खण्डः ३ - अध्यायः ०४२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
यथा देवस्तथा चित्रे कर्तव्यः पृथिवीश्वर॥
एकैकं रूपके लोम कर्तव्यं पृथिवीक्षिताम् ॥१॥
ऋषयश्च सगन्धर्वा दैत्याश्च सह दानवाः॥
मन्त्रिणश्च महाराज संवत्सरपुरोहितौ ॥२॥
कार्या भद्रप्रमाणेन ब्राह्मणाश्च नरेश्वर॥
ऋषयस्तत्र कर्तव्या जटाजूटोपशोभिताः ॥३॥
कृष्णाजिनोत्तरासङ्गा दुर्बलास्तेजसा युताः॥
देवताश्चापि गन्धर्वा मुकुटेन विवर्जिताः ॥४॥
कर्तव्यास्ते महाराज शिखरैरुपशोभिताः॥
ब्रह्मवर्चस्विनो विप्राः शुक्लाम्बरधरास्तथा ॥५॥
मन्त्रिणश्च महाराज सांवत्सरपुरोहितौ॥
सर्वालङ्कारसंयुक्तानेवोल्बणविभूषणान् ॥६॥
मुकुटेन विहीनांस्तु सोष्णीषान्कारयेच्च तान्॥
दैत्याश्च दानवाश्चैव कर्तव्या भ्रुकुटीमुखाः ॥'७॥
वर्तुलाक्षास्तथा कार्या भीमवक्त्रास्तथैव च॥
तेषामभ्युद्धतो वेषः कर्तव्यः पृथिवीपते ॥८॥
रुद्रप्रमाणाः कर्तव्यास्तथा विद्याधरा नृप॥
सपत्नीकाश्च ते कार्या माल्यालङ्कारधारिणः ॥९॥
खड्गहस्ताश्च ते कार्या गगने वाथ वा भुवि॥
मालव्यपरिमाणेन किन्नरोरगराक्षसाः ॥१०॥
रुचकस्य प्रमाणेन यक्षाः कार्या नराधिप॥
शशकस्य प्रमाणेन प्रधानं मानवं लिखेत् ॥११॥
पिशाचा वामनाः कुब्जाः प्रमथाश्च महीभुजः॥
मानन्नियमतः कार्यं रूपन्नियमतस्तथा ॥१२॥
स्वानुरूपप्रमाणाश्च सर्वेषां योषितः स्मृताः॥
किन्नरा द्विविधाः प्रोक्ता नृवक्त्रा हयविग्रहाः ॥१३॥
नृदेहाश्चाश्ववक्त्राश्च तथान्ये परिकीर्तिताः॥
अश्ववक्त्रास्तु कर्तव्याः सर्वालङ्कारधारिणः ॥१४॥
गीतवाद्यसमायुक्ता द्युतिमन्तस्तथैव च॥
उत्कचा राक्षसाः कार्या विकलाक्षा विभीषणाः ॥१५॥
देवकाराश्च कर्तव्या नागाः फणविराजिताः॥
सालंकारा स्मृताः सर्वे यक्षास्तेऽभिहिता मया ॥१६॥
सुराणां प्रमथाः कार्याः प्रमाणेन विवर्जिताः॥
पिशाचाश्च तथा कार्या प्रमाणेन विवर्जिताः ॥१७॥
नानासत्त्वमुखाः कार्या देवतानां तथा गणाः॥
नानावेशा महाराज नानायुधधरास्तथा ॥१८॥
नानाक्रीडाप्रसक्ताश्च नानाकर्मकरास्तथा॥
एकरूपास्तु कर्तव्या वैष्णवानां तथा गणाः ॥१९॥
तत्रापि तेषां कर्तव्या भेदाश्चत्वार एव च॥
वासुदेवसमाः कार्या वासुदेवगणाः शुभाः ॥२०॥
संकर्षणेन सदृशास्तद्गणाश्च तथा स्मृताः॥
प्रद्युम्नेनानिरुद्धेन तद्गणाः सदृशास्तथा ॥२१॥
तत्प्रभावाः स्मृताः सर्वे तदायुधधरास्तथा॥
नीलोत्पलदलश्यामाश्चन्द्रशुभ्रास्तथैव च ॥२२॥
तथा मरकताकारा सिन्दूरसदृशप्रभाः॥
रुचकस्य तु मानेन वेश्याः कार्यास्तथा स्त्रियः ॥२३॥
वेश्यानामुद्धतं वेशं कार्यं शृङ्गारसम्मतम्॥
मालव्यामानतः कार्या लज्जावत्यः कुलस्त्रियः ॥२४॥
नात्युन्नतेन वेशेन सालंकारास्तथैव च॥
दैत्यदानवयक्षाणां राक्षसानां तथैव च ॥२५॥
रूपवत्यस्तथा कार्याः पतयो मनुजसत्तम॥
मातरः स्वेन रूपेण तथा कार्या नराधिप ॥२६॥
पिशाचानां च पत्न्योऽपि कार्यास्तद्रूपसंयुता॥
विभर्तृकास्तु कर्तव्या स्त्रियः पलितसंयुताः ॥२७॥
शुक्लवस्त्रपरीधानाः सर्वालङ्कारवर्जिताः॥
कुब्जा वामनिका वृद्धा तथा रूपवती भवेत् ॥२८॥
राजस्त्रीणां परीवारे वृद्धः स्यात्कञ्चुकी पुनः॥
रुचकस्य तु मानेन वैश्यमानं विधीयते ॥२९॥
शशकस्य तु मानेन शूद्रमानं तथैव च॥
यथा जात्यनुरूपेण वेषेण मनुजेश्वर ॥३०॥
दैत्यादियोषितां कार्याः परिचारस्त्रियः सदा॥
महाशिरा महोरस्को महानासो महाहनुः ॥३१॥
पीत स्कन्धभुजग्रीवः परिमाणेन चोच्छ्रितः॥
त्रितरङ्गललाटश्च व्योमदृष्टिर्महाकटिः ॥३२॥
दृप्तश्चित्रविदा कार्यः सेनायाः पतिरूर्जितः ॥
योधाः कार्या महाराज प्रायशो भ्रुकुटीमुखाः ॥३३॥
किंचिदुद्धतवेगाश्च कार्याश्चोद्धतदर्शनाः॥
अभ्युद्गताश्च कर्तव्या आयुधीयाः पदातयः ॥३४॥
खड्गचर्मधराः कार्याः कर्णाटकवपुर्धराः॥
वरबाणधराः कार्या नग्नजङ्घाश्च धन्विनः ॥३५॥
नात्युद्धतेन वेषेण सोपानत्कास्तथैव ते॥
यथोक्तलक्षणाः कार्याः कुञ्जरास्तुरगादयः ॥३६॥
हस्त्यारोहास्तु कर्तव्या मुहुः श्यामास्तु वर्णतः॥
केशैश्च जूटटमरैः सालंकारास्तथैव च। ॥३७॥
उदीच्यवेशाः कर्तव्यास्तुरगाणां तु सादिनः॥
उद्धतेन तु वेषेण कर्तव्या बन्दिनस्तथा ॥३८॥
सिरादर्शितकण्ठाश्च तथैवोन्मुखदृष्टयः॥
आह्वानकास्तु कर्तव्याः कपिलाः केकरेक्षणाः ॥३९॥
किंचिद्दानवसङ्काशाः प्रायशो दण्डपाणयः॥
न केकरान्न कपिलान्युद्धे द्वंद्वान्समालिखेत् ॥४०॥
नात्युन्नतेन वेषेण न च शान्तेन शस्यते॥
पार्श्वबद्धेन खड्गेन प्रतीहारस्तु दण्डवान् ॥४१॥
संवेष्टितशिरस्काश्च कर्तव्या वणिजस्तथा॥
गायना नर्तका ये वा वाद्यवादविशुद्धये ॥४२॥
उद्धतेन तु वेषेण कार्यास्ते मनुजोत्तम॥
आसन्नपलिता कार्याः स्वभूषणविभूषिताः ॥४३॥
पौरजानपदाः श्रेष्ठाः शुभवस्त्रविभूषणाः॥
प्रसृतप्रवणाः प्रह्वाः स्वभावप्रियदर्शिनः ॥४४॥
स्वकर्मोपस्करव्यग्रः कार्यः कर्मकरो जनः॥
प्रांशवः पीनगात्राश्च पीनग्रीवशिरोधराः ॥४५॥
उग्राश्च नीचकेशाश्च मल्लाः कार्यास्तथोद्धताः॥
वृषाः केसरिणश्चैव याश्चान्याः सत्त्वजातयः ॥४६॥
यथाभूमिनिवेशास्ते लोकं दृष्ट्वा नराधिप॥
एतद्रूपसमुद्देशमदृष्टानां तवेरितम् ॥४७ ।
दृष्टं सुसदृशं कार्यं सर्वेषामविशेषतः॥
चित्रे सादृश्यकरणं प्रधानं परिकीर्तितम् ॥४८॥
बुद्ध्या रूपं यथावेशं वर्णं च मनुजोत्तम॥
देशेदेशे नराः कार्या यथावत्तत्समुद्भवाः ॥४९॥
देशं नियोगं स्थानं च कर्म बुद्ध्वा च यत्नतः॥
आसनं शयनं यानं वेशं कार्यं नराधिप ॥५०॥
सरितां सशरीराणां वाहनानि प्रदर्शयेत्॥
पूर्णकुम्भकराः कार्यास्तथा नामितजानवः ॥५१॥
शैलानां शिखरं मूर्ध्नि दर्शयेन्मनुजोत्तम॥
द्वीपानां च करैः कार्यं तथा भूमण्डलं शुभम् ॥९२॥
राजंस्तथा शिखरपाणयः॥
रत्नपात्रकराः कार्याः सागरा मनुजोत्तम ॥५३॥
समुद्राणां प्रभास्थाने सलिलं तु प्रदर्शयेत्॥
आयुधानां च तच्चिह्नं किञ्चिन्मूर्धनि दर्शयेत् ॥५४॥
निधीनां दर्शयेत्कुम्भं शंखं शंखस्य दर्शयेत्॥
पद्मं पद्मस्य राजेन्द्र शेषाणामनुरूपतः ॥५५॥
कार्यस्यावयवाः कार्याः स्वद्देहसदृशाः पृथक्॥
दिव्यानां दर्शयेच्चिह्नमक्षमालां च पुस्तकम् ॥५६॥
अतः परं प्रवक्ष्यामि रूपं यद्यस्य दृश्यते॥
आकाशं दशर्येद्विद्वान्विवर्णं खगमाकुलम् ॥५७॥
तथैव दर्शयेद्राजंस्तारकामण्डितं दिवम् ।
भूमिं च जाङ्गलानूपमिश्रां स्वैःस्वैस्तथा गुणैः ॥५८॥
पर्वतं तु शिलाजालैः शिखरैर्धातुभिर्द्रुमैः॥
निर्झरैर्भुजगैश्चैव दर्शयेन्नृपसत्तम ॥५९॥
वनं नानाविधैर्वृक्षैर्विहङ्गैः श्वापदैस्तथा॥
तोयं च दर्शयेद्विद्वाननन्तैर्मत्स्यकच्छपैः ॥६०॥
पद्माक्षैश्च महाराज तथान्यैर्जलजैर्गुणैः॥
देवतावेश्मभिश्चित्रैः प्रासादापणवेश्मभिः ॥६१॥
नगरं दर्शयेद्विद्वान् राजमार्गैश्च शोभनैः॥
वमत्या दर्शयेद्ग्रामं किञ्चिदुद्यानभूषितम् ॥६२॥
सर्वेषामथ दुर्गाणां कर्तव्यं दर्शनं तथा॥
स्वभूमिविनिवेशेन वप्राट्टालकपर्वतैः ॥६३॥
पण्ययुक्तास्तु कर्तव्यास्तथैवापणभूमयः॥
आधानभूमिः कर्तव्या पानयुक्ता नराकुला ॥६४॥
उत्तरीयविहीनांश्च द्यूतसक्तान्प्रदर्शयेत्॥
जिताञ्शोकसमायुक्तान्हृष्टांल्लब्धजयांस्तथा ॥६५॥
चतुरङ्गबलोपेतां प्रहरद्भिर्नरैर्युताम्॥
मृतावयवरक्ताढ्यां रणभूमिं प्रदर्शयेत् ॥६६॥
चिताकुणपसंयुक्तं श्मशानं च तथा नृप॥
युक्तं सभारैरुष्ट्राद्यैर्मार्गं सार्थं प्रदर्शयेत् ॥६७॥
सचन्द्रग्रहनक्षत्रां तथा दर्शितलौकिकाम्॥
आसन्नतस्करां रात्रिं दर्शयेत्सुप्तमानवाम् ॥६८
प्राग्रात्रे दर्शयेत्तत्र तथा चैवाभिसारिकाम्॥
सारुणो म्लानदीपश्च प्रत्यूषो रुतकुक्कुटः ॥६९॥
कर्मव्यग्रजनप्रायः कर्तव्यो वानरस्तथा॥
द्विजैर्नियमभिर्युक्तां गां सन्ध्यां प्रदर्शयेत् ॥७०॥
तमसो दर्शनं कार्यं वासे संसर्पकैर्नरैः॥
कुमुदानां विकाशे च ज्योत्स्नां चन्द्रे प्रदर्शयेत् ॥७१॥
दर्शयेत्सरजस्यं च शय्यां कर्णोत्करावृताम्॥
सद्वृत्तमानवप्रायां वृष्टिं वृष्ट्याम्प्रदर्शयेत् ॥७२॥
प्राणिनां क्लेशतप्तानामादित्येन निदर्शनम्॥
वृक्षैर्वसन्तजैः फुल्लैः कोकिलामधुपोत्कटैः ॥७३॥
प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत्॥
क्लान्तैः कार्यं नरैर्ग्रीष्मं मृगैश्छायागतैस्तथा ॥७४॥
महिषैः पङ्कमलिनैस्तथा शुष्कजलाशयम्॥
विहङ्गैर्द्रुमसंलीनैः सिंहव्याघ्रैर्गुहागतैः ॥७५॥
तोयनम्रघनैर्युक्तं सेन्द्रचापविभूषणैः॥
विद्युद्विद्योतनैर्युक्तां प्रावृषं दर्शयेत्तथा ॥७६॥
सफलद्रुमसंयुक्तां पक्वसस्यां वसुन्धराम्॥
सहसपद्मसलिलां शरदं तु तथा लिखेत् ॥७७॥
सवाष्पसलिलस्थानं तथा लूनवसुन्धरम्॥
सनीहारदिगन्तं च हेमन्तं दर्शयेद्बुधः ॥७८॥
हृष्टवायसमातङ्गं शीतार्तजनसङ्कुलम्॥
शिशिरं तु लिखेद्विद्वान्हिमच्छन्नदिगन्तरम ॥७९॥
वृक्षाणां पुष्पफलतः प्राणिनां मदतस्तथा॥
ऋतूनां दर्शनं कार्यं लोकान्दृष्ट्वा नराधिप ॥८०॥
रसभावाश्च कर्तव्या यथापूर्वमुदाहृताः॥
यथायोगं तु युञ्जीत नृत्ताभिहितमत्र च॥८३॥
शुष्कं वर्तनया वस्तु चित्रं तन्मध्यमं स्मृतम्॥
शुष्कार्द्रमधमं प्रोक्तं चार्द्रमेव तथोत्तमम् ॥८२॥
यथादेयं यथाकालं यथादेशं यथावयः॥
क्रियमाणं भवेद्धन्यं विपरीतमतोऽन्यथा ॥८३॥
इतिविचक्षणबुद्धिविकल्पितैः करणकान्तिविलासरसादिभिः॥
लिखितमीक्षणलोचनमादराद्भवति चित्रममीप्सितकामदम् ॥८४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० रूपनिर्माणं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥४२॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP