खण्डः ३ - अध्यायः १४७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
ईशानं च तथा वह्निं विरूपाक्षं समीरणम् ॥१॥
विज्ञेयं यदुशार्दूल देवमूर्तिचतुष्टयम्॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ॥२॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
चैत्रशुक्ले महाभागं प्रतिपत्प्रभृति क्रमात् ॥३॥
भौमनादेयताडाकसारसैः स्नानमाचरेत्॥
दध्ना तिलैर्यवैर्होमो घृतेन च तथा भवेत् ॥४॥
कर्पूरकुङ्कुमं चैव तथैवागुरुचंदने॥
ब्राह्मणेषु प्रदातव्यं तथा राजन्दिन क्रमात ॥५॥
दिनत्रयं तथाश्नीयात्सायंप्रातरयाचितम्॥
दिनमेकं तथाश्नीयाद्ब्रह्मचारी नरोत्तम ॥६॥
एवं संवत्सरं कृत्वा व्रतं पुरुषसत्तम॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥७॥
मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः॥
जन्मान्तरे स्याद्द्विजवर्यमुख्यो वेदप्रसक्तो बहुयज्ञयाजी ॥८॥
इति श्रीष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे देवमूर्तिव्रतवर्णनोनाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४७॥
N/A
References : N/A
Last Updated : January 24, 2023
TOP