संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२७

खण्डः ३ - अध्यायः ०२७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
वाचिकश्च तथा हार्यस्त्वाङ्गिकस्सात्त्विकस्तथा॥
चतुष्प्रकारोऽभिनयः कीर्तितो नाट्यकोविदैः ॥१॥
वाचिको वचसा प्रोक्तः शृणु हार्यं नराधिप॥
चतुर्विधं तु विज्ञेयं प्रस्तोलङ्कार एव च ॥२॥
तथाङ्गरचना चैव ज्ञेया सज्जीवमेव च॥
मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा ॥३॥
लोहैरनुकृतिर्वापि प्रस्त इत्यभिधीयते॥
देवदानवयक्षाणां गजाश्वमृगपक्षिणाम् ॥४॥
कार्याणि प्रतिशीर्षाणि नाट्यज्ञैः प्रस्तकर्मणा॥
अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् ॥५॥
नानाविधः समायोगे ह्यङ्गोपाङ्गविनिर्गतः॥
तच्च कार्यो नयो बुद्ध्वा नियोगं जातिमेव च ॥६॥
आधिपत्यं तथा स्थानं देशे च नृपसत्तम॥
अतोङ्गरचना तुभ्यं वक्ष्यामि नृप वर्णजाम् ॥७॥
श्वेतो रक्तस्तथा पीतः कृष्णो हरितमेव च॥
मूलवर्णाः समाख्याताः पञ्च पार्थिवसत्तम ॥८॥
एकद्वित्रिसमायोगाद्भावकल्पनया तथा॥
सङ्ख्यैवांतरवर्णानां लोके कर्तुं न शक्यते ॥९॥
अत्यर्थसमयोगित्वाल्लोकेऽहं नृपपुंगव॥
विभागं सम्प्रवक्ष्यामि वर्णयोः श्यामगौरयोः ॥१०॥
द्विप्रकारा छविर्यस्मात्सर्वस्येह प्रकीर्तिता॥
गौरी पञ्चविधा तत्र श्यामा द्वादशधा भवेत् ॥११॥
रुक्मगौरी दन्तगौरी स्फुटचन्दनगौर्यपि॥
शरद्घनचन्द्रकवद्गौरी पञ्चविधा स्मृता ॥१२॥
रक्तश्याम्या भवेत्पूर्वं मुद्गश्यामा निरन्तरम्॥
ततो दूर्वांकुरश्यामा पाण्डुश्यामा च पार्थिव ॥१३॥
ततश्च हरितश्यामा पीतश्यामा ततो भवेत्॥
ततः प्रियङ्गुकश्यामा कपिश्यामा च पार्थिव ॥१४।
ततो नीलोत्पलश्यामा चाषश्यामा ततः परम्॥
ततो रक्तोत्पलश्यामा घनश्यामा तथा परा ॥१५॥
द्रव्यानुरूपवर्णैस्तु तासां व्यक्तिरुदाहृता॥
रङ्गव्यतिकरैः शोभामधिकृत्य महीयते ॥१६॥
वक्ष्यामि वर्णान्देवानां मत्वापतु विनिश्चयम्॥
तत्र येषां न वक्ष्यामि ते कार्या गौरवर्णकाः ॥१७॥
श्यामस्तु वासुकिः कार्यो नागा गौरास्तु द्वापरे।
दैत्याश्च दानवाश्चैव राक्षसा गुह्यकानुगाः ॥१८॥
पिशाचा जलसङ्काशा सम्मितानि तु वर्णतः॥
षट्सु द्वीपेषु पुरुषाः कर्तव्याः कनकप्रभाः ॥१९॥
जम्बूद्वीपस्य वर्षेषु मुक्त्वैकं भारतं नृप॥
भारतेषु तथा कार्या नानादेशभवास्तथा ॥२०॥
पुलिन्दा दाक्षिणात्याश्च प्रायशो वर्णतोऽसिताः॥
शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये ॥२१॥
प्रायेण गौराः कर्तव्याः उत्तरापथसम्भवाः॥
पाञ्चालाः शूरसेनाश्च तथा ये चात्र मागधाः ॥२२॥
अङ्गा वङ्गाः कलिङ्गाश्च प्रायशो वर्णतोऽसिताः॥
चन्द्रवर्णा द्विजाः कार्या राजन्याः पद्मसन्निभाः ॥२३॥
आपाण्डुरास्तथा वैश्याः श्यामा शूद्राश्च वर्णतः॥
नानावर्णाः स्मृता भूता गन्धर्वाप्सरसस्तथा ॥२४॥
राजानः पद्मवर्णाभा ये चापि सुखिनो जनाः॥
कुकर्माणो ग्रहग्रस्ता व्याधितास्तप आश्रिताः ॥२५॥
आयस्तकर्मणश्चैव असिताः कुलजालयः॥
वर्णः प्रत्यक्षदृष्टस्य कर्तव्यः सदृशस्तथा ॥२६॥
देवगन्धर्वसिद्धानां कुमाराणां च पार्थिव॥
श्मश्रु तेषां न कर्तव्यं ये च दीक्षां समाश्रिताः ॥२७॥
दिव्या ये पुरुषाश्चैव तथा विद्याधराश्च ये॥
शृङ्गारिणो नरेन्द्राश्च चित्रश्मश्रुधरास्तथा ॥२८॥
शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम्॥
मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥२९॥
अनिर्णीतप्रतिज्ञानां दुःखितानां तपस्विनाम्॥
मुनीनां चिरबद्धानां दीर्घं श्मश्रु प्रकीर्तितम् ॥३०॥
धर्मप्रवृत्तेर्वंशश्च भवेच्छूद्रो नराधिप॥
वणिजां कंचुकीयानां ब्राह्मणानां तथैव च ॥३१॥
राज्ञां विचित्रो वेशः स्याद्वेश्यास्त्रीणां च यादव॥
यथालिङ्गं भवेद्वेशस्तथान्येषां तु लोकतः ॥३२॥
त्रिविधा मुकुटा ज्ञेया देवपार्थिवसंश्रयाः॥
देवानां पार्थिवानां च कर्तव्यास्तु किरीटकाः ॥३३॥
देवानां सप्तशिखराः पञ्चभिर्भूभृतां तथा॥
त्रिभिश्च शिखरैः कार्या महिषीयुवराजयोः ॥३४॥
सेनाध्यक्षस्य कर्तव्यस्तथैकशिखरो नृप॥
दैत्यदानवयक्षाणां पन्नगानां सरक्षसाम् ॥३५॥
एकपट्टास्तु विस्तीर्णा कर्तव्या मुकुटाः शुभाः॥
विद्याधराणां सिद्धानां वानराणां तथैव च ॥३६॥
ग्रन्थिमन्तस्तु कर्तव्या मुकुटास्तु प्रयोक्तृभिः॥
देवदानवगन्धर्वाः कृष्णपक्षाः प्रकीर्तिताः ॥३७॥
दैत्यदानवयक्षाश्च पिशाचनागराक्षसाः॥
हरिश्मश्रुकचाः कार्यास्तथा पिङ्गेक्षणा नृप ॥३८॥
कञ्चुकीयाश्च कर्तव्यास्तथा शुक्लशिरोरुहाः॥
अमात्यकञ्चुकीयानां तथा श्रेष्ठपुरोधसाम् ॥३९॥
वेष्टनापट्टबद्धानि प्रतिशीर्षाणि कारयेत्॥
पिशाचोन्मत्तभूतानां तापसानां तथैव च ॥४०॥
अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः॥
बालानामपि कर्त्तव्यं शिखिण्डकविभूषणम् ॥४१॥
जटाजूटयुतं कार्यं मुनीनामपि पार्थिव॥
चेटानामपि कर्त्तव्यं त्रिशिरः खण्डमेव च ॥४२॥
विदूषकस्य खलतिः स्यात्काकपदमेव च॥
शेषाणामुक्तयोगेन शेषजातिसमाश्रयम् ॥४३॥
सज्जीव इति यत्प्रोक्तं तस्य वक्ष्यामि लक्षणम्॥
प्रवेशस्तु तिरश्चां वै सज्जीव इति संज्ञितः ॥४४॥
तेषां प्रस्तेन कर्तव्या प्रकृतिः पुरुषांतरा॥
तथैवायुधहस्तानां कर्तव्या हेतयः शुभाः ॥४५॥
एवं लोकोपचारेण स्वबुद्ध्या विभवेन च॥
नाट्योपकरणानीह यथावत्परिकल्पयेत् ॥४६॥
हेतिप्रमोक्षो न तु रङ्गमध्ये कार्यो भवेत्पार्थिववंशमुख्य॥
आहार्यमेतत्कथितं समासाद्वक्ष्याम्यतश्चाङ्गिकमेव तुभ्यम् ॥४७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आहार्याभिनयो नाम सप्तविंशोऽध्याय ॥२७॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP