॥ अथ क्वथितदुग्धगुणाः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
शृतोष्णं कफवातघ्नं शृतशीत्तं तु पित्तनुत् ।
अर्धोदकं क्षीरशिष्टमामाल्लघुतरं हितम् ॥१॥
अक्कथितं दशघटिकाः क्कथितं द्विगुणाश्च ताः पयः पथ्यम् ।
उषसि रसाढ्यं यावत्तावद्रुचिकृत्पथः प्राश्यम् ॥२॥
जीर्णज्वरे किन्तु कफे विलीने स्याद्दुग्धयानं तु सुधासमानम् ।
तदेव पीतं तरुणज्वरे च निहन्ति हालाहलवन्मनुष्यम् ॥३॥
चतुर्थभागं सलिलं निधाय यत्नाद्यदावर्तितमुत्तमं तत् ।
सर्वामयघ्नं बलपुष्टिकारि ओजःप्रदं क्षीरमतिप्रशस्तम् ॥४॥
बल्यं बृंहणमग्निवॄद्धिजननं पूर्वाह्णकाले पयो मध्याह्ने बलदायकं रुचिकरं कृच्छाश्मरीच्छेदनम् ।
बालेष्वग्निकरं क्षये बलकरं वृद्धस्य रेतःप्रदं रात्रौ क्षीरमनेकदोषशमनं सेव्यं सदा प्राणिनाम् ॥५॥
नवज्वरे च मन्दाग्नौ ह्यामदोषेषु कुष्ठिनाम् ।
शूलिनां कफदोषेषु कासिनामतिसारिणाम् ॥६॥
पयःपानं न कुर्वीत विशेषात्कृमिदोषदम् ।
शर्करासहितं क्षीरं कफकृत्पवनापहम् ॥७॥
सितासितोपलायुक्तं शुक्रलं दोषनाशनम् ।
सगुडं मूत्रकृच्छ्रघ्नं पित्तश्लेष्मकरं तथा ॥८॥
क्षीरं न भुञ्जीत कदाप्यतप्तं तप्तं च नैतल्लवणेन सार्धम् ।
पिष्टेन सन्धानकषायमुद्गकोशातकीकन्दफलादिकैश्च ॥९॥
N/A
References : N/A
Last Updated : December 12, 2017
TOP