॥ अथ शिलाजतु ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
निदाघे घर्मसंतप्ता धातुसारं धराधरा: । निर्यासवत्प्रभुमुञ्चन्ति तच्छिलाजतु कीर्त्यते ॥१॥
॥ अथ शोधनम् ॥
अथोष्णकाले रवितापयुक्ते व्यश्र्त्रे निवाते समभूमिभागे । चत्वारि पात्राण्यसितायसानि न्यस्यातपे दत्तमनोऽवधान: ॥१॥
शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तोयं द्विगुणं ततोऽस्मात् । उष्णं तदर्धं शृतमत्र दत्वा विशोधयेत्तन्मृदितं यथावत् ॥२॥
ततस्तु कृष्णं समुपैति चोर्ध्वं सन्तानिकावद्रविरश्मियोगात् । पात्रात्तदन्यत्र ततो निदध्यात् तस्यान्तरे चोष्णजलं निधाय ॥३॥
ततश्च तस्मादपरत्र पात्रे तस्माच्च पात्रादपरत्र तत्र । पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहृतं तत्पुनराहरेच्च ॥४॥
यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् । तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् ॥५॥
इति शोधनम् ।
॥ अथ शुद्धशिलाजतुपरीक्षा ॥
वह्यौ क्षिप्तं तु निर्धूमं यत्तु लिड्गोपमं भवेत् । तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् ॥ गोमूत्रगन्धि मलिनं शुद्धं ज्ञेयं शिलाजतु ॥१॥
शिलाजतुरसायनं कटुकतिक्तमुष्णं कृमिक्षयोदरभिदश्मरीश्वयथुपाण्डुकण्डूहरम् । प्रमेहवमिकुष्ठजित्कफसमीरदुर्नामहृद्वलीपलितमानसानपि सकासकृच्छ्रप्रणुत् ॥२॥
अशुद्धं दाहमूर्छाय भ्रमपित्तास्त्रशोषत: । शिलाजतु प्रकुरुते मान्द्यमग्रेश्च विड्ग्रहम् ॥३॥ इति शिलाजतु ।
N/A
References : N/A
Last Updated : December 17, 2017
TOP