॥ अथ मूत्राष्टकम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
माहिषाजाविगोऽश्वानां स्वराणामुष्ट्रहस्तिनाम् ।
मूत्राष्टकमिति ख्यातं सर्वशास्त्रेषु संमतम् ॥१॥
गोमूत्रं कटु तिक्तोष्णं सक्षारं लेखनं सरम् ।
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥२॥
शूलगुल्मोदरानाहविकारे स्थापनादिषु ।
मूत्रप्रयोगसारेषु गव्यं मूत्रं प्रयोजयेत् ॥३॥
कासश्वासापहं शोफकामलापाण्डुरोगजित् ।
छागं रूक्षोष्णकटुकमीषन्मारुतकोपनम् ॥४॥
प्लीहोदरश्वासकासशोफवर्चोग्रहे हितम् ।
सक्षारकटुकं तिक्तमुष्णवातघ्नमाविकम् ॥५॥
दुर्नामोदरशूलेषु कुष्ठमेहविषूचिषु ।
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥६॥
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् ।
तीक्ष्णं क्षारं किलासे च गजमूत्रं प्रयोजयेत् ॥७॥
दीपनं कटु तीक्ष्णोष्णं वातरोगविकारनुत् ।
आश्वं कफहर्रं रूक्षं कृमिदद्रुविनाशनम् ॥८॥
औष्ट्रं कुष्ठोदरोन्मादशोफार्शःकृमिवातनुत् ।
गरचेतोविकारघ्नं तीक्ष्णं जठररोगजित् ॥९॥
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ।
कषायतिक्तमेतेषु हिक्काश्वासहरं परम् ॥१०॥
पित्तरक्तक्रिमिहरं रेचनं कफवातजित् ।
तिक्तं मेदोहरं मूत्रं मानुषं तु विषापहं ॥११॥
इत्यष्ट मूत्राणि ॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP