॥ अथ गौरीपाषाणाभेद: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
गौरीपाषाणक: प्रोक्तो द्विविध: श्वेतरक्तक: । श्वेत: शड्खसदृग्रक्तो दाडिमाभ: प्रकीर्तित: ॥१॥
श्वेत: कृत्रिमक: प्रोक्तो रक्त: पर्वतसम्भव: । विषरुपधरौ तौ हि रसकर्मणि पूजितौ ॥२॥
नामान्याह । गौरीपाषाणकश्चान्यो विकटो रक्तचूर्णक: ॥१॥
गुणानाह । रसबन्धकर: स्निग्धो दोषघ्नो रसवीर्यकृत् ॥१॥
शुद्धिमाह । घननादरसान्विते च मल्ल: परिपाच्य: किल दोलकाहृयन्त्रे शुभवह्यिरथो दिनं च मन्द: परिदेय: परिजायते स शुद्ध: ॥१॥
अन्यच्च । उल्लीपाषाणसंशुद्धिर्वक्ष्यते शास्त्रसंमतम् । चूर्णीकृतं पटे बद्ध्वा शिलाक्षारोदकेन च ॥१॥
दोलायन्त्रे दिनैकं तु पाचित: शुद्धिमाप्रुयात् । विकटं पोटलीं बद्ध्वा दोलायन्त्रेण काञ्जिके ॥२॥
टड्कणे वा गवां दुग्धे पाचयेद्धटिकाद्वयम् । आजमांसरसे वापि शुद्धो भवति निश्चयात् ॥३॥
उल्लीपाषाणमल्लं च केचिन्नामान्तरं विदू: । वाते कफे तथा शीते योजयन्ति चिकित्सका: ॥४॥
॥ अथोपविषाण्याह ॥
अर्कक्षीरस्नुहीक्षीरलाड्गलीकरवीरका: । गुञ्जाहिफेनधत्तूरा: सप्तोपविषजातय: ॥१॥
॥ अथ मतान्तरम् ॥
अर्कस्नुग्लाड्गलीगुञ्जाहयारिविषमुष्टय: । धूर्तोऽहिफेनजैपालौ नवोपविषजातय: ॥१॥
अर्कद्वयं सरं वातकुष्ठकण्डूविषापहम् । निहन्ति प्लीहगुल्मार्शौयकृच्ल्छेष्मोदरक्रिमीन् ॥२॥
॥ अथ स्नुक् ॥
सेहुण्डो रेचनस्तीक्ष्णो दीपन: कटुको गुरु: । शूलमष्ठीलकाध्मानगुल्मशोफोदरानिलान् ॥१॥
हन्ति दोषान्यकृत्प्लीहकुष्ठोन्मादांश्च पाण्डुताम् । अर्कसेहुण्डर्योदुग्धं तत्स्वयं शुद्ध्मुच्यते ॥२॥
॥ अथ लाड्गलीमाह ॥
कलिकारी सरा कुष्ठशोफार्शौव्रणशूलजित् । तीक्ष्णोष्णा कृमिनुल्लघ्वी पित्तला गर्भपातिनी ॥ लाड्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता ॥१॥
॥ अथ गुञ्जामाह ॥
गुञ्जा लघुर्हिमा रुक्षा भेदनी श्वासकासजित् । कोष्णा वृष्या कुष्ठ्कण्डूश्लेष्मपित्तव्रणापहा । गुञ्जा काञ्जिकसंस्विन्ना शुद्धिमायाति यामत: ॥१॥
॥ अथ हयारिमाह ॥
करवीरद्वयं नेत्ररोगकुष्ठव्रणापहम् । लघूष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम् ॥ हयारिर्विषवच्छोध्यो गोदुग्धे दोलकेन तु ॥१॥
॥ अथ विषतिन्दुकमाह ॥
विष्मुष्टिस्तिक्तकटुस्तीक्ष्णोष्ण: श्लेष्मवातहा । सारमेयविषोन्मादहरो मेदोहर: स्मृत: ॥१॥
विषमुष्टयारनालेन सप्ताहं शुद्धिमाप्नुयात् । किं वा चाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ॥२॥
॥ अथ जैपालमाह ॥
जैपलोऽस्ति गुरुस्तिक्तो वान्तिकृज्ज्वरकुष्टनुत् । उष्ण: सरो व्रणश्लेष्मकण्डूकृमिविषापह: ॥१॥
॥ अथ शुद्धिमाह ॥
जैपालं रहितं त्वगड्कुररसज्ञाभिर्मले माहिषे निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे सवासोर्दितम् । लिप्तं नूतनखर्परेषु विगतस्नेहं रज:सन्निभं निम्बूकाम्बुविभावितं च बहुश: शुद्धं गुणाढ्यं भवेत् ॥१॥
अन्यच्च । जैपालं निस्तुषं कृत्वा दुग्धे दोलायुतं पचेत् । अन्तर्जिह्वां परित्यज्य युञ्ज्याच्च रसकर्मणि ॥१॥
अन्यच्च । वस्त्रे बद्ध्वा तु जैपालं गोमयस्योदके न्यसेत् । पाचयेद्याममात्रं तु जैपाल: शुद्धतां व्रजेत् ॥१॥
॥ अथोन्मत्तमाह ॥
धत्तूरो मदवर्णाग्रिवातकृज्ज्वर्कुष्ठनुत् । उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापह: ॥१॥
धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुन: । कथितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥२॥
॥ अथाहिफेनमाह ॥
अफुकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् । मदतृड्दाहकृच्छुक्रस्तम्भनायासमोहकृत् ॥१॥
अतिसारे ग्रहण्यां च हितं दीपनपाचनम् । सेवितं दिवसै: कैश्चिद्श्रमयत्यन्यथार्तिकृत् ॥२॥
अहिफेनं शृड्गबेररसैर्भाव्यं त्रिसप्तधा । शुध्यत्युक्तेषु योगेषु योजयेत्तद्विधानत: ॥३॥
नवभिर्मर्दित: सूतश्र्छिन्नपक्ष: प्रजायते । मुखं च जायते तस्य धांतूश्च ग्रसतेतराम् ॥४॥
भड्गिका पित्तला तिक्ता तीक्ष्णोष्णा ग्राहिणी लघु: । कर्षणी दीपनी रुच्या मदकृत् कफवातहृत् ॥५॥
बब्बूलत्वक्कषायेण भड्गां संस्वेध्य शोषयेत् । गोदुग्धभावनां दत्वा शुष्कां सर्वत्र योजयेत् ॥६॥
॥ अथ सर्वविषे गरूडमन्त्रमाह ॥
ॐ नम: प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विनतासुताय हे गरुड कश्यपसुत वैनतेय तार्क्ष्य स्वर्णवज्र तुण्डनखप्रहरणाय अनन्तवासुकितक्षककर्कोटकपद्मामहापद्मशड्खपालकुलिकजयविजय अष्टमहानागकाल उच्चाटनीमूषकविषप्रहरणावहनधूनन शीघ्रकम्प २ आवेश २ ढण्ढर हे श्रीगरुडायनम: । मन्त्रेणानेन मन्त्रज्ञो जलं चलकमात्रकम् । सप्तवाराभिजप्तं तु पाययेद् ग्रस्तचेतनम् ॥१॥
सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात् । त्रिवारमेवं पानीयं तस्य तर्जन्या ताडयेद्बुध: । त्रिवारं मन्त्रपूर्वं तु निर्विषो भवति क्षणात् ॥३॥ इति विषोपविषविधि: ॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP