खण्डः ३ - अध्यायः ३०३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥हंस उवाच॥
विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्त्मम्॥
विद्यादानात्परं दानं न भूतं न भविष्यति ॥१॥
विद्यावान्सर्वकामानां भाजनं पुरुषो भवेत्॥
तस्माद्विद्यां हि ददता सर्वं दत्तं भवेदिह ॥२॥
पराध्यापनतः क्लेशं पुरुषस्तु यदश्नुते॥
तपस्तत्परमं तस्य ब्रह्मलोकं परं स्मृतम् ॥३॥
दानानामुत्तमं लोके तपसा च तथोत्तमम्॥
विद्यादानं महाभागाः सर्वकामफलप्रदम् ॥४॥
वेददानादवाप्नोति सर्वयज्ञफलं नरः॥
उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥५॥
वेदाङ्गानां च दानेन शक्रलोकमवाप्नुयात्॥
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥६॥
सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयम्॥
शास्त्राणि दत्त्वा चान्यानि नरो नाके महीयते ॥७॥
विद्यादानादवाप्नोति प्रदानात्पुस्तकस्य च॥
शिल्पानि शिक्षयेद्यस्तु पौण्डरीकफलं लभेत् ॥८॥
शिक्षयित्वा धनुर्वेदमश्वमेधफलं लभेत्॥
शिल्पभाण्डप्रदानेन शिल्पदानफलं लभेत् ॥९॥
अहितेषु प्रवृत्तस्य तथा कृत्वा निवारणम्॥
विद्यादानफलं प्रोक्तं नात्र कार्या विचारणा ॥१०॥
पापप्रवृत्तस्य तथा नरः कृत्वा निवारणम्॥
विद्यादानफलं प्राप्य स्वर्गलोके महीयते ॥११॥
शिक्षयेत्पुरुषः कर्म कर्मणा येन जीवति॥
शिक्षयित्वा महाभागाः स्वर्गलोके महीयते ॥१२॥
येन जीवति भाण्डेन तस्य भाण्डस्य दायकः॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥१३॥
अन्तर्वन्तीह दानानि सर्वाण्येव द्विजोत्तमाः॥
एकं महाफलं ज्ञेयं विद्यादानमनन्तकम् ॥१४॥
विद्यां यथेष्टां पुरुषस्य दत्त्वा मन्त्रं शुभं वाप्यथ वापि शिल्पम्॥
शिल्पस्य भाण्डं यदि वा द्विजेन्द्राः प्राप्नोति लोकं मनसा त्वभीष्टम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु विद्यादानफलनिरूपणो नाम त्र्यधिकत्रिशततमोऽध्यायः ॥३०३॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP