॥ अथौपद्रवादसाध्यत्वमाह ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथौपद्रवादसाध्यत्वमाह ॥
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा । शोथो हृत्पार्श्वशूलं च यस्यासाध्यार्शसो हि स: ॥१॥
हृत्यार्श्वशूलसंमोहो छर्दिरड्गस्य रुग्ज्वर: । तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ॥२॥
तृष्णारोचकशूलार्तमतिप्रस्त्रुतशोणितम् । शोथातीसारसंयुक्तमर्शांसि क्षपयन्ति च ॥३॥
॥ अथ स्थानान्तरेऽर्शास्याह ॥
मेण्ढ्रादिष्वपि लक्ष्यन्ते यथास्वं नाभिजानि च । गण्डूपदास्यरुपाणि पिच्छिलानि मृदूनि च ॥१॥
॥ अथ चर्मकीलप्राप्तिपूर्वकमर्शोलक्षणमाह ॥
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहि: । कीलोपमं स्थिरखरं चर्मकीलं तु तं विदु: ॥१॥
॥ अथ तस्यैव वातादिभेदेन लक्षणमाह ॥
वातेन तोदरुक्षत्वं पित्तादसितरक्तता । श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता ॥१॥
अरिवत्प्राणिनो मांसकीलका विवसन्ति यत् । अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधत: ॥२॥
इत्यर्शोनिदानम् ॥
॥ अथार्शश्विकित्सां व्याख्यास्याम: ॥
स्नेह: स्वेदादयो वाते पित्ते स्यू रेचनादय: । कफे वान्त्यादयोऽर्श:सु मिश्रे मिश्रा प्रतिक्रिया ॥ पित्तवद्रक्तजे कार्य: प्रतीकारोऽर्शसि ध्रुवम् ॥१॥
अर्शोऽतिसारग्रहणीविकारा: प्रायेण चान्योन्यनिदानभूता: । सन्नेऽनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतोऽग्रिम् ॥२॥
दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्तित: । भेषजक्षारशस्त्राग्निसाध्यत्वं याप्यमुच्यते ॥३॥
N/A
References : N/A
Last Updated : December 19, 2017
TOP