खण्डः ३ - अध्यायः ३४९
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥वज्र उवाच ॥
विश्वरूपं समाचक्ष्व देवदेवस्य चक्रिणः॥
कस्य तूद्दर्शितं तेन भृगुवंशविवर्धन ॥१॥
मार्कण्डेय उवाच॥
एकान्तभावनाभक्तैर्दृष्टानि बहुशः पुरा॥
विश्वरूपाणि देवस्य यान्यशक्यानि भाषितुम् ॥२॥
वासुदेवप्रसादेन न भवेद्दिव्यदर्शनः॥
विश्वरूपधरं द्रष्टुं तावच्छक्तिर्न विद्यते ॥३॥
तत्र यद्दर्शितं चैव नारदस्य पुरानघ॥
तत्तेऽहं संप्रवक्ष्यामि विश्वदेवेन विष्णुना ॥४॥
नारदः सुमहद्भूतं नरनारायणाश्रयम्॥
बदर्याश्रममित्युक्तं जगामातिमनोहरम् ॥५॥
चतुरात्मा हरिर्यत्र धर्मपुत्रत्वमागतः॥
हरिः कृष्णो नरश्चैव तथा नारायणः प्रभुः ॥६॥
हरिः कृष्णः स्थितो वृत्ते तदा लोकान्तरे किल॥
नरनारायणौ देवौ तपस्युग्रे तथा रतौ ॥७॥
अष्टचक्रे स्थितौ याने भूतियुक्ते मनोहरे॥
एकपादौ निरालम्बौ तथैवोर्ध्वभुजावुभौ ॥८॥
ददर्श नारदस्तत्र तावुभौ दीप्ततेजसौ॥
अभिवाद्य गतौ देवौ तयोस्तु पुरतः स्थितः ॥९॥
पाद्यार्घाचमनीयाद्यैः पूजितः संस्तदा द्विजः॥
नरनारायणाभ्यान्तु तत्रोवास तदाश्रमे ॥१० ।
आश्रमस्थः स विप्रेन्द्रः कदाचिद्देवसत्तमौ॥
ददर्श विघ्नं कुर्वाणौ देवकर्म तथानघौ ॥११॥
ततः कृताह्निको प्राह नारदस्तौ जगद्गुरू॥
भवन्तौ जगतां नाथौ भवन्तौ परमेश्वरौ ॥१२॥
आराधनार्थं कस्येह तपस्यभिरतावुभौ॥
भवद्भ्यामर्च्यते कश्च दैवे पित्र्ये च कल्प्यते ॥१३॥
प्रकृतिर्या परास्माकं यतः सर्वस्य संभवः॥
मर्यादादर्शनार्थाय नवं तमपराजितम् ॥१४॥
पूजयामः सदा ब्रह्मन्दैवे पित्र्ये च कल्पिते॥)
विप्रान्देव गुरून्गाश्च पितॄंश्चैव जगत्त्रये ॥१५॥
येऽर्चयन्त्यर्चयन्त्येव तं देवं परमेश्वरम्॥
योऽयमप्यर्चयेद्देवं तेन स्यात्पूजितो हरिः ॥१६॥
विधिहीनं महाभाग स हि सर्वगतो यतः॥
देवस्यान्यस्य यच्चार्चां कर्त्तुकामोऽर्चयेद्धरिम् ॥१७॥
तेन तस्य कृतार्चा स्याद्द्विजश्रेष्ठ विधानतः॥
देवे यस्मात्सुराः सर्वं त्रैलोक्यमपि यद्गतम् ॥१८॥
कृता त्रैलोक्यपूजा स्याद्विष्णुपूजाविधायिना॥
नास्ति लोकेषु तद्ब्रह्म यत्र नास्ति जनार्दनः ॥११॥
न तदप्यस्ति लोकेषु यन्न विष्णौ प्रतिष्ठितम्॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥२०॥
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः॥
क्षीरोद मध्ये द्वीपोऽस्ति वहुयोजनविस्तृतः ॥२१॥
तत्र ते पुरुषाः श्वेताः शशाङ्कसमतेजसः॥
उपेताश्च तथा सर्वे चक्रवत्युपलक्षणैः ॥२२॥
पञ्चरात्रविधानज्ञाः पूजयन्ति सदा हरिम्॥
मायादेहमथास्थाय देवोऽपि मधुसूदनः ॥२३॥
तत्पूजां प्रतिगृह्णाति शिरसा सततं हरिः॥
तैस्सार्धं रमते नित्यं तैश्च संपूज्यते सदा ॥२४॥
एकान्तभावोपगता ये भवन्तीह मानवाः॥
अकामाश्च जगन्नाथमर्चयन्ति सदा च ये ॥२५॥
ते यान्ति देहमुत्सृज्य तदद्वीपं श्वेतसंज्ञितम्॥
अनिष्यन्दा निराहाराः सर्वज्ञाः सर्वदर्शिनः ॥२६॥
सर्वेश्वरा नित्यतृप्ताः परं सुखमुपागताः॥
पूजयन्ति हरिं तत्र दिव्यं वर्षशतं पुनः ॥२७॥
ततोऽर्कमण्डलं भित्त्वा अनिरुद्धं विशन्ति ते॥
ब्रह्मँस्तपोभिः प्रद्युम्नं ततः संकर्षणं प्रभुम् ॥२८॥
वासुदेवं ततः प्राप्य तेनैव सदृशास्ततः॥
भवन्ति सर्वे सर्वत्र सर्वदा सर्वशक्तयः ॥२९॥
मुक्ताश्च सर्वदुःखेभ्यः परं सुखमुपागताः॥
स त्वं शीघ्रमितो गत्वा श्वेतद्वीपनिवासिनः ॥३०॥
पश्य त्वं पुरुषान्ब्रह्मन्प्रसन्नः स विभुस्तव॥
दर्शयिष्यति रूपं तु त्रैलोक्याद्भुतमद्भुतम् ॥३१॥
विश्वं ब्राह्मणशार्दूल प्रीतं मधुनिषूदनम्॥
एकतश्च द्वितश्चैव त्रितश्चैव महातपाः ॥३२॥
तं तु देशं गता ब्रह्मन्न तैर्दृष्टो जनार्दनः॥
एकान्तभावोपगतास्तेन यस्माज्जगद्गुरोः ॥३३॥
केवलं तैः श्रितः श्लोकः श्वेतद्वीपनिवासिभिः॥
उदीरितो महाभागैः सर्वकल्मषवर्जितैः ॥३४॥
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन॥
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥३५॥
श्लोकमेतं तु ते श्रुत्वा श्रुतवन्तस्तथा गिरम्॥
अशरीरां महाभाग सर्वभूतावहां हरेः ॥३६॥
श्वेतद्वीपमथासाद्य मृत्युमाप्नोति कर्हिचित्॥
श्वेतद्वीपे गतिर्नास्ति विना चैकान्तिभिर्द्विजाः ॥३७॥
सामन्यभावना भक्ता भवन्तश्च तपोधनाः॥
तपसोग्रेण संयुक्तास्तेन मे देशमागताः ॥३८॥
सामान्यभक्तिसत्त्वाश्च पुनर्व्रजत मा चिरम॥
भवद्भिः पुरुषा दृष्टाः श्वेतद्वीपनिवासिनः ॥३९॥
एभिः श्लोकैस्तथा दृष्टो भवतीति जनार्दनः॥
एकान्तभावनासक्तैः श्लोकैस्तु पुरुषैरिमम् ॥४०॥
जप्तव्यं सततं विप्रास्ततः पुनरिहेष्यथ॥
श्लोकोऽयं पावनः पुण्यः सर्वाघविनिषूदनः ॥४१॥
श्लोकैर्भावेन कर्तव्यौ जपहोमौ विजानता॥
धूपदीपान्नपुष्पाणां तथैव च निवेदनम् ॥४२॥
श्लोकमेतं पठेद्विप्रा नमस्कारे प्रदक्षिणे॥
स्नानमेतेन कर्तव्यं तथा चान्ते जलं द्विजाः ॥४३॥
सर्वपापहरं पुण्यं मोक्षदं सर्वकामदम्॥
श्लोक एष विनिर्दिष्टः सर्वकामप्रदः शिवः ॥४४॥
आपत्प्राप्तेन जप्तव्यं तन्मोक्षार्थं तथैव च॥
एतस्य जापः कर्तव्यो नित्यमेव विजानता ॥४५॥
एतस्य जापात्पुरुषः सर्वान्कामानुपाश्नुते॥
एतां श्रुत्वा तु ते वाणीं चागता मगधाः पुनः ॥४६॥
दृष्टवन्तो वसुं तत्र यजमानं महीपतिम्॥
याजको यस्य धर्मात्मा देवाचार्यो बृहस्पतिः ॥४७॥
अदृश्येन हृतो भागस्तत्र देवेन विष्णुना॥
जगृहुर्देवताः सर्वा दृश्यभागात्पुरोधसः ॥४८॥
विष्टं प्रति गतक्रोधं देवाचार्यं बृहस्पतिम्॥
एकतश्च द्वितश्चैव त्रितश्चैवमवोचतम् ॥४९॥
अदृश्यः सर्वदेवानां तं कथं द्रष्टुमिच्छसि॥
इत्येवमनुनीतस्तु देवाचार्यो बृहस्पतिः ॥५०॥
समापयामास तदा तं यज्ञं पार्थिवस्य च॥
एकान्तभावोपगता ऋषयोऽपि जनार्दनम् ॥५१॥
आगता देवकार्यार्थं श्वेतद्वीपात्पुरा द्विज॥
श्वेतद्वीपं पुनः प्राप्तं पुनरावृत्तिदुर्लभम् ॥५२॥
तस्मात्तं देवदेवेशं तत्रस्थं पश्य नारद॥
त्वयापि देवकार्याणि कर्तव्यानि बहून्यथ ॥५३॥
श्वेतद्वीपगतस्यापि तेन ते द्विज साम्प्रतम्॥
न भविष्यति लोकेषु गतिर्निर्वाणकारिणी॥
कल्पावसाने तु गतिं तां त्वं विप्र गमिष्यसि ॥५४॥
मार्कण्डेय उवाच॥
एवमुक्तस्ततः शीघ्रं मनोमारुतरंहसा॥
अभिवाद्याथ तौ देवौ तं द्वीपं नारदो गतः ॥५५॥
स तत्र गत्वा ददृशे श्वेतद्वीप निवासिनः॥
पूजयामास शिरसा तांश्च भक्त्या स नारदः ॥५६॥
प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः॥
ददर्श तानेव नराञ्श्वेताञ्चन्द्रप्रभाञ्छुभान् ॥५७॥
पूजयामास शिरसा मनसा तैस्तु पूजितः॥
दिदृक्षुर्जाप्यपरमः सर्वकृच्छ्रधरः स्मृतः ॥५८॥
भूत्वैकाग्रमना विप्रश्चोर्ध्वबाहुर्महाभुजः॥
स्तोत्रं जगौ स विश्वाय निर्गुणाय गुणात्मने ॥५९॥
वासुदेवाय शान्ताय तथा विश्वसृजे द्विज॥
अनन्तायाप्रमेयाय सर्वगायातिरंहसे ॥६०॥
अमितबलपराक्रमाय तस्मै त्रिदशमुनिप्रतिपूजिताय नित्यम्॥
भवभवभरनाशनाय विष्णोः प्रणतजन प्रतिपापनाशनाय ॥६१॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे श्रीनारदस्य श्वेतद्वीपगमनवर्णनो नामैकोनपञ्चाशदधिक त्रिशततमोऽध्यायः ॥३४९॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP