खण्डः ३ - अध्यायः २२२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
वज्र उवाच॥
भगवञ्श्रोतुमिच्छामि रोचेषु च पृथक्पृथक्॥
उपोषितेन किं कार्यं किं फलं च तथा भवेत् ॥१॥
मार्कण्डेय उवाच।॥
इतिहासं तथात्रेमं निबोध गदतो मम॥
धनाध्यक्षस्य संवादमष्टावक्रस्य चाप्यथ ॥२॥
अष्टावक्रः पुरा कन्यां प्रार्थयामास धर्मवित्॥
ऋषेर्भार्गवमुख्यस्य वदान्यस्य तु सुप्रभाम् ॥३॥
रूपद्रविणसम्पन्नां स चोवाच मुनिं मुनिः॥
स्त्रीस्वभावो यदि ज्ञातस्त्वया धर्मविदां वर ॥४॥
तत्तेऽहं तव दास्यामि कन्यां बालमृगेक्षणाम्॥
॥अष्टावक्र उवाच ॥
स्त्रीस्वभावो न विज्ञातो मया ब्राह्मणसत्तम ॥५॥
कुतश्च तन्मया ज्ञातस्तन्ममाचक्ष्व पृच्छतः॥
॥भार्गव उवाच ॥
उत्तरां त्वं दिशं पश्य सा ते वक्ष्यति तत्त्वतः ॥६॥
स्त्रीस्वभावं महाभाग गच्छ शीघ्रमतन्द्रितः॥
॥मार्कण्डेय उवाच ॥
एवमुक्तः स धर्मात्मा प्रययावुत्तरां दिशम् ॥७॥
गङ्गाद्वारात्क्रमेणाथ त्वरितो मुनिपुङ्गवः॥
तीर्थानि सरितश्चैव शैलानि नगराणि च ॥८॥
विलङ्घ्य धनदावासमाससाद महातपाः॥
कैलासे पर्वतश्रेष्ठे सर्वकामसमृद्धिमत् ॥९॥
तत्रासीनं महाभागं स ददर्श धनाधिपम्॥
वरासनगतं वीरं हारभाराञ्चितोदरम् ॥१०॥
वामभागे किरीटेन विनीतेन विराजितम्॥
कुण्डलाभ्यां विचित्राभ्यां केयूरैरंगदैस्तथा ॥११॥
गदाधरं महाकायमेकलोचनपिङ्गलम्॥
तथा च शङ्खपद्माभ्यां निधिभ्यां च विराजितम् ॥१२॥
यक्षैश्च सुमहाभागैर्भीमरूपपराक्रमैः॥
दीर्घभद्रेण वीरेण पूर्णभद्रेण चाप्यथ ॥१३॥
मणिभद्रेण वीरेण यक्षभद्रेण चाप्यथ॥
दीर्घबाहुमहाबाहुपद्मकिंजल्कसृञ्जयैः ॥१४॥
स्वभद्रेण सुपार्श्वेन तथा मणिधरेण च॥
यक्षैश्चान्यैश्च धर्मज्ञ महा बलपराक्रमैः ॥१५॥
नानावेशैश्च गन्धर्वैर्महासत्त्वैर्महाबलैः॥
चित्राङ्गदश्चित्ररथश्चित्रसेनोऽथ तुम्बुरुः ॥१६॥
पूर्णायुरनघश्चैव तथा शालिशिराः प्रभुः॥
शृङ्गारकर्णोऽतिबलो भीमो भीमपराक्रमः ॥१७॥
एते चान्ये च गन्धर्वास्तथैवाप्सरसः शुभाः॥
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुसा १८॥
विश्वाची च घृताची च पञ्चचूडा मनोरमा॥
एताभिश्च तथान्याभिर्देवस्त्रीभिः सहस्रशः ॥१९॥
स ददर्श धनाध्यक्षं समन्तात्परिवारितम्॥
पादार्घ्याचमनीयाद्यैर्धनाध्यक्षेण पूजितः ॥२०॥
वरासनगतो राजंस्तुष्टाव धनदं प्रभुम्॥
॥अष्टावक्र उवाच ॥
नमोऽस्तु ते धनाध्यक्ष यज्ञाध्यक्ष नमोऽस्तु ते ॥२१॥
महाबाहो महासत्त्व राजराजामरप्रभो॥
ऋषिसङ्घस्तुताचिन्त्य वाममौले वरप्रद ॥२२॥
पिङ्गाक्ष विपुलग्रीव देवेश नरवाहन॥
गदाधर विशालांस सूर्यतेजःसमप्रभ ॥२३॥
भवाञ्छर्वसखो नित्यं विष्णोरंशस्तथा भवान्॥
देवासुरेऽथ संग्रामे भवता विनिपातिताः ॥२४॥
बहवो दानवा वीरा महाबलपराक्रमाः॥
लोकान्धारयसे सर्वांस्त्वमेको यक्षपार्थिवः ॥२५॥
भक्तानुकम्पी सततं चोत्तराशाप्रभुः प्रभुः॥
धर्मसेतुर्जगत्यस्मिंस्त्वयि सर्वं प्रतिष्ठितम् ॥२६॥
मार्कण्डेय उवाच॥
एवं धनाधिपेनोक्तः प्रत्युवाच महामुनिः॥
धर्ममहाफलं त्वत्तः श्रोतुमिच्छामि वित्तप ॥२७॥
॥वैश्रवण उवाच ॥
ब्रह्मन्स्वीयस्य च रुचौ देवतायाश्च पूजनम्॥
धर्मं महाफलं विप्र तन्मे निगदतः शृणु ॥२८॥
सर्वेषु विप्र रोचेषु सोपवासो जितेन्द्रियः॥
देवतापूजनं कृत्वा यथोक्तं फलमश्नुते ॥२९॥
चैत्रशुक्लसमारंभाद्रोचे व्रतमनुत्तमम्॥
रोचे यथेष्टं गृह्णीयात्संवत्सरमतन्द्रितः ॥३०॥
त्रिंशद्रोचानि विप्रेंद्र मासमेकं समाहितः॥
संवत्सरेण नक्ताशी पूजयेद्रोचदेवताम् ॥३१॥
प्रत्यहं सुमहाभाग तेन काममवाप्नुयात्॥
आषाढमासे यः कुर्याद्रोचव्रतमनुत्तमम् ॥३२॥
नक्तभोजी प्रतिदिनं चैककालाशनो द्विजः॥
आहारकालादन्यत्र तोयपानं विवर्जयेत् ॥३३॥
ब्राह्मरोचादथारभ्य यावद्रोचं तु पौरुषम्॥
रोचे तु पौरुषे प्राप्ते कृत्वा ब्राह्मणतर्पणम् ॥३४॥
वासांसि दत्त्वा विप्रेभ्यः सुवर्णं रजतं तथा॥
स्वर्गलोकमवाप्नोति दीर्घकालं द्विजोत्तम ॥३५॥
जन्म चासाद्य मानुष्यं रूपवानभिजायते॥
विरोगो बलवान्नित्यं शत्रुजिद्बलवानपि ॥३६॥
स्त्रियश्च मुख्याः प्राप्नोति कुले जन्म तथोत्तमे॥
सौभाग्यं महदाप्नोति लावण्यमपि चोत्तमम् ॥३७॥
सद्भिर्मैत्रीं तथा विद्यां धर्मे चैवोत्तमां गतिम्॥
वाहनान्यपि मुख्यानि यश्चान्यदभिवाञ्छति ॥३८॥
रोचेषु मासे सफलं तवोक्तं नक्ताशिनो देववरस्य विप्र॥
अतः परं ते कथयामि रोचे पृथक्फलं सम्यगुपोषितस्य ॥३९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डेमार्कण्डेयवज्रसंवादे रोचेषु मासोपवासफलनिरूपणोनाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥२२२ ॥
N/A
References : N/A
Last Updated : January 27, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP