीयुग्मं चैव ततो भवेत्‍ । तर्कारीयुगलं चैव सर्वत्रेति विनिश्चय: ॥१८॥
पृथक्‍ पृथग्‍ द्वन्द्वमध्येऽभावे तत्र प्रयोजयेत्‍ । परस्परस्याभावे तु एकं तत्र प्रयोजयेत्‍ ॥१९॥
कस्तूर्यभावे कक्कोलं देयं तत्र भिषग्वरै: । कक्कलस्याप्यभावे तु जातीपुष्पं प्रदीयते ॥२०॥
अथवा मालतीपुष्पं पत्रं वा दीयते बुधै: । कर्पूराभावतो देयं सुगन्धि मुस्तकं तथा ॥२१॥
कर्पूरभावतो देयं ग्रन्थिपर्णं विशेशत: । कुड्कुमाभावतो दद्यात्कुसुम्भकुसुमं नवम्‍ ॥२२॥
श्रीखण्डचन्दनाभावे कर्पूरं देयभिष्यते । अभावे च ततो वैद्य प्रक्षिपेद्रक्तचन्दनम्‍ ॥२३॥
रक्तचन्दनकाभावे नवोशीरं विदुर्बुधा: । निर्गन्धं च सगन्धं द्विविधं रक्तचन्दनम्‍ ॥२४॥
अन्योऽन्यस्याभावे तु योजयेन्मातिमान्भिषक्‍ । परस्परस्याभावे तु योजयेच्चन्दनत्रयम्‍ ॥२५॥
मुस्ता चातिविषाभावे देया तत्र शिवा मता । अभावे च हरीतक्या मता कर्कटशृड्गिका ॥२६॥
अभावे नागपुष्पस्य पद्मकेसरमिष्यते । भल्लातकस्याभावे तु नदीभल्लातको मत: ॥२७॥
मेदाजीवककाकोली - ऋद्धिवृद्धियुवोऽसति । वरी विदार्यश्वगन्धावाराहिश्च क्रमात्‍ क्षिपेत्‍ ॥२८॥
वाराह्याश्च तथाभावे चर्मकारालुको मत: । वाराहीकन्दक: पोक्त: पश्चिमे गृष्टिसंज्ञक: ॥२९॥
क्षीरान्विता मूलकतुल्यकन्दा सप्ताष्टपत्रा सितरक्तकाण्डा । बिभर्ति या पल्लवमब्दशब्दात्साकुञ्चुकी श्वेतवपूर्वरेण्या ॥३०॥
श्यावकर्कशवाराहवृषणामनकन्दका: । ताम्बूलवल्ली छदनावल्ली वाराहकुट्टिका ॥३१॥
भल्लाताभावतश्चित्रं नलश्चेक्षोरभावत: । कुशस्य चाप्यभावे तु काशो ग्राह्य: प्रयत्नत: ॥३२॥
बिल्वकाश्मर्यतर्कारीपाटलाटिण्टुकैर्महत्‍ । हस्वं बृहत्यंशुमतीद्वयगोक्षुरकैर्भवेत्‍ ॥३३॥
एतेषां दशमूलानामेकमूलं प्रयोजयेत्‍ । अभावे तद्गुणं मूलं योज्यं वैद्यविशारदै: ॥३४॥
मधु यत्र न लभ्येत तत्र जीर्णगुडो मत: । मत्स्यण्डिकाखण्डसिता: क्रमेण गुणवत्तरा: ॥३५॥
मत्स्यण्डयभावतो देयं खण्डं च परिकीर्तिततम्‍ । तदभावे सिता योज्या बुधै: सर्वत्र निश्च्य: ॥३६॥
निर्गुण्ड्याश्चाप्यभावे तु सुरसा दीयते बुधै: । तुलस्या अप्यभावे तु निर्गुण्डीं योजयेत्तत: ॥३७॥
कुठेरिकायाश्चाभावे तुलसीं तत्र योजयेत्‍ । पुनर्नवायाश्चाभावे रक्ता सा च प्रकीर्तिता ॥३८॥
रास्त्रा यदि न लभ्येत कोलाञ्जनमिति स्मृतम्‍ । सुवर्णस्याप्यभावे तु स्वर्णमाक्षिकमुच्यते ॥३९॥
तारमाक्षिकमायोज्यं तदभावे तु यत्नत: । माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम्‍ ॥४०॥
शुद्धो रसो हातकादि मृतं यत्र न लभ्यते । तत्र लोहेन कर्माणि भिषक्‍ कुर्यात्प्रयत्नत: ॥४१॥
कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तम: अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत्‍ ॥४२॥
वैदूर्यादीनि रत्नानि न लभ्यन्तेऽत्र धीमता । तत्र मुक्तादिभूती च योजयेच्च भिषज्वर: ॥४३॥
अलाभे यच्च  तद्दव्यं प्रत्याम्रायेन योजयेत्‍ । गोक्षीराभावतश्छागं पय: सर्वत्र दीयते ॥४५॥
गोघृतस्याप्यभावे तु चाजं सर्वत्र दीयते । अत्र पोक्तानि वस्तूनि तानि तेषु च योजयेत्‍ ॥४६॥
क्षीराभावे रसो मौद्र्गौ मासूरो वा प्रयुज्यते । उष्णशीतगुणोत्कर्षातत्र वीर्यं द्विधा स्मृतम्‍ ॥ त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मक: ॥४७॥
इति वाग्भटोक्ति: ॥
आदौ षड्रसमप्यन्त्रं मधुरीभूतमीरयेत्‍ । फेनीभूतं कफं यातं विदाहादम्लतां तत: ॥ अग्निना शोषितं पक्वं पिण्डितं कटु मारुतात्‍ ॥१॥
चरकाचार्यस्तु - तीक्ष्णं रुक्षं लघु स्निग्धं मृदूष्णं गुरु शीतलम्‍ वीर्यमष्टविधं केचिद्‍ द्विविधं प्राहुरत्रय: ॥१॥
रसवीर्यविपाकाद्यै: समं द्रव्यं विचिन्त्य च । युञ्ज्यात्तद्विधमन्यच्च द्रव्याणां च रसादिकम्‍ ॥२॥
कुठेरिकाया: स्वरसेन सम्यक्‍ स्वर्णादिकानां च भवेच्च भस्म । वान्त्यादिदोषं न करोति तत्तु वन्योपलाभिर्गजसंज्ञकं पुटम्‍ ॥३॥
वमनं रेचनं नस्यं कर्णपूरणमेव च । रक्तस्त्रुति: समासेन कथ्यते नातिविस्तरम्‍ ॥४॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP