खण्डः ३ - अध्यायः ०३४
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
वज्र उवाच॥
नृत्तमुत्पादितं केन ऋषिणा दैवतेन वा॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥१॥
मार्कण्डेय उवाच॥
एकार्णवे पुरा लोके नष्टस्थावरजंगमे॥
शेषपर्यङ्कशयने सुप्ते मधुनिषूदने ॥२॥
संवाह्यमानचरणे लक्ष्म्या यदुकुलोद्वह॥
नाभ्यां तस्य समुत्पन्नं पद्मं पद्मनिभेक्षण ॥३॥
तत्र जातः स्वयं ब्रह्मा देवः शुभचतुर्मुखः॥
दैवैः सह महाभाग सशरीरैर्नराधिप ॥४॥
पद्मोदबिन्दु सम्भूतौ तत्रैव मधुकैटभौ॥
रजस्तमोमयौ चोरौ दानवौ तौ भयानकौ ॥५॥
ततो जगृहतुर्वेदान्ब्रह्मणस्तौ नराधिप॥
हत वेदस्ततो ब्रह्मा तुष्टाव मधुसूदनम् ॥६॥
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्॥
दानवापहृता वेदा अन्धो जातोस्मि शत्रुहन् ॥७॥
एवमुक्तस्तदा विष्णुर्ब्रह्मणा पुरुषोत्तमः॥
उत्थाय सलिलात्तस्माद्बभ्राम सलिलाशये ॥८॥
अङ्गहारैः सुललितैस्तथा पदपरिक्रमैः॥
तथा भ्रमन्तन्तं देवं ददर्शायतलोचना ॥९॥
अतीव ललितं लक्ष्मीर्जातरागा विशेषतः॥
देवोप्यश्वशिरो भूत्वा पातालतलगः क्षणात ॥१०॥
स दैत्यान्दृष्टवान्वेदांस्त्यक्त्वाश्वशिरसस्तनुम्॥
जघान तौ महाकायौ दानवौ मधुकैटभौ ॥११॥
हत्वा वेदसहायस्तु सम्प्राप्तो ब्रह्मणोऽन्तिके॥
ददौ वेदांस्ततस्तस्मै देवदेवः स्वयम्भुवे ॥१२॥
दत्त्वा वेदांस्ततः प्राह सृष्टिं कुरु पितामह॥
वेदग्रामयुतो ब्रह्मा सर्गं चक्रे ततः प्रभुः ॥१३॥
शेषस्याङ्कगतं देवं लक्ष्मीः पप्रच्छ पार्थिव॥
लक्ष्म्युवाच॥
देवदेव जगन्नाथ शङ्खचक्रगदाधर ॥१४॥
परिक्रमं मया तोये दृष्टः सललितः प्रभो॥
अतीव रमणीयाङ्ग किं तत्प्रब्रूहि मे प्रभो ॥१५॥
श्रीभगवानुवाच॥
नृत्तमुत्पादितं ह्येतन्मया पद्मनिभेक्षणे॥
अङ्गहारैः सकरणैः संयुक्तं सपरिक्रमैः ॥१६॥
नृत्तेनाराधयिष्यन्ति भक्तिमन्तस्तु मां शुभे॥
त्रैलोक्यस्यानुकरणं नृत्ते देवि प्रतिष्ठितम् ॥१७॥
एतावदुक्त्वा तां देवो ब्रह्माणं वाक्यमव्रवीत॥
गृहाण नृत्तं धर्मज्ञ लक्ष्यलक्षणसंयुतम् ॥१८॥
एतावदुक्त्वा ब्रह्माणं ग्राहयामास केशवः॥
तद्गृहीत्वा ततो ब्रह्मा ददौ रुद्राय वेधसे॥
गृहीत्वा तच्च रुद्रोपि तोषयामास केशवम्॥
तेन नृत्तेन सततं देवेशं भक्तवत्सलम् ॥२०॥
एवमुत्पादितं नृत्तं वासुदेवेन पार्थिव॥
एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ॥२१॥
ततः प्रभृति देवेशः शङ्करः शङ्करो नृणाम्॥
नृत्तेनाराधयन्नास्ते देवं चक्रगदाधरम् ॥२२॥
नृत्तेश्वरत्वं चावाप तुष्टाव मधुसूदनम्॥
सोऽपि तुष्यति नृत्तेन सम्यगाराधितो हरः ॥२२॥
अन्ये च देवास्तुष्यन्ति सम्यङ् नृत्तेन तोषिताः॥
आप्यायनं परं ह्येतत्कथितं तु दिवौकसाम् ॥२४॥
एतदेव हि देवत्वं दीव्यतां सततं दिवि॥
पुष्पनैवेद्यदानेभ्यो नृत्तदानं विशिष्यते ॥२५॥
स्वयं नृत्तेन यः कुर्याद्देवदेवस्य पूजनम्॥
विशेषेण महाभाग तस्य तुष्यति केशवः ॥२६॥
नृत्तं गीतं तथा वाद्यं दत्त्वा देवाय विष्णवे॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥२७॥
नृत्तेन वृत्तिं यः कुर्यात्स तु वर्ज्यः प्रयत्नतः॥
कुशीलवाद्यैर्यः कुर्यान्नृत्तविक्रयकारकः ॥२८॥
देवताराधनं कुर्याद्यस्तु नृत्तेन धर्मवित्॥
स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ॥२९॥
धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा॥
ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ॥३०॥
मूढानामुपदेशं तत्स्त्रीणां सौभाग्यवर्धनम्॥
शान्तिकं पौष्टिकं काम्यं वासुदेवेन निर्मितम् ॥३१॥
एतावदुक्तं तव नृत्तशास्त्रं समासतो लोकहिताय राजन॥
नृत्तेन यत्नः पुरुषेण कार्यो लोकद्वयञ्जेतुमभीप्सता वै ॥३२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रवर्णनो नाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP