खण्डः ३ - अध्यायः ०४७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
परस्य पुरुषस्यैषा संसारे विकृतिर्मता॥
सर्वा च विकृतिः कृष्णा तेन संसारपालनम् ॥१॥
कृष्णरूपं स भगवान्विधत्ते भूतभावनः॥
ब्रह्मणैव हरेः प्रोक्तं सर्वाभरणधारणम् ॥२॥
बिभर्ति वक्षसा ज्ञानं कौस्तुभं विमलं हरिः॥
कृष्णा दीर्घा विचित्रा च वनमाला प्रकीर्तिता ॥३॥
यथा सर्वमिदं बद्धं जगद्राजंश्चराचरम्॥
अविद्या वसनं तस्य संसारपरिपालिनी ॥४॥
विद्या शुक्ला विनिर्दिष्टा कृष्णमज्ञानमुच्यते॥
अज्ञानविद्या मध्यस्था त्वविद्या परिकीर्तिता ॥५॥
न कृष्णा न तथा शुक्ला तेन विद्येयमुत्तमा॥
अन्तरालं बिभर्त्येव सुवर्णकनकोपमम् ॥६॥
मनस्तु गरुडो ज्ञेयः सर्वभूतशरीरगम्॥
तस्माच्छीघ्रतरं नास्ति तथैव बलवत्तरम् ॥७॥
दिशश्चतस्रो धर्मज्ञ तावत्यो विदिशस्तथा॥
बाहवोऽष्टौ विनिर्दिष्टास्तस्य देवस्य शार्ङ्गिणः ॥८॥
बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन॥
विज्ञेयं देवदेवस्य तस्य वक्त्रचतुष्टयम् ॥९॥
वासुदेवश्च भगवांस्तथा सङ्कर्षणः प्रभुः॥
प्रद्युम्नश्चानिरुद्धश्च बलाद्याः परिकीर्तिताः ॥१०॥
द्वौद्वौ भुजौ तु विज्ञेयौ प्रतिवक्त्रं महात्मनः॥
वासुदेवस्य करयोर्ज्ञातव्यौ सूर्यरात्रिपौ ॥११॥
सङ्कर्षणस्य कारयोस्तथा मुसललाङ्गले॥
प्रद्युम्नस्य तथा ज्ञेयौ चापबाणौ महाभुज ॥१२॥
आनिरुद्धम्य विज्ञेयो चर्मखङ्गौ विचक्षणैः॥
पुरुषप्रकृती ज्ञेयौ सूर्याचन्द्रमसावुभौ ॥१३॥
एते च वासुदेवस्य करे चक्रगदे मते॥
कालं च लाङ्गलं विद्धि मृत्युं च मुसलं तथा ॥१४॥
ताभ्यां संकर्षणो रुद्रः कर्षतीदं चराचरम्॥
प्रद्युम्नस्य करे वह्नेः शार्ङ्गं चापं तु यत्स्मृतम् ॥१५॥
ध्येयं तु परमं लक्ष्यं ताभ्यां छिन्दन्ति योगिनः॥
ब्रह्मणस्त्वनिरुद्धस्य करे चर्म महाभुज ॥१६॥
अज्ञानावरणं जेयं जगत्सृष्टिप्रयोजनम्॥
वैराग्यं नन्दकं खङ्गं छित्त्वा वै तेन बन्धनम्॥
नदन्ति योगिनो यस्मात्तस्मात्तन्नन्दकं स्मृतम् ॥१७॥
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य॥
एवं शरीरेण जगत्समग्रं बिभर्ति देवः स जगत्प्रधानः ॥१८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP