खण्डः ३ - अध्यायः ०२०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
परस्यानुकृतिर्नाटयं नाट्यज्ञैः कथितं नृप॥
तस्य संस्कारकं नृत्तं भवेच्छोभाविवर्धनम् ॥१॥
नृत्यं तु द्विविधं प्रोक्तं नाट्यलास्याश्रयं सदा॥
द्वैविध्यं द्विविधस्यापि पुनरुक्तं नराधिप ॥२॥
अभ्यन्तरञ्च बाह्यं च बाह्यं लक्षणवर्जितम्॥
अभ्यन्तरं लक्षणवन्मङ्गल्यं तत्प्रयोगतः ॥३॥
लास्यं स्वच्छन्दतः कार्यं मण्डपे यदि वा बहिः॥
नाट्यं मण्डप एव स्यान्मण्डपं द्विविधं भवेत् ॥४॥
आयतं चतुरस्रं तु द्वात्रिंशद्धस्तसम्मितम्॥
चतुरस्रं न कर्तव्यमायतं द्विगुणायतम् ॥५॥
हीनाधिकं न कर्तव्यं दृष्टादृष्टशुभप्रदम्॥
हीने भवति सम्मर्दो विस्तीर्णे नाट्यगेययोः ॥६॥
व्यक्तिर्नैवोपपद्येत तस्मात्तौ परिवर्जयेत॥
आदावेव तु कर्तव्यं त्रिदशानां तु पूजनम् ॥७॥
पूजनं जर्जरस्यापि वास्तुदैवतपूजनम्॥
एवं कृत्वा ततो नाट्यं नान्दीपूर्वकमिष्यते ॥८॥
ततो जवनिकाक्षेपैः प्रतिपात्रप्रवेशनम्॥
प्रवेशनिर्गमौ कार्यौ कृत्वा कार्यस्य सूचनम् ॥९॥
पुष्पाञ्जलिः प्रदातव्या नाट्यान्ते वास्तुपूजनम्॥
पाठ्ये गीते समासक्तः पात्रतुल्यः परिक्रमः ॥१०॥
चतुष्कलो नायकानां मध्यानां त्रिकलो भवेत॥
द्विकलश्चाधमानां स्यान्मध्यमे नृपकर्मणि ॥११॥
एकाधिकोनं सर्वेषां कर्तव्यं कार्ययोगतः॥
देवा वीरोद्धता ज्ञेया उद्धता दानवादयः ॥१२॥
नृपाश्च धीरललिता धीरास्तदनुजीविनः॥
प्रशान्तधीरा ऋषयः प्रशान्तास्तत्पदानुगाः ॥१३॥
धीरोदात्तास्तथा विप्रा उदात्ता वणिजो मताः॥
एवंविधाश्च कथिता एतेषामेव योगतः ॥१४॥
आहर्यः सात्त्विकश्चैव याचिकोंगिक एव च॥
चतुष्प्रकारोऽभिनयः कर्तव्यो नाट्यकर्मणि ॥१५॥
आहार्यः प्रतिशीर्षादिर्द्विकृतो वेश उच्यते॥
धीरोद्धतानां वेशः स्यान्न चात्यर्थसमुल्बणः ॥१६॥
उद्धतश्चोद्धतानां स्याद्राज्ञां ललित इष्यते॥
प्रतिनायकवेशस्तु कर्तव्यश्च तथोद्धतः ॥१७॥
अन्येषां सदृशो वेशो देशकर्माश्रयो भवेत्॥
अश्वादयश्च कर्तव्याश्चर्मकाष्ठादिभिः समाः ॥१८॥
अतः परं प्रवक्ष्यामि सात्त्विकाभिनयं तव॥
अश्रुप्रपातरोमाञ्चस्वेदनं स्पन्दनं तथा ॥१९॥
तथा च वर्णविन्यासैः सात्त्विकाभिनयो भवेत्॥
वाचिको वाचया प्रोक्तो वक्ष्याम्यंगिकमुत्तरे ॥२०॥
नाट्यवृत्तं तु कर्तव्यं हर्षस्थाने सदा बहु॥
शोकस्थाने न कर्तव्यं किञ्चिद्वा कारयेत्ततः ॥२१॥
चतुर्धा रेचकं प्रोक्तं कटिपादांघ्रिकाश्रयम्॥
चातकान्या महाचारी चारी च द्विविधा मता ॥२२॥
सुकुमाराङ्गः वाक्चेष्टा चारी भवति यादव॥
एतैरभ्यर्थितैर्ज्ञेया महाचारी नरेश्वर ॥२३॥
मण्डलानि दशैवास्य चारीसंयोगजानि तु॥
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् ॥२४॥
सूचीविद्धं दण्डपादं विकृतालातसंज्ञिते॥
वामबद्धं सललितं क्रान्तं चाकाशगानि तु ॥२५॥
मण्डलानि दशान्यानि शृणु भौमानि पार्थिव॥
भ्रमरास्कन्दिते स्यातां मार्दवं च ततः परम् ॥२६॥
समा सरितमित्याहुरेडकाक्रीडितं यथा॥
अड्डितं शकटाख्यं च तथाहार्यमिति स्मृतम् ॥२७॥
पिष्टकुब्जं च विज्ञेयं तथा चापगतं पुनः॥
अथाङ्गहारान्वक्ष्यामि नामतस्तान्निबोध मे ॥२८॥
स्थिरहस्तोङ्गहारस्तु तथैवाक्षिप्तकः स्मृतः॥
उद्घाटितस्तृतीयः स्यात्तथा चान्योऽपराजितः ॥२९॥
मत्ताक्रीडोऽथ विष्कम्भः तथा स्वस्तिकरेचितः॥
वृश्चिकापसृतश्चैव तलमन्दा च सर्पितः ॥३०॥
मतल्लीस्खलितश्चैव भ्रमरः पार्श्वस्वस्तिकः॥
मदाद्विलसितश्चैव विक्षिप्तो गतिमण्डलः ॥३१॥
वैशाखरेचितश्चैव परिवृत्तकरेचितः॥
उद्वर्तकः परिच्छिन्नो रेचकोऽथ बलाहकः ॥३२॥
सम्भ्रान्तो वाङ्गिकश्चैव इति क्रीडो ह्यलातकः॥
विद्युद्भ्रान्तः परावृत्तः पार्श्वच्छेदसमन्वितः ॥३३॥
आक्षिप्तो रेचितश्चैव सौम्योऽथ करितस्तथा॥
सूचीविद्धोऽपविद्धश्च विलापोवनिकुट्टितः ॥३४॥
षट्त्रिंशदेते संप्रोक्ता ह्यङ्गहारा यदूत्तम॥
एतेषां संप्रवक्ष्यामि कारणानि यथाक्रमम्॥
हस्तपाद प्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥३५॥
सर्वेषामङ्गहाराणां निष्पत्तिः कारणं भवेत्॥
तान्यहं संप्रवक्ष्यामि नामभिः कर्मभिस्तथा ॥३६॥
हस्तपादसमायुक्तो नृत्तस्य करणं भवेत॥
द्वे नृत्यकरणे चैव भवेतां नृप मातृका ॥३७॥
त्रिभिः कलापकश्चैव चतुर्भिः खण्डकः स्मृतः॥
पञ्चैव करणानि स्युः संज्ञाघात इति स्मृतः ॥३८॥
षङ्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा॥
करणैरिह संयुक्ता अङ्गहारा इति स्मृताः ॥३९॥
एतेषां चैव वक्ष्यामि नामान्यहमतः परम्॥
तालपुष्पापविद्धे द्वे लीनस्वस्तिकरेचितम् ॥४०॥
मण्डलं स्वस्तिकं चैव ऊरु वृत्तं निकुण्डकम्॥
सूचीविद्धं कटिच्छिन्नमर्धरेचितमेव च ॥४१॥
वक्षः स्वस्तिकमुत्पन्नं स्वस्तिकं पृष्ठगं पुनः॥
दिक्स्वन्तिकमलाताख्यमर्धसूचीकटीसमम् ॥४२॥
आक्षिप्तरेचितं क्षिप्रमर्धस्वस्तिकसञ्चितम्॥
भुजङ्गवासितं चैव ऊर्ध्वजानु निकुञ्चितम् ॥४३॥
मतल्ली त्वर्धमतल्ली स्याद्रेचकनिकुण्टकम्॥
पारविद्धं तडिद्धान्तं वलितं चूर्णितं तथा ॥४४॥
ललितं दण्डपक्षं च भुजङ्गत्रस्तरेचितम्॥
नूपुरं रेचितं चैव भ्रमरं चतुरं तथा ॥४५॥
भुजङ्गाञ्चितमन्यत्स्याच्छिन्नं वृश्चिकरेचितम्॥
लतावृश्चिकमन्यत्स्याच्छिन्नं वृश्चिकरेचितम् ॥४६॥
वृश्चिकं व्यंसितं चैव सूचीविद्धकमेव च॥
ललाटतिलकं चैव कुण्डलं चक्रमंडलम् ॥४७॥
तरोर्मण्डलमाक्षिप्तं लतालसितमार्गलम॥
विक्षिप्तं भ्रमितं चैव विलासं वानरप्लुतम् ॥४८॥
परिवृत्तं निवृत्तं च पार्श्वाक्रान्तं निकुञ्चितम्॥
अतिक्रान्तमवक्रान्तं दोलापादविवर्जितम् ॥४९॥
नागप्रक्रीडितं चैव विप्लुतं गरुडप्लुतम्॥
गण्डसूची परिक्षिप्तं पार्श्वजानुकमेव च ॥५०॥
गृहावलीनकं लीनं विष्णुक्रान्तमजप्लुतम्॥
आक्रान्तं मण्डितं चैव मयूरलसितं नसम् ॥५१॥
सर्पितं चोलपादं च हरिणप्लुतमेव च॥
प्रेङ्खालितं नितम्बं च स्खलितं परिहस्तकम् ॥५२॥
असर्पिततलं चैव सिंहविक्रीडितं तथा॥
वृषभ क्रीडितं चैव गङ्गावतरणं तथा ॥५३॥
अष्टोत्तरशतं चैव करणानां प्रकीर्तितम्॥
सुकुमारं तथा विद्धं वृत्तं द्विविधमुच्यते ॥५४॥
उद्धृतं पुरुषप्रायं स्त्रीप्रायं सुकुमारकम्॥
देवचिह्नकृताकारा पिण्डी भवति पर्थिव ॥५५॥
भारती सात्त्वती चैव कौशिक्यारभटी तथा॥
चतस्रो वृत्तयः प्रोक्ता वाक्प्रधाना तु भारती ॥५६॥
तथा वीररसप्राया विज्ञेया सात्त्वती नृप॥
तथा रौद्रप्रचारा च भवत्यारभटी सदा ॥५७॥
शृङ्गारहास्यबहुला तथा भवति कौशिकी॥
आवन्ती दाक्षिणात्या च तथा चैवात्र मागधी ॥५८॥
पञ्चाली मध्यमा चेति वृत्तिः सा तु चतुर्विधा॥
वेषभाषानुकरणं तथाचारप्रवर्तनम् ॥५९॥
प्रवृत्तिरिति विख्याता वृत्तीनामाश्रयास्तु ताः॥
नाट्यलोकाश्रया धर्मि धर्माश्च द्विविधा मता ॥६०॥
सिद्धिश्च द्विविधा नाट्ये दैविकी मानुषी तथा॥
व्यायामान्मानुषी तत्र दैवी देवप्रसादजा ॥६१॥
रसेन भावेन समन्वितं च तालानुगं काव्यरसानुगं च॥
गीतानुगं नृत्तमुशन्ति धन्यं सुखप्रदं धर्मविवर्धनं च ॥६२ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्यवर्णनो नाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP