खण्डः ३ - अध्यायः २९८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
जलेन नाशमायाति यत्र सम्यद्विजोत्तमाः॥
जलौघवारणार्थाय तत्र सेतुं करोति यः ॥१॥
भूमिदाने तु ये लोकाः स तान्प्राप्नोति शाश्वतान्॥
मार्गसेतुं सुखं कृत्वा वह्निष्टोमफलं लभेत् ॥२॥
जलप्रतरणे सेतुं यः करोति नरोत्तमः॥
स तीर्णः सुखदुःखेभ्यः स्वर्ग लोकं प्रपद्यते ॥३॥
प्रपां पथि तथा कृत्वा नाकलोके महीयते॥
प्रपास्थानं शुभं कृत्वा स्थानमाप्नोति शाश्वतम् ॥४॥
तस्य स्थानात्तथा त्यागात्फलवृद्धिः प्रकीर्तिता॥
तस्योपलेपनं कृत्वा सर्वपापैः प्रमुच्यते ॥५॥
दत्त्वा रज्जुमपां स्थाने गोदो भवति मानवः॥
वारिधानीं तथा दत्त्वा तदेव फलमाप्नुयात् ॥६॥
कुम्भप्रदानाद्भवति सदा पूर्णमनोरथः॥
प्रपायाश्च तथा कृत्वा पुरुषं परिचारकम् ॥७॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
वर्धमानानि यो दद्यात्प्रपायां द्विजसत्तमाः ॥८॥
त्रिविधां वृद्धिमाप्नोति तेजसा यशसा श्रिया॥
लवणस्य प्रदानेन रसानाप्नोति शाश्वतान् ॥९॥
तत्र हरितदानेन गवां लोकमवाप्नुयात्॥
फलप्रदानेन तथा वह्निष्टोमफलं लभेत् ॥१०॥
सक्तूनां च प्रदानेन गोसवस्य फलं नरः॥
गोरसानां प्रदानेन गवां लोकमवाप्नुयात् ॥११॥
शय्याश्च विविधाः कृत्वा प्रपायामासनानि च॥
स्वर्गलोकमवाप्नोति मानुष्ये स्थानमेव च ॥१२॥
कृत्वा निवातं शरणं प्रपास्थाने मनोहरम्॥
स्वारक्षं लोकमाप्नोति वसूनां नात्र संशयः ॥१३॥
तत्र वह्निं तथा कृत्वा शीतत्राणाय मानवाः॥
कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं च तथाप्नुयात् ॥१४॥
इन्धनानां प्रदानेन रिपुभिर्नाभिभूयते॥
तत्रापि योग्यभाण्डानां दानात्स्वर्गमवाप्नुयात ॥१५॥
चन्द्रलोकमवाप्नोति स्थापनात्तुहिनस्य तु॥
शर्करालोष्टपाषाणकण्टकाँश्च तथा नरः ॥१६॥
मार्गादपास्य यत्नेन गोदानफलमाप्नुयात्॥
श्रान्तसंवाहनं कृत्वा तदेव फलमश्नुते ॥१७॥
वीजयित्वा परिश्रान्तं तालवृन्तेन मानवः॥
स्कन्धेन श्रान्तमृढ्वापि वाजपेयफलं लभेत् ॥१८॥
वाहनेनाथ यानेन स्वेन श्रान्तं तथा नयन्॥
साध्यानां लोकमासाद्य देवभोगानुपाश्नुते ॥१९॥
श्रान्तस्य भोजनं दत्त्वा कामानाप्नोति शाश्वतान्॥
श्रान्तस्तु तर्पितस्तोयैस्तृप्तिमाप्नोति मानवः ॥२०॥
उपानहाभ्यां छत्रेण श्रान्तं संयोज्य मानवः॥
स्वाभ्यां विषमदेशेषु क्षणाद्बहुफलं लभेत् ॥२१॥
भारश्रान्तात्तथा भारं गृहीत्वा वहते च यः॥
कर्मणा तेन विप्रेन्द्राः स्वर्गलोकमुपाश्नुते ॥२२॥
मूल्येन वाहयित्वापि परभारं विचक्षणः॥
तस्य मूल्यस्य दानेन फलं दशगुणं लभेत् ॥२३॥
रक्षणं पथि यः कुर्यात्पान्थानां मानवोत्तमः॥
प्राप्ताद्वृत्तिमयाद् घोराद्रुद्रलोके महीयते ॥२४॥
नदीतीरेषु सन्तार्य पान्थान्पथि तथा नरः॥
शीघ्रं तरति दुर्गाणि क्षुरधाराँश्च पर्वतान् ॥२५॥
सदा शौचं तथा नावं यः करोति नदीतटे॥
अश्वमेधफलं तेन नरः प्राप्नोति कर्मणा ॥२६॥
सभास्थानानि रम्याणि यः करोति विचक्षणः॥
उद्यानानि विचित्राणि शक्रलोके महीयते ॥२७॥
प्रेक्षणीय प्रदानेन स्मृतिं मेधां च विन्दति॥
पान्थानां हि दया कार्या कर्मणा येन केनचित् ॥२८॥
कृपास्थानं परं पान्थः स्वगृहाद्यो विनिस्सृतः॥
लिङ्गी चाप्यथवा वर्णी पान्थं प्रति विचक्षणैः॥
अपेक्षा नैव कर्तव्या पान्थाः पूज्यास्तु सर्वशः ॥२९॥
पान्थस्य पूजां पुरुषस्तु कृत्वा स्थानं समासाद्य पुरंदरस्य॥
प्राप्नोति पुण्यान्दिवि देवभोगान्पान्थास्ततः पूज्यतमा नृलोके ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु प्रपाप्रशंसा नामाष्टनवत्युत्तरद्विशततमोऽध्यायः ॥२९८॥
N/A
References : N/A
Last Updated : January 28, 2023
TOP