संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोपदंशनिदानम् ॥

॥ अथोपदंशनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथोपदंशनिदानम् ॥
अथ तस्य हेतुमाह ॥ हस्ताभिघातान्नखदन्तघातादधावनाद्रत्यतिसेवनाद्वा । योनिप्रदोषाच्च भवन्ति शिश्ने पजञ्चोपदंशा विविधापचारै: ॥१॥
अथ वातजमाह ॥ सतोदभेदस्फुरणै: सकृष्णै: स्फोटैर्व्यवस्येत्पवनोपदंशम्‍ ॥१॥
अथ पित्तजकफजे आह ॥ पीतैर्बहुक्लेदयुतै: सदाहै: पित्तेन रक्तै: पिशितावभासै: । सकण्डुरै: शोफयुतैर्महद्भि: शुक्लैर्व्रणै: स्त्रावयुतै: कफेन ॥१॥
अथ सन्निपातजमाह ॥ नानाविधस्त्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम्‍ ॥१॥
अथासाध्यत्वमाह ॥ नानाविधस्त्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम्‍ ॥१॥
अथासाध्यत्वमाह ॥ विशीर्णमांसं कृमिभि: प्रजग्धं मुष्कावशेषं परिवर्जयेच्च । संजातमात्रे न करोति मूढ: क्रियां नरो यो विषये प्रसक्त: ॥ कालेन शोफक्रिमिदाहपाकै: प्रशीर्णशिश्नोम्रियते स तेन ॥१॥
अथैकस्थानत्वेमात्र लिड्गार्शमाह ॥ अड्कुरैरिव सञ्जातैरुपर्युपरि संस्थितै: । क्रमेण जायते वर्तिस्ताम्रचूडशिखोपमा ॥१॥
कोशस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि वा । सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा ॥२॥
लिड्गवर्तिरिति ख्याता लिड्गार्श इति चापरे । मेण्ढ्रसन्धौ व्रणा: केचित्‍ केचित्सर्वाश्रयास्तथा ॥३॥
कुलत्थाकृतय: केचित्‍ केचित्पद्मदलोपमा: । रुजानाहार्तिबहुलास्तृष्णाक्लेदसमन्विता: । स्त्रीणां पुंसां च जायन्ते उपदंशाश्च दारुणा: ॥४॥
इत्युपदंशनिदानम्‍ ॥

॥ अथ तच्चिकित्सा
स्निग्धस्विन्नस्य तेष्वादौ ध्वजमध्ये शिराव्यध: । जलौकापातनं वा स्यादूर्ध्वाध: शोधनं तथा ॥१॥
सद्योऽपहृतदोषस्य रुकशोफावुपशाम्यत: । पाको रक्ष्य: प्रयत्नेन शिश्नक्षयकरश्च स: ॥२॥
अथ क्वाथ: ॥ पटोलनिम्बत्रिफलाकिरातै: क्वाथं पिबेद्वा खदिरासनाभ्याम्‍ । सगुग्गुलं वा त्रिफलायुतं वा सर्वोपदंशापहर: प्रयोग: ॥१॥
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकै: । सचन्दनोप्तलै: स्निग्धै: पेय: पित्तोपदंशहा ॥२॥
अथ लेपा: सपौण्डरीकैर्मधुकरास्त्राकुष्ठपुनर्नवै: । सरलागुरुभद्राख्यैर्लेपो वातोपदंशहा ॥१॥
बब्बूलदलचूर्णेन दाडिमत्वग्रजोऽथ वा । गुण्डनं लिड्गदेशस्य लेप: पूगफलेन वा ॥२॥
वटप्रहरोहार्जुनजम्बुपथ्या लोध्रं हरिद्रासहित: प्रलेप: । सर्वोपदंशेष्ववरोहणार्थं चूर्णं च तज्जं विमलाञ्जनेन ॥३॥
दहेत्कटाहे त्रिफलां तां मषीं मधुसंयुताम्‍ । कृत्वोपदंशलेपोऽयं सद्यो रोपयति व्रणम्‍ ॥४॥
त्वचो दारुहरिद्राया: शड्खनाभीरसाञ्जनम्‍ । लाक्षागोमयनिर्यासतैलं क्षौद्रं घृतं पय: ॥५॥
एभि: सुपिष्टैर्द्रव्यांशैरुपदंशं प्रलेपयेत्‍ । व्रणाश्च तेन शाम्यन्ति श्वयथुर्दाह एव च ॥६॥
नीलोत्पलानि कुमुदं पद्मसौगन्धिकानि च । उपदंशेषु चूर्णानि प्रदेहोऽयं प्रशस्यते ॥७॥
रसाञ्जनं शिरीषेण पथ्यया च समन्वितम्‍ । सक्षौद्रं लेपनं योज्यं सद्यो रोपयति व्रणम्‍ ॥८॥
गोपीचन्दनतुत्थे च समभागेन मर्दयेत्‍ । कज्जली जलसंयुक्ता व्रणानां लेपने हिता ॥९॥
मोचापूगविभूतिं च कोलत्वकशड्खजीरकम्‍ । पिष्टोपदंशे लेपोऽयं पयसा पानमेव च ॥ नाशयेदुष्णतां तूर्णं शुष्कान्कुर्याद्‍ व्रणानपि ॥१०॥
अथ पारदादिलेप: ॥ पारदं गन्धकं तालं दरदं च मन:शिलाम्‍ । पृथककर्षं द्विकर्षं च मुड्‍दारं सड्जीरकम्‍ ॥१॥
विधाय कज्जलीं श्लक्ष्णां मर्दयेत्सुसारसै: । छायाशुष्कां तत: कृत्वा पुनरुन्मत्तजद्रवै: ॥२॥
विमर्द्याथ वटी कार्या उपदंशे प्रयोजयेत्‍ । घोघृतेन प्रलेपोऽयं व्रणानां रोपणे हित: ॥३॥
इति लेपा: ॥ अथ स्वरसा: ॥ आम्रत्वचं विनिष्पीठ्य निगृह्य स्वरसं पलम्‍ । चतुष्फलं त्वज्जाक्षीरं संयुक्तं प्रपिबेत्प्रगे ॥१॥
एवं मुनिदिनं कुर्यांदुपदंशे व्रणे हितम्‍ । अजाक्षीरं तथाजीर्णगोधूमंप पथ्यामाचरेत्‍ ॥२॥
जातीप्रवालस्वरसं पलार्धं धेनोर्घृतं तत्समरालकिञ्चित्‍ । पिबेत्प्रगे पञ्चविधोपदंशे क्षारादृते गोधुमसर्पि पथ्यम्‍ ॥३॥
इति स्वरसा: ॥ अथ प्रक्षालनम्‍ निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवैतसाद्भि: । प्रक्षालनाल्लेपघृतानि कुर्याच्चूर्णं च पित्तास्त्रभवोपदंशे ॥१॥
त्रिफलाया: कषायेण भृड्गराजरसेन वा । व्रणप्रक्षालनं कुर्यादुपदंशप्रशान्तये ॥२॥
अश्वत्थोदुम्बरप्लक्षवटवेतसज: शृत: । व्रणशोथोपदंशानां नाशन: क्षालनात्स्मृत: ॥३॥
जयाजात्यश्वमारार्कशम्याकानां दलै: पृथक्‍ । कृतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत्‍ ॥४॥
अथोपदंशलिड्गलेप: ॥ रसकर्पूरगद्याणं मर्दयेत्खदिराम्बुना । प्रक्षालयेद्वारिणा च शुष्के लेपस्तु वारिणा ॥१॥
लिड्गलेपो व्रणं हन्ति त्रिदिनान्नात्र संशय: ॥१॥
अथ व्रणोपदंशे पूगादिलेप: ॥ पूगं सुदग्धमेकं तु रसगन्धकहिड्गुलम्‍ । खदिरं तुत्थकं चैव मर्दयेन्निम्बुनीरकै: ॥१॥
समभागानि सर्वाणि गुटिकां कारयेद्‍बुध: । उपदंशे घृतैर्लेपस्त्रिदिनाद्‍व्रणरोपण: ॥२॥
अथोपदंशस्फोटेऽवलेप: ॥ जातीफलविडड्गानि रसकं देवपुष्पकम्‍ । समभागानि सर्वाणि नवनीतेन मर्दयेत्‍ ॥ स्फोटानामुपदंशानां
व्रणशोधनरोपण: ॥३॥
अथ घृतानि ॥ भूनिम्बनिम्बत्रिफलापटोलकरञ्जजातीखदिरासनानाम्‍ । सतोयकल्कैर्घृतमाशु पक्वं सर्वोपदंशापहरं प्रदिष्टम्‍ ॥१॥
करञ्जनिम्बार्जुनशालजम्बूवटादिभि: कल्ककषायसिद्धम्‍ । सर्पिर्निहन्यादुपदंशदोषं सदाहपाकं स्त्रुतिरागयुक्तम्‍ ॥२॥
अथागारधूमादितैलम्‍ ॥ अगारधूमो रजनी सुराकिण्वं च तैस्त्रिभि: । भागोत्तरै: पचेत्तैलं कण्डूशोथरुजापहम्‍ ॥ शोधनं रोपणं चैव सवर्णकरणं तथा ॥१॥
अथ चोपचिन्याश्चूर्णम्‍ ॥ कुडवं चोपचिन्याश्च शर्कराया: पलं तथा । पिप्पली पिप्पलीमूलं मरिचं देवपुष्ककम्‍ ॥१॥
आकल्लं सुरकं शुण्ठी जन्तुघ्नं च वराड्गकम्‍ । पृथक्कोलमितं ग्राह्यमेतच्चूर्णीकृतं शुभम्‍ ॥२॥
सर्वमेकत्र संयोज्यं कर्षार्धं प्रतिवासरम्‍ । भक्षयेन्मधुसर्पिभ्यां युक्तं पथ्य़ं समाचरेत्‍ ॥३॥
शाल्योदनं तथा सूपं तुवरीणां घृतं मधु । गोधूमं सैन्धवं शिग्रुं बिम्बी कोशातकीफलम्‍ ॥४॥
आर्द्रकं जलमन्दोष्णं हितमत्र प्रकीर्तितम्‍ । पञ्चोपदंशरोगाणां प्रमेहाणां तथैव च । व्रणानां वातरोगाणां कुष्ठानां च विनाशनम्‍ ॥५॥
इति चोपचिन्याश्चूर्णम्‍ ॥ अथ चोपचिनीपाक: ॥ चोपचिन्युद्भवं चूर्णं पलद्वादशमेव च । पिप्पली पिप्पलीमूलं मरिचं नागरं त्वचम्‍ ॥१॥
आकल्लकं लवड्गं च प्रत्येकं कर्षसंमितम्‍ । शर्करासमचूर्णं च पाचयेत्सर्वमेकत: ॥२॥
मोदकं कारयेत्तत्तु कर्षं कर्षं प्रमाणत: । सायं प्रातर्निषेव्यस्तु पथ्यं पूर्वोक्तचूर्णवत्‍ ॥३॥
उपदंशे व्रणे कुष्ठे वातरोगे भगन्दरे । धातुक्षयकृते कासे प्रतिश्याये च यक्ष्मणी ॥ सर्वान्‍ रोगान्निहन्त्याशु तत: पुष्टिकरो भवेत्‍ ॥४॥
इति चोपचिनीपाक: ॥ अथ बालहरीतकीयोग: ॥ बालपथ्यापलैकं च तुल्यं शाणमितं तथा । निम्बुद्रवेण संमर्द्यं दृढं सप्त दिनानि वै ॥१॥
गुटिकां चणकप्रायां छायाशुष्कां तु कारयेत्‍ । शीतोदकानुपानेन नित्यमेकां प्रदापयेत्‍ ॥२॥
घस्त्राणामेकविंशत्या मुच्यते तूपदंशत: । शालिगोधूंममुद्गाश्च गोसर्पि: पथ्यमीरितम्‍ ॥३॥
अथ रसगन्धककज्जली ॥ कर्षंमात्रो रसं शुद्धो द्विकर्षो गन्धकस्तथा । विविधत्कज्जलीं कृत्वा तां च गोघृतसंयुताम्‍ ॥१॥
माषमात्रां प्रतिदिनं दद्यादेवं त्रिसप्तकम्‍ । गोधूमान्नं घृतं पथ्यं कारयेल्लवणं विना ॥ उपदंशापह: श्रेष्ठो योगोऽयं मुनिभि: स्मृत: ॥२॥
अथ महाक्षारगुटी ॥ महाक्षारमाकल्लकं खादिरं च क्रमाद्वर्धितं वारिणा पिष्टमेतत्‍ । निषेवेत माषप्रमाणं घृतेन महारोगनिघ्नं व्रणेषु व्रणघ्नम्‍ ॥१॥
गोधूमं गोघृतं पथ्यं मन्दं लवणमाचरेत्‍ । द्विवारं ग्राहयेन्नित्यमुपदंशनिवृत्तये ॥२॥
अथ सर्वोपदंशे रसघृतमुच्यते ॥ शुद्धं रसं पिचुमितं द्विबलिं प्रमर्द्यं सर्वद्विभागनवनीतमपि प्रमर्द्यं । वस्त्रे प्रलिप्य पिचुमन्दविपर्णशाखां संवेष्टयेन्नमतमुखीं परिदीप्यवर्तिम्‍ ॥१॥
तस्या घृतं स्त्रवति काचमये च पात्रे धृत्वाहिवल्लिदलसाकमिदं प्रदेयम्‍ । सर्वोपदंशकरिकेसरिणं व्रणघ्नं पट्वादिकं रसघृते च विवर्जनीयम्‍ ॥२॥
अथ पथ्यापथ्यम्‍ ॥ दिवा निद्रां मूत्रवेगं गुर्वन्नं मैथुनं गुडम्‍ । आयासमम्लं तक्रं च वर्जयेदुपदंशवान्‍ ॥१॥
द्विपलं चिक्कणं पूगं द्विकर्षं सिन्धुसस्यकम्‍ । कर्कारुत्वक्कर्षमिता भृष्टमेतत्रिकं भवेत्‍ ॥२॥
जम्भोदरगतं तुत्थं पुटपाकविधानत: । पक्वं चणकमानं तु सर्वमेतत्सुखल्वके ॥३॥
जम्बीररसलिलैर्मर्द्यं गाढं सिद्धं दिनत्रयात्‍ । उपदंशं चन्द्रकं च व्रणं पूतिप्रमेहकम्‍ ॥४॥
पृदाकुवीरुच्छदनलिप्तं प्सातं निवारयेत्‍ । शर्करासहितं पथ्यं गोधूममान्नं घृतप्लुतम्‍ ॥५॥
पलमात्रे कटुतैले व्द्यक्षं सिक्थं च कर्षमेव पृथक्‍ । कम्पिल्लकं विरोजा सिन्दूर: सोरकं चैव ॥६॥
मुर्दाडकं च सर्वं पित्तलपात्रे विपाचितं शिखिना । मन्दं पचेत्‍ प्रमथ्य स्वपाणिनोद्‍वृत्य तत्सिद्धम्‍ ॥७॥
सितवस्त्रे संलिप्य व्रणोपरिस्थापयेत्सम्यक्‍ । क्षतमूदेशं सर्वं सशूकदोषं फिरड्गजं हन्यात्‍ ॥८॥
शस्त्रकृतं नखजातं दन्तजमाशुव्रणं शिखिजम्‍ । दृष्ट्वा प्रत्ययमेतत्प्रकाशितं बालबोधाय ॥९॥
इत्युपदंशरोगचिकित्सा ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP