॥ अथ तमाखुगुणाः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
धूमाख्यो धूमवृक्षश्च बृहत्पत्रश्च धूसरः ।
तमाखुर्गुच्छफलको धूमयन्त्रप्रकाशकः ॥१॥
बहुबीजो बहुफलः सूक्ष्मबीजस्तु दीर्घकः ।
दीर्घ पाटलवर्णं च पुष्पं तस्य प्रकीर्तितम् ॥२॥
तस्य पत्रं तु तीक्ष्णोष्णं कफवातहरं परम् ।
श्वासकासहरं चैव कोष्ठवातहरं तथा ॥३॥
वतानुलोमनकरं बस्तिशोधनमुत्तमम् ।
दन्तरुक्शमनं चैव कृमिकण्ड्वादिनाशनम् ॥४॥
मदपित्तभ्रमकरं वमनं रेचनं स्मृतम् ।
दृष्टिमान्द्यकरं चैव तीक्ष्णशुक्रकरं तथा ॥५॥
तस्यैव धूमपानं तु विशेषाद्धृदि शुक्रहृत् ।
देशान्तरप्रभेदेन तीक्ष्णं चातीवपित्तलम् ॥६॥
वमनस्य प्रभावेन वृश्चिकादिविषं हरेत् ।
रेचनत्वाद्धरेद्वातं श्लेष्माणं च नियच्छति ॥७॥
इति धान्यादिफलकन्दशाकादिवर्गः ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP