खण्डः ३ - अध्यायः २५२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
सर्वेषामेव पापानां हिंसा परमिहोच्यते॥
हिंसा बलमसाधूनां हिंसा लोकद्वयापहा ॥१॥
अपि कीटः पतङ्गो वा न हन्तव्यः कथञ्चन॥
महद्दुःखमवाप्नोति पुरुषः प्राणिनाशनात् ॥२॥
आततायिनमायान्तं पुरुषं यदि वा पशुम्॥
उपायहीनस्तं हत्वा न तु पापेन बाध्यते ॥३॥
गुरुं वा बालवृद्धौ वा मान्यं वाप्यथ वा जनम्॥
आततायिनमायान्तं हन्यादेवाविचारयन् ॥४॥
आततायिन मायान्तमपि वेदान्तगं रणे॥
जिघांसन्तं जिघांसीयात्तेन पापं न विद्यते ॥५॥
रणे प्रहाराभिहते शत्रौ नैवास्ति पातकम्॥
जित्वा गृहीते निहते तस्मिन्नेवास्ति पातकम् ॥६॥
रणे जितन्तु यः शक्तः पश्चात्पातयते नरः॥
स याति नरकं घोरं बहून्यब्दशतानि च ॥७॥
मुक्तश्च नारकाद्दुःखाद्बहून्यब्दशतानि तु॥
आमगर्भेषु सिच्यन्ते ये नरा नरघातकाः ॥८॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम्॥
वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥९॥
अपि कीटं नरो हत्वा छित्त्वा तृणमथापि वा॥
नरकं याति धर्मज्ञाः पुरुषः स्वेन कर्मणा ॥१०॥
स्त्रीहिंसा धनहिंसा च प्राणिहिंसा च दारुणा॥
हिंसा च त्रिविधा प्रोक्ता वर्जिता पण्डितैर्नरैः ॥११॥
अहिंसकस्तु यत्नेन वर्जयेत्तु परस्त्रियम्॥
विजनेऽपि तथा न्यस्तं परद्रव्यं प्रयत्नतः ॥१२॥
अतो वै नैव कर्तव्या प्राणिहिंसा भयावहा॥
वियोज्य प्राणिनं प्राणैस्तथैकमपि निर्घृणः ॥१३॥
नरकाद्धि विनिर्मुक्तो न किञ्चित्सुखमेधते॥
यां रात्रिमधिविन्नां स्त्रीं यां चैवाक्षपराजिताम् ॥१४॥
यां च राज्यच्युतो रात्रिं यां च सर्वस्वविच्युतः॥
इष्टबन्धुवियुक्तश्च यां रात्रिं दुःखमश्नुते ॥१५॥
व्यवहारे जितश्चैव यद् दुःखं कूटसाक्षिभिः॥
तत्सर्वं दुःखमाप्नोति हत्वैकमपि तु द्विजाः ॥१६॥
नास्ति पापतरं लोके मनुष्या मांसभोजिनः॥
बहिर्मांसं तृणात्काष्ठादुपलाद्वापि जायते ॥१७॥
घोरात्प्राणिवधाज्जातं पुरुषः परिवर्जयेत्॥
यदि चेत्खादको न स्यान्न भवेद्घातकस्तथा ॥१८॥
एतस्मात्कारणान्निन्द्यो घातकादपि खादकः॥
यावतां प्राणिनां येन मांसं भुक्तं भवेदिह ॥१९॥
ता एव ते न तावत्यो गन्तव्या योनयो ध्रुवम्॥
येषान्तु प्राणिनां भुक्तं तेन मांसं द्विजोत्तमाः ॥२०॥
भोक्तव्यं तस्य तैर्मांसं ध्रुवं जन्मनिजन्मनि॥
मांसभक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ॥२१॥
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ॥२२॥
प्रसमीक्ष्य निवर्त्येत सर्वमांसस्य भक्षणात्॥
अनुमन्ता विशसिता निहन्ता क्रियविक्रयी ॥२३॥
संस्कर्ता चोपहर्ता च खादकाश्च विघातकाः॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ॥२४॥
न पापकृत्तमो लोके तस्मादन्यो हि विद्यते॥
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन ॥२५॥
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः॥
या वेदविहिता हिंसा न सा हिंसा मता यतः ॥२५॥
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा॥
यज्ञार्थं निधनं प्राप्ता प्राप्नुवन्त्युच्छ्रिताः पुनः ॥२७॥
मधुपर्के च यज्ञे च पितृदैवतकर्मणि॥
अत्रैव पशवो हिंस्या नान्यत्रेति कदाचन ॥२८॥
एष्वर्थेषु पशून्हन्ति वदतत्त्वार्थविद्द्विजाः॥
आत्मानं च पशूँश्चैव गमयन्त्युत्तमां गतिम् ॥२९॥
यज्ञार्थं पशवः सृष्टाः पूर्वमेव स्वयम्भुवा॥
यज्ञाश्च भूतैः सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥३०॥
वृथा तु मांसं पुरुषः समश्नन्प्रयाति विप्रा नरकं सुघोरम्॥
निबर्हणं गर्हितमेव जन्तोर्मांसश्च तस्मात्परिवर्जनीयम् ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५२॥
N/A
References : N/A
Last Updated : January 28, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP