संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तृष्णाचिकित्सां व्याख्यास्याम: ॥

॥ अथ तृष्णाचिकित्सां व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ तृष्णाचिकित्सां व्याख्यास्याम: ॥
॥ अथ वाततृष्णा ॥
वातघ्नमन्नपानं मिष्टं शीतं च वाततृष्णाया: । स्याज्जीवनीयसिद्धं क्षीरघृतं वातजे तर्षे ॥१॥ इति वृन्दात्‍ ॥

॥ अथ पित्ततृष्णा ॥
पित्तजायां सितायुक्तं: पक्कोदुम्बरजो रस: । प्रपिबेत्ससितं मन्थं पय: कोलजसक्तुभि: ॥१॥

॥ अथ काश्मर्यादि ॥
काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम्‍ । द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत्‍ ॥ इति चिकित्सासारात्‍ ॥

॥ अथ कफतृष्णा ॥
यथोक्तं कफतृष्णायां छर्द्यां तथैव कार्यं स्यात्‍ । स्तम्भारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम्‍ ॥१॥
ज्ञात्वा मधुदधितर्पणलवणेन जलैर्वमनमभीक्ष्णम्‍ । दाडिममम्लफलं वाप्यन्यत्सकषायमवलेह्यम्‍ ॥२॥
पयसाथ वा पदद्याद्रजनीमधुशर्करायुक्तम्‍ ॥३॥ इति वृन्दात्‍ ॥

॥ अथ सामान्यविधि: ॥
तृष्णातिवृद्धावुदरे च पूर्णे सञूछर्दयेन्मागधिकोदकेन । विलोमसञ्चारहितं विधेयं स्याद्दाडिमाम्रातकमातुलिड्गै: ॥१॥
सुवर्णरौप्यादिभिरग्नितप्तैर्लोष्टै: कृतं वा सिकतोपलैर्वा । जलं सुखोष्णं शमयेच्च तृष्णां सशर्करं क्षौद्रयुतं हिमं वा ॥२॥
कसेरुशृड्गाटकपद्मबीजबिसेक्षुसिद्धं ससितं सवारि । तृष्णां क्षतोत्थामपि पित्तजातां निहन्ति पित्तं शिशिरीकृतं च ॥३॥
इति सारसड्ग्रहात्‍ । तुलसीमञ्जरीशुण्ठीकणाद्राक्षालवड्गकै: । नागवल्लीपर्णवृन्तत्वक्‍खर्जूरैश्चकार्षिकै: ॥१॥
कर्षार्धलोध्रसंयुक्तैर्विहितोऽयं कषायक: । तृष्णादाहग्लानिहरस्त्रिदोषशमन: पर: ॥२॥
मधुयुक्तं जलं शीतं पिबेदाकण्ठमातुर: । पश्चाद्वमेदशेषं तत्तृष्णा तेन प्रशाम्यति ॥३॥
इति योगतरड्गिण्या: । मधुरै: सुजीवनीयै: शीतैश्च सतिक्तकं शृतं क्षीरम्‍ । पानाभ्यञ्जनसेके त्विष्टं मधुशर्करायुक्तम्‍ ॥१॥
तज्जलं वा घृतमिष्टं पानाभ्यड्गेषु नस्यमपि किञ्चित्‍ । जम्ब्वाम्रातकबदर्यम्लवेतसवल्‍कलपञ्चाम्लै: ॥ त्दृमुखशिर: प्रमेहा: सघृता
मूर्च्छार्तिभ्रमतृषाग्ना: ॥२॥ इति वृन्दात्‍ ।
सजीरकाण्यार्द्रकशृड्गबेरसौवर्चलान्यर्थ परिप्लुपानि । मद्यानि त्दृद्यानि च गन्धवन्ति पीतानि सद्य: शमयन्ति तृष्णां चैवापकर्षति ॥२॥
गोस्तनीक्षुरसक्षीरयष्टीमधुमधूत्पलै: । नियतं वाम्यतो पीतैस्तृष्णा शाम्यति तत्क्षणात्‍ ॥३॥
जीरकुस्तुम्बरीद्राक्षाचन्दनोत्पलशीतजलम्‍ । शीतलेन समं दद्यात्तृष्णां हन्त्यतिशीलितम्‍ ॥४॥
निर्वापितं तप्तलोष्टं कपालसिकतादिभि: । तृष्णायां वमनोत्थायां सगुडं दधि शस्यते ॥५॥
इति चिकित्सासारात्‍ ॥

॥ अथ लघुमधूकादिफान्ट: ॥
शार्ड्गधरात्‍ । मधूकपुष्पगम्‍भारीचन्दनोशीरधान्यकै:  । द्राक्षया च कृत: फाण्ट: शीत: शर्करयायुत: ॥ तृष्णापित्तहर: प्रोक्तो दाहमूर्च्छाभ्रमाञ्जयेत्‍ ॥१॥

॥ अथ गण्डूष: ॥
सक्षौद्रमाम्रजम्बूत्थं सुपाचितम्‍ । सतृष्णो मधुना कुर्याद्गण्डूषाञ् शिशिरस्थित: ॥१॥
इति रसरत्नप्रदीपात्‍ । क्षीरक्षुरसमृद्वीकाक्षौद्रसिन्धुगुडोदकै: । सह वृक्षाम्लगण्डूषस्तालुशोषतृडन्तकृत्‍ ॥१॥
इति योगतरड्गिण्या: ॥

॥ अथ लेपा: ॥
दाडिमकपित्थतोध्रै: सविदारीबीजपूरकै: शिरस: । लेपो गौरामलकै: शृतारनालयुतै: सहितै: ॥१॥
इति वृन्दात्‍ । अरुणचन्दनवालकैर्नलदपद्मकतुल्यकृतांशक: । शिरसि लेपनमाचरतां नृणां तृडुपयात्युपशान्तिमसंशयम्‍ ॥१॥
इति कदम्बात्‍ । दाडिमं बदरं लोध्रं कपित्थं बीजपूरकम्‍ । पिष्ट्वा लेप: शिरस्येषां पिपासादाहनाशन: ॥१॥
इति योगतरड्गिण्या: ॥ इति लेपा : ॥

॥ अथ गुटिका ॥
नीलाम्बुजाब्दमधुलाजवतावरोहै: श्लक्ष्णीकृतैर्विरचिता गुटिका मुखस्था तृष्णां निवारयति तत्क्षणमेव तीव्रां मृत्यो: स्पृहामिव यते: परमार्थचिन्ता ॥१॥ इति राजमार्तण्डात्‍ ।
वटप्ररोहं मधुकुष्ठमुप्तलं सलाजचूर्णं गुटिका प्रकल्प्या । सुसंहिता सा वदने च धारिता तृष्णां सुवृद्धामपि हन्ति सज्वराम्‍ ॥१॥
इति योगशतात्‍ । रुगलाजाब्दवटप्ररोहमधुकैर्मध्वन्वित: कल्पिताप्युग्रामाशु तृषं भृशं प्रशमयेदास्यान्तरस्था गुटी । एलालाजलवड्गनागचपलास्त्रीकोलमज्जाम्बुदश्रीखण्डं मधुयुक्‍ प्रिये प्रशमयेद्वान्तिं त्रिदोषोद्भवाम्‍ ॥१॥
इति वैद्यजीवनात्‍ । रोगपसर्गजातायां धान्याम्बु ससिता मधु । वटप्ररोहयष्टयाह्वकणामधुकृता वटी ॥ मुखस्था चिरकालोत्था तृष्णां हन्यात्सुदुस्तराम्‍ ॥१॥
इति चिकित्सासारात्‍ । इति सामान्यविधि: ।
क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानै: । क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वा मधुकोदकं वा ॥१॥
आमोद्भवां बिल्ववचायुतानां जयेत्कषायैरपि दीपनानाम्‍ । उल्लेखनैर्गुर्वशनप्रजातां जयेत्क्षयोत्थां तु विना पिपासाम्‍ ॥२॥
स्निग्धिऽत्रे भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्‍ । अतिरुक्षदुर्बलानां तृष्णां शमयेन्नृणामिहाशु पय: ॥३॥
छागमांसरसं साज्यं शीतं समधुशर्करम्‍ । पीत्वा जयति दुर्दाहमूर्च्छाछर्दिमदात्ययान्‍ ॥४॥
सात्म्यान्नपानभैषज्यैस्तृष्णार्त्तस्य जयेत्तृषाम्‍ । तस्यां जितायामन्योऽपि व्याधि: शक्याश्चिकित्सितुम्‍ ॥५॥
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति । तस्मात्सर्वास्वस्थासु न क्वचिद्वारि वार्यते ॥६॥
अन्नेनापि विना जन्तु: प्राणान्सन्धारयेच्चिरम्‍ । तोयाभावे पिपासार्त: क्षणात्प्राणान्‍ विमुञ्चति ॥७॥

॥ अथ रसा: ॥
॥ अथ रसादिगुटिका ॥
रसरजतगुटीं पटीयसीं यो वदनसरोरुहमध्यगां दधाति । स जयति तृषितस्तृषां मनुष्यो भृशमघपुञ्जमिव त्रिमार्गगाम्भ: ॥१॥

॥ अथ रसादिचूर्णम्‍ ॥
रसगन्धककर्पूरै: शैलोशीरमरीचकै: । ससितै: क्रमवृद्धैश्च सूक्ष्मं कृत्वा त्वहर्मुखे ॥१॥
त्रिगुञ्जाप्रमितं खादेत्पिबेत्पर्युषिताम्बु च । भृशं तृषां निहन्त्येवमश्वैभ्यां च प्रकाशितम्‍ ॥२॥ इति सारसड्ग्रहात्‍ ॥ इति रसा: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
षष्टिका: शालय: पेया विलेपी लाजसक्तव: । अन्नमण्डो धान्यरस: शर्करारागखाण्डवौ ॥१॥
भृष्टैर्मुद्रैर्मसूरैर्वा चणकैर्वा कृतो रस: । रम्भापुष्पं तक्रकूर्ची कूष्माण्डमुपोदिका ॥२॥
खर्जूरं दाडिमं धात्री बीजपूरं गवां पय: । जम्बीरं करमर्दश्च पथ्यमेतत्तृषातुरे ॥३॥
गुर्वन्नमम्लं लवणं कषायं कटुत्रयं दुष्टजलानि तीक्ष्णम्‍ । एतानि सर्वाणि हिताभिलाषी तृषातुरो नैव भजेत्कदाचित्‍ ॥४॥
इति तृष्णाचिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP