॥ अथ कालज्ञानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
अभ्रैर्लक्षितलक्षणेन पयसा पूर्णेन्दुना भानुना पूर्वादक्षिणपश्चिमोत्तरदिशं षट्त्रिद्विमासैककम् । छिद्रं पश्यति चेत्तदा दशदिनं धूमाकृतिं पञ्चमे ज्वालां पश्यति सद्य एव मरणं कालोचितज्ञानिनाम् ॥१॥
अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । आयुर्हीना न पश्यन्ति चतुर्थं मातृमण्डलम् ॥२॥
अरुंधती भवेज्जिव्हा ध्रुवो नासाग्रमेव च । विष्णुस्तु भ्रूद्वयोर्मध्यो भ्रूद्वयं मात्रुमण्डलम् ॥३॥
नासाग्रं भ्रूयुगं जिव्हां मुखं चैव न पश्यति । कर्णघोषं न जानाति स गच्छेद्यममन्दिरम् ॥४॥
नवभ्रूः पञ्चचक्षुश्च सप्तकर्नस्त्रिनासिका । जिह्वा च दिनमेकं तु कालचिन्हं दिने दिने ॥५॥
अकस्माच्च भवेत्स्थूलो ह्यकस्माच्च कृशो भवेत् । अकस्मादन्यथाभावः षण्मासैश्च दिनश्यति ॥६॥
रसनायां कृष्णभायो मुखं कुङ्कुमसन्निभम् । जिव्हा स्वल्पस्वरस्पर्शा दुर्लभं तस्य जीवितम् ॥७॥
स्वेदो ललाटे हिमवन्नरस्य शीतार्दितस्यापि सुपिच्छिलस्य । कण्ठस्थितो यस्य न याति वक्षो मार्गं यमस्यैति गृहं स मर्त्यः ॥८॥
रात्रौ दाहो ऽभितपति दिवा जायते शीतलत्वं कण्ठे श्लेष्मा विरसवदनं कुङ्कुमाकारनेत्रे । जिह्वा कृष्णा वहति च सदा स्थूलसूक्ष्मा च नाडि तद्भैषज्यं स्मरनमधुना रामरामेति नाम्नः ॥९॥
सौम्या दृष्टिर्वदति विमलं हस्तपादौ सदोष्णौ स्वल्पो दाहः सुरसवदनं कोमला यस्य जिह्वा । नासाश्वासो वहति सरलः स्वेदहीनो ज्वरोऽसौ साध्यो रोगी भवति नियतं वैद्यभैषज्ययोग्यः ॥१०॥
इति कालज्ञानम् ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP