॥ अथ विस्फोटनिदानमाह ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ विस्फोटनिदानमाह ॥
कट्वम्लतीक्ष्णोष्णविदाहिरुक्षक्षारैरजीर्णाध्यशनातपैश्च । तथर्तुदोषेण विपर्ययैश्च कुप्यन्ति दोषा: पवनादयस्तु ॥१॥
त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च । घोरान्कुर्वन्ति विस्फोटान्सर्वाञ्जज्वरपुर:सरान् ॥२॥
अथ तेषांरुपमाह ॥ अग्निदग्धनिभा: स्फोटा: सज्वरा रक्तपित्तजा: । क्वचित्सर्वत्र वा देहे विस्फोटा इति संस्मृता: ॥१॥
॥ अथ वातिकमाह ॥ शिरोरुकशूलभूयिष्ठज्वरतृट्पर्वभेदनम् । सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ॥१॥
अथ तच्चिकित्सा ॥
तत्रादौ लड्घनं कार्यं वमनं पथ्यभोजनम् । यथादोषं बलं वीक्ष्य प्रोक्तं युक्तं च रेचनम् ॥१॥
अथ क्वाथा: ॥ तत्रादौ द्विपञ्चमूलादि: । द्विपञ्चमूलीं रास्त्र्नां च दार्व्युशीरं दुरालभाम् । सामृतं धान्यकं मुस्तां क्वाथयित्वा शृतं पिबेत् ॥ विस्फोटं वातसम्भूतं निहन्त्येतन्न संशय: ॥१॥
अथ द्राक्षादि: ॥ द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकै: । कटुकालाजदु:स्पर्शै: क्वाथ: शर्करया युत: ॥ विस्फोटं पित्तजं हन्ति सोपद्रवमसंशयम् ॥१॥
अथ भूनिम्बादि: ॥ भूनिम्बनिम्बवासाश्च त्रिफलेन्द्रयवासका: । पिचुमन्द: पटोली च क्वाथमेषां सशर्करम् ॥ पीत्वा विमुच्यते नूनं कफविस्फोटकान्नर: ॥१॥
अथ द्वादशाड्ग: ॥ किराततिक्तकारिष्ट्यष्टयाह्वाम्बुदपर्पटई; । पटोलवासकोशीरत्रिफलाकौटजै: शृतम् ॥१॥
द्वादशाड्गं नर: पीत्वा विस्फोटेभ्यो विमुच्यते । द्वन्द्वजेभ्यस्त्रिदोषोत्थाद्रक्तजाश्च हिताशन: ॥२॥
अथामृतादिक्वाथ: ॥ अमृतविषपटोलं मुस्तकं सप्तवर्णं खदिरमसितवेत्रं च ॥१॥
अथ पटोलादिर्वृन्दात् ॥ पटोलामृतभूनिम्बवासारिष्टकपर्पटै: । खदिराब्दयुतै: क्वाथो विस्फोटज्वरशान्तये ॥१॥
अथ निम्बादि: ॥ निम्बत्वक् खादिर: सारो गुडूचीशुक्रजोऽथवा । क्वाथो माक्षिकसंयुक्तो विस्फोटादिज्वरापह: ॥१॥
अथ भूनिम्बादिश्चिकित्सासारात् ॥ भूनिम्बवासा कटुकापटोलं फलत्रिकं चन्दननिम्बसिद्ध: । विसर्पदाहज्वरशोफकण्डूविस्फोटतृष्णावमिनुत्कषाय: ॥१॥
इति क्वाथा: ॥ अथ पद्मकं घृतम् ॥ पद्मकं मधुकं लोध्रं नागपुष्पस्य केशरम् । हरिद्रे द्वे विडड्गानि सूक्ष्मैला तगरं तथा ॥१॥
कुष्ठं लाक्षापत्रकं च सिक्थकं तुत्थमेव च । तोयेनालोड्य तत्सर्वं घृतप्रस्थं विपाचयेत् ॥२॥
यांश्च रोगान्निहन्याद्धि तान्निबोध महामुने । सर्पकीटाखुदष्टेषु च । नाडीषु गण्डमालासु प्रभिन्नासु विशेषत: ॥
आस्तीकविहितं धन्यं पद्मकं तु महद् घृतम् ॥४॥
अथ पञ्चतिक्तं घृतम् ॥ पटोलसप्तच्छदनिम्बवासाफलत्रिकच्छिन्नरुहाविपक्कम् । तत्पञ्चतिक्तं घृतमाशु हन्यात्रिदोषविस्फोटविसर्पकण्डू: ॥१॥
अथ चन्दनादिलेप: ॥ चन्दनं नागपुष्पं च तण्डुलीयकवारिणा । शिरीषवल्कलं जाती लेप: स्याद्दाहनाशन: ॥१॥
अथ पथ्यापथ्यम् ॥ क्षुधिते लड्घिते वान्ते जीर्णशालियवादिभि: । मुद्गाढकीमसूराणां रसैर्वा विश्वसंयुतै: ॥१॥
सुनिषण्णकवेत्राग्रं तण्डुलीयकटिल्लकै: । कुलकाभीरुकैरेभि: सपर्पटकतीनसै: ॥२॥
टड्कारवेल्लै: कुसुमैर्निम्बपल्लवबिल्वजै: । तिक्तयूषसमायुक्तैर्भोजनं संप्रयोजयेत् ॥३॥
तिलान्माषान् कुलित्थांश्च लवणाम्लकटूनि च । विदाहिरुक्षमुष्णं च विस्फोटी परिवर्जयेत् ॥४॥
इति विस्फोटचिकित्सा ॥
N/A
References : N/A
Last Updated : March 17, 2018
TOP