संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८७

खण्डः ३ - अध्यायः ०८७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच ॥
प्रासादमथ वक्ष्यामि सर्वतोभद्रसंज्ञितम॥
चतुरात्मा हरिर्यत्र कर्तव्यो जगतीपते ॥१॥
एकत्र जगती कार्या चतुरस्रा मनोरमा॥
तस्यां गर्भगृहाः कार्या विंशतिश्चतुरुत्तराः ॥२॥
येषां पृष्ठे जगत्यूर्द्धवं प्राकारं विनिवेशयेत्॥
सर्वत्र मेखलाकारं तत्रापि विनिवेशयेत ॥३॥
प्रासादका महाराज चतुर्विंशतिरेव च॥
चतुर्षु दिक्षु सोपानं मेखलायां निवेशयेत् ॥४॥
सोपानस्त्र्यंशविस्तारो मेखलाया प्रकीर्तितः॥
सोपानोभयतो राजन्प्रासादास्ते त्रयस्त्रयः ॥५॥
भवन्ति मेखलापृष्ठे तदादौ गर्भमन्दिरम्॥
विमेखलं तु सामान्यं मध्ये तेषां विमण्डपम ॥६॥
हिमवन्संज्ञितौ कार्यौ तस्य पार्श्वे विमेखलौ॥
सोपानमूले प्रासादे द्वेद्वे कार्ये मनोरमे ॥७॥
दंष्ट्रे देवकुलाख्ये ते सामान्याख्ये विमण्डपे॥
तथैव जगतीपृष्ठे कोणे देवकुलं न्यसेत् ॥८॥
प्रासादो मध्यमश्चात्र कर्तव्यो मण्डपान्वितः॥
चत्वारो मण्डपाश्चात्र कार्याः शिखरसंज्ञिताः ॥९॥
मध्यप्रासादकोणेषु तथा मण्डपसन्धिषु॥
द्विद्विगर्भगुहान्रम्यान्प्रासादान्विनिवेशयेत् ॥१०॥
एकैकं मण्डपं चात्र द्वारत्रितयभूषितम्॥
चतुर्थे च तथा द्वारे देवगर्भगृहं भवेत् ॥११॥
मण्डपस्य च ये द्वारा कार्यास्ते स्तम्भभूषिताः॥
प्रासादस्यास्य शिखरा भवन्त्येव नवैव तु ॥१२॥
उच्छ्रितं नवमं शृङ्गं तुल्यं स्याच्छिखराष्टकम्॥
मध्यमं शिखरं तत्र कार्यं शिखरवर्जितम् ॥१३॥
रूपकैर्विविधैर्युक्तं न मण्डं न च शूलवत्॥
अष्टौ तु शिखरास्तत्र कर्तव्याः कुहरान्विताः ॥१४॥
जालागवाक्षकोपेतैः कुहरैर्नृप भूषिताः॥
सर्वत्र शिखराः कार्याः शुभामलकसारकाः ॥१५॥
सचक्राः सपताकाश्च सध्वजाश्च नराधिप॥
खेऽभिषक्त इवाभाति प्रासादोऽयं समुच्छ्रितः ॥१६॥
क्रमतो देवतान्यास प्रासादेऽस्मिन्निबोध मे॥
वासुदेवोऽत्र कर्तव्यः पूर्वाशाभिमुखो नृप ॥१७॥
पश्चिमाशामुखो वापि न कार्यश्चान्यदिङ्मुखः॥
वासुदेवदिशं चात्र पूर्वां राजन्प्रकल्पयेत् ॥१८॥
तस्याश्चैवानुसारेण दिशः स्यात्परिकल्पना॥
दक्षिणाशामुखः कार्यो देवः सङ्कर्षणः प्रभुः ॥१९॥
पश्चिमाशामुखः कार्यः प्रद्युम्नश्चाप्यनन्तरम्॥
उत्तरशामुखो राजन्ननिरुद्धो विधीयते ॥२०॥
दिग्गर्भा ये मया प्रोक्ता गृहा मण्डलसन्धिगाः॥
प्राङ्मण्डपाद्दक्षिणतो लक्ष्मीं तत्र तु कारयेत ॥२१॥
दक्षिणाद्वामतो निद्रां कालरात्रीं तु दक्षिणे॥
पश्चिमाद्वामतः सिद्धिं रतिं तस्यैव दक्षिणे ॥५२॥
उत्तराद्वामतः कीर्तिं दक्षिणेन सरस्वतीम्॥
पूर्वस्यां वामभागे तु तथा पुष्टिं निवेशयेत् ॥२३॥
ऐशान्यादिक्रमाः कार्याः कोणप्रासादगास्त्विमे॥
अश्वशीर्षं वराहं च नरसिंहं त्रिविक्रमम् ॥२४॥
प्रासादकेषु कर्तव्या मेखला बन्धकेषु च॥
चतुर्विंशतिरित्येते विबुधा विबुधोत्तम ॥२५॥
तार्क्ष्यं शङ्खं तथा पद्मं चक्रं लाङ्गलमेव च॥
मुसलं चाप्यनन्तं च गदां तालं तथैव च ॥२६॥
त्रिशूलं च तथा शार्ङ्गं शरं मकरमेव च॥
परशुं मुद्गरं चैव चर्म पाशं च पार्थिव ॥२७॥
पट्टिशं नन्दकं चैव शक्तिमृष्टिं तथैव च॥
वज्रं च कौस्तुभं चैव वनमालां च यादव ॥२८॥
दंष्ट्रां देवगृहाणां मे त्वं विन्यासमिदं शुणु॥
इन्द्राग्नी पूर्वतः कार्यौ दक्षिणेन तथा नृप ॥२९॥
यमश्च निर्ऋतिश्चैव पश्चिमे वरुणानिलौ॥
उत्तरेण च कर्तव्यौ धनेश्वरमहेश्वरौ ॥३०॥
ग्रहाष्टकं वा कर्तव्यं दंष्ट्रा देवगृहेषु च॥
आदित्यशुक्रौ पूर्वेण याम्येन च कुजासुरौ ॥३१॥
शनैश्चरशशांकौ च तथा पश्चिमतो नृप॥
उत्तरेण च कर्तव्यौ चन्द्रपुत्रबृहस्पती ॥३२॥
दंष्ट्रादेवगृहावत्र वासुदेवस्य यावुभौ॥
वासुदेवप्रतीहारौ तयोर्वा कारयेन्नृप ॥३३॥
सुभद्रवसुभद्राख्यौ त्रैलोक्यस्येश्वरावुभौ॥
आषाढयज्ञताताख्यौ कार्यौ सङ्कर्षणस्य तु ॥३४॥
जयं च विजयं चैव प्रद्युम्रस्य तु कारयेत॥
आमोदं च प्रमोदं च अनिरुद्धस्य पार्थिव ॥३५॥
प्रागुक्तं देवतान्यासाद्दंष्ट्रा देवकुलेष्वथ॥
प्रतीहारप्रतिष्ठानं शस्यते बहुभिर्गुणैः ॥३६॥
त एव ज्ञेया दिक्पालास्त एव च तथा ग्रहाः॥
एतत्त्वं जगतीबन्धे शृणु देवान्यथाक्रमम् ॥३७॥
गायत्रीं चतुरो वेदान्वैष्णवीं चापराजिताम्॥
मृत्युं कालं यमं दण्डं कवचं शरमेव च ॥३८॥
सांख्यं योगं पञ्चरात्रं ज्ञानं पाशुपतं तथा॥
व्यासवाल्मीकिमार्कण्डं महाभूताननन्तरम् ॥३९॥
एवंविधेऽत्र प्रासादे विस्तीर्णमजिरं भवेत॥
तोयैस्कृत्रिमैर्दिव्यैः सम्बद्धैरुपशोभितम् ॥४०॥
द्वारपालाश्चतस्रस्तु ततः कार्या विजानता॥
प्रासादो द्वारशालाख्यः समरूपो मनोहरः ॥४१॥
श्रेणीगताश्च प्राकाराः कार्या गर्भगुहाः शुभाः॥
प्रादुर्भावं न्यसेत्तेषु विष्णोरमिततेजसः ॥४२॥
अथ वा पार्थिवश्रेष्ठ सर्वान्देवगणान्क्रमात॥
प्रासादमेतद्विधिवद्यः करोति महीपते ॥४३॥
सर्वेषां देवतानां तु नित्यं विहितपूजनम्॥
कल्पं त्रेतायुगस्यादौ चक्रवर्त्यभिधीयते ॥४४॥
परिवेशस्तथा कार्यः स्वर्गे वसति कामतः॥
ततः सायुज्यतामेति देवदेवस्य चक्रिणः ॥४५॥
फलं त्रैलोक्यदानस्य ध्रुवमाप्नोति मानवः॥
प्रासादेस्मिन्सकृत्कृत्वा सर्वेषामेव पूजनम् ॥४६॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
यथेष्टं काममाप्नोति नात्र कार्या विचारणा ॥४७॥
सचक्रः सपताकोऽयं प्रासादोऽतिमनोहरः॥
यावद्दर्शनमायाति तावन्नश्यन्त्युपद्रवाः ॥४८॥
व्याधिश्चैवापमृत्युश्च ईतयश्च तथा नृप॥
नाशमायान्त्यसन्देहं तत्प्रविष्टस्य यादव ॥४९॥
नाकालमृत्यवो राजन्योगिन्यो यक्षराक्षसाः॥
प्रेता विनायका वापि प्रभवन्त्यपि कस्यचित् ॥५०॥
अत्र सात्त्वतमुख्या ये सायुज्यं यान्ति ते ध्रुवम्॥
ये देवग्रहगाश्चात्र दासीदासगणाश्च ये ॥५१॥
सर्वे ते स्वर्गमायान्ति यावदिन्द्राश्चतुर्दश॥
यस्य राज्ञस्तु विषये प्रासादोऽयं भवत्यपि ॥५२॥
स चापि शक्रलोकस्थश्चिरं मोदति पार्थिवः॥
तस्मिन्पताकां यो दद्यात्तया पापं विधूयते ॥५३॥
ईतयश्च शमं यान्ति पुण्यमाप्नोत्यनुत्तमम्॥
कृत्वा सितं तं प्रासादं चक्रवर्त्यभिधीयते ॥५४॥
एवं विधानविहिते मया देवा यथोदिताः॥
सर्वे सन्निहितास्तत्र भवन्ति वसुधाधिप ॥५५॥
तत्र यत्सलिलं तिष्ठेत्तत्तीर्थं सततं भवेत्॥
तत्र यात्राविधाने तु सर्वे देवाः सवासवाः ॥५६॥
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः॥
राजर्षयः पुराणाश्च सर्वे समुदिता गणैः ॥५७॥
दिविष्ठाः सुमहात्मानः शक्रतुल्यपराक्रमाः॥
गन्धर्वाप्सरसश्चैव शुभा भूतगणाश्च ये ॥५८॥
सशरीराः समायान्ति इष्टं देवमहोत्सवम्॥
तत्रोत्सवं नरः पश्यन्ध्रुवं कल्याणभाग्भवेत् ॥५९॥
तत्र हिंसा न कर्तव्या देवद्रव्यस्य कर्हिचित॥
राजा वा तन्नियुक्तो वा तत्रास्याधिकृतस्तु यः ॥६०॥
स याति नरकं घोरं सपुत्रपशुबान्धवः॥
अस्मिँल्लोके ध्रुवं तस्य स्थाननाशो भविष्यति ॥६१॥
ये तत्र भक्ता मनुजाः सपशुद्रव्यसञ्चयाः॥
नित्यं वृद्धिमुपायान्ति देवदेवप्रसादतः ॥६२॥
द्रष्टव्यमेतत्त्रिदिवेशवेश्म कृतं यदन्येन नरेन्द्रचन्द्र॥
दृष्ट्वा हि पापैः सकलैर्मनुष्यो विमुच्यते पुण्यमवाप्नुयाच्च ॥६३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सर्वतोभद्रप्रासादलक्षणं नाम सप्ताशीतितमोऽध्यायः॥८७॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP